१७. झानपच्चयनिद्देसवण्णना

१७. वितक्कविचारपीतिसोमनस्सदोमनस्सुपेक्खाचित्तेकग्गतासङ्खातानीति एत्थ यदिपि सोमनस्सदोमनस्ससङ्खातानि झानङ्गानि नत्थि, सुखदुक्खसङ्खातानि पन सोमनस्सदोमनस्सभूतानेव झानङ्गानि, न कायिकसुखदुक्खभूतानीति इमस्स दस्सनत्थं सोमनस्सदोमनस्सग्गहणं कतं. ननु च ‘‘द्विपञ्चविञ्ञाणवज्जेसू’’ति वचनेनेव कायिकसुखदुक्खानि वज्जितानीति सुखदुक्खग्गहणमेव कत्तब्बन्ति? न, झानङ्गसुखदुक्खानं झानङ्गभावविसेसनतो. ‘‘द्विपञ्चविञ्ञाणवज्जेसु सुखदुक्खुपेक्खाचित्तेकग्गतासङ्खातानी’’ति हि वुत्ते द्विपञ्चविञ्ञाणेसु उपेक्खाचित्तेकग्गताहि सद्धिं कायिकसुखदुक्खानिपि वज्जितानीति एत्तकमेव विञ्ञायति, न पन यानि सुखदुक्खानि झानङ्गानि होन्ति, तेसं झानङ्गभूतो सुखभावो दुक्खभावो च विसेसितो, तस्मा सोमनस्सदोमनस्सभावविसिट्ठोयेव सुखदुक्खभावो सुखदुक्खानं झानङ्गभावोति दस्सनत्थं सोमनस्सदोमनस्सग्गहणं करोति. तेन ‘‘द्विपञ्चविञ्ञाणवज्जेसू’’ति वचनेन वज्जियमानानम्पि सुखदुक्खानं सोमनस्सदोमनस्सभावाभावतो झानङ्गभावाभावोति दस्सितं होति. यथावज्जिता पन सुखदुक्खोपेक्खेकग्गता कस्मा वज्जिताति? यत्थ झानङ्गानि उद्धरीयन्ति चित्तुप्पादकण्डे, तत्थ च झानङ्गन्ति अनुद्धटत्ता. कस्मा पन न उद्धटाति तं दस्सेतुं ‘‘पञ्चन्नं पन विञ्ञाणकायान’’न्तिआदिमाह.

अभिनिपातमत्तत्ताति एतेन आवज्जनसम्पटिच्छनमत्तायपि चिन्तनापवत्तिया अभावं दस्सेति. ‘‘तेसु विज्जमानानिपि उपेक्खासुखदुक्खानी’’ति पोराणपाठो. तत्थ उपेक्खासुखदुक्खेहेव तंसमानलक्खणाय चित्तेकग्गतायपि यथावुत्तेनेव कारणेन अनुद्धटभावो दस्सितोति दट्ठब्बो. पुब्बे पन सत्त अङ्गानि दस्सेन्तेन चत्तारि अङ्गानि वज्जितानीति तेसं वज्जने कारणं दस्सेन्तेन न समानलक्खणेन लेसेन दस्सेतब्बं. अट्ठकथा हेसाति. यदि च लेसेन दस्सेतब्बं, यथावुत्तेसुपि तीसु एकमेव वत्तब्बं सिया, तिण्णं पन वचनेन ततो अञ्ञस्स झानङ्गन्ति उद्धटभावो आपज्जति, यथावुत्तकारणतो अञ्ञेन कारणेन अनुद्धटभावो वा, तस्मा तंदोसपरिहरणत्थं ‘‘उपेक्खाचित्तेकग्गतासुखदुक्खानी’’ति पठन्ति. ये पन ‘‘झानङ्गभूतेहि सोमनस्सादीहि सुखदुक्खेन अविभूतभावेन पाकटताय इन्द्रियकिच्चयुत्तताय च समानानं सुखादीनं झानङ्गन्ति अनुद्धटभावे कारणं वत्तब्बं, न चित्तेकग्गतायाति सा एत्थ न गहिता’’ति वदन्ति, तेसं तं रुचिमत्तं. यदि झानङ्गसमानानं झानङ्गन्ति अनुद्धटभावे कारणं वत्तब्बं, चित्तेकग्गता चेत्थ झानङ्गभूताय विचिकिच्छायुत्तमनोधातुआदीसु चित्तेकग्गताय समानाति तस्सा अनुद्धटभावे कारणं वत्तब्बमेवाति. सेसाहेतुकेसुपि झानङ्गं उद्धटमेव उद्धरणट्ठाने चित्तुप्पादकण्डेति अधिप्पायो.

झानपच्चयनिद्देसवण्णना निट्ठिता.