७. दिब्बचक्खुकथावण्णना
३७३. उपत्थद्धन्ति यथा विसयानुभावगोचरेहि विसिट्ठं होति, तथा पच्चयभूतेन कतबलाधानन्ति अत्थो. तंमत्तमेवाति पुरिमं मंसचक्खुमत्तमेव धम्मुपत्थद्धं न होतीति अत्थो. अनापाथगतन्ति मंसचक्खुना गहेतब्बट्ठानं आपाथं नागतं. एत्थ च विसयस्स दीपकं आनुभावगोचरानमेव असदिसतं वदन्तो यादिसो मंसचक्खुस्स विसयोति विसयग्गहणं न विसयविसेसदस्सनत्थं, अथ खो यादिसे विसये आनुभावगोचरविसेसा होन्ति, तादिसस्स रूपविसयस्स दस्सनत्थन्ति दीपेति, सदिसस्स वा विसयस्स आनुभावगोचरविसेसोव विसेसं.
न च मंसचक्खुमेव दिब्बचक्खूति इच्छतीति धम्मुपत्थद्धकाले पुरिमं मंसचक्खुमेवाति न इच्छतीति अधिप्पायो. मंसचक्खुस्स उप्पादो मग्गोति मंसचक्खुपच्चयतादस्सनत्थमेव वुत्तं, न तेन अनुपादिन्नतासाधनत्थं. रूपावचरिकानन्ति रूपावचरज्झानपच्चयेन उप्पन्नानि महाभूतानि रूपावचरिकानीति सो इच्छतीति अधिप्पायो. एस नयो ‘‘अरूपावचरिकान’’न्ति एत्थापि. अरूपावचरक्खणे रूपावचरचित्तस्स अभावा पटिक्खिपतीति तस्मिंयेव खणे रूपावचरं हुत्वा अरूपावचरं न जातन्ति पटिक्खिपतीति अधिप्पायो.
३७४. किञ्चापि दिब्बचक्खुनो धम्मुपत्थद्धस्स पञ्ञाचक्खुभावं न इच्छति, येन तीणि चक्खूनि धम्मुपत्थम्भेन चक्खुन्तरभावं वदतो भवेय्युन्ति अधिप्पायो.
दिब्बचक्खुकथावण्णना निट्ठिता.