कथावत्थुपकरण-मूलटीका

गन्थारम्भकथावण्णना

कथानं वत्थुभावतोति कथासमुदायस्स पकरणस्स अत्तनो एकदेसानं ओकासभावं वदति. समुदाये हि एकदेसा अन्तोगधाति. येन पकारेन सङ्खेपेन अदेसयि, तं दस्सेन्तो ‘‘मातिकाठपनेनेव ठपितस्सा’’ति आह.

निदानकथावण्णना

अनुपादिसेसाय निब्बानधातुया परिनिब्बायीति परिनिब्बानमेव परिनिब्बानस्स परिनिब्बानन्तरतो विसेसनत्थं करणभावेन वुत्तं. याय वा निब्बानधातुया अधिगताय पच्छिमचित्तं अप्पटिसन्धिकं जातं, सा तस्स अप्पटिसन्धिवूपसमस्स करणभावेन वुत्ताति. दुब्बलपक्खन्ति न काळासोकं विय बलवन्तं, अथ खो एकमण्डलिकन्ति वदन्ति. धम्मवादीअधम्मवादीविसेसजननसमत्थाय पन पञ्ञाय अभावतो दुब्बलता वुत्ता. तेसंयेवाति बाहुलियानमेव, बहुस्सुतिकातिपि नामं. भिन्नकाति मूलसङ्गीतितो मूलनिकायतो वा भिन्ना, लद्धिया सुत्तन्तेहि लिङ्गाकप्पेहि च विसदिसभावं गताति अत्थो.

मूलसङ्गहन्ति पञ्चसतिकसङ्गीतिं. अञ्ञत्र सङ्गहितातिआदीसु दीघादीसु अञ्ञत्र सङ्गहिततो सुत्तन्तरासितो तं तं सुत्तं निक्कड्ढित्वा अञ्ञत्र अकरिंसूति वुत्तं होति. सङ्गहिततो वा अञ्ञत्र असङ्गहितं सुत्तं अञ्ञत्र कत्थचि अकरिंसु, अञ्ञं वा अकरिंसूति अत्थो. अत्थं धम्मञ्चाति पाळिया अत्थं पाळिञ्च. विनये निकायेसु च पञ्चसूति विनये च अवसेसपञ्चनिकायेसु च.

‘‘द्वेपानन्द, वेदना वुत्ता मया परियायेना’’तिआदि (म. नि. २.८९) परियायदेसितं. उपेक्खावेदना हि सन्तस्मिं पणीते सुखे वुत्ता भगवताति अयञ्हेत्थ परियायो. ‘‘तिस्सो इमा, भिक्खवे, वेदना सुखा दुक्खा उपेक्खा वेदना’’तिआदि (सं. नि. ४.२४९-२५१) निप्परियायदेसितं. वेदनासभावो हि तिविधोति अयमेत्थ निप्परियायता. ‘‘सुखापि वेदना अनिच्चा सङ्खता’’तिआदि (दी. नि. २.१२३) नीतत्थं. ‘‘यं किञ्चि वेदयितं, सब्बं तं दुक्ख’’न्तिआदि (सं. नि. २.३२) नेय्यत्थं. ‘‘तीहि, भिक्खवे, ठानेहि जम्बुदीपका मनुस्सा उत्तरकुरुके च मनुस्से अधिग्गण्हन्ति देवे च तावतिंसे’’तिआदिकं (अ. नि. ९.२१) अञ्ञं सन्धाय भणितं गहेत्वा अञ्ञं अत्थं ठपयिंसु. ‘‘नत्थि देवेसु ब्रह्मचरियवासो’’तिआदिकं (कथा. २७०) सुत्तञ्च अञ्ञं सन्धाय भणितं अत्थञ्च अञ्ञं ठपयिंसूति एवमेत्थ अत्थो दट्ठब्बो. ‘‘अत्थेकच्चो पुग्गलो अत्तहिताय पटिपन्नो’’तिआदि (पु. प. मातिका ४.२४) ब्यञ्जनच्छायाय सण्हसुखुमं सुञ्ञतादिअत्थं बहुं विनासयुं.

विनयगम्भीरन्ति विनये गम्भीरञ्च एकदेसं छड्डेत्वाति अत्थो. किलेसविनयेन वा गम्भीरं एकदेसं सुत्तं छड्डेत्वाति अत्थो. पतिरूपन्ति अत्तनो अधिप्पायानुरूपं सुत्तं, सुत्तपतिरूपकं वा असुत्तं. एकच्चे अट्ठकथाकण्डमेव विस्सज्जिंसु, एकच्चे सकलं अभिधम्मपिटकन्ति आह ‘‘अत्थुद्धारं अभिधम्मं छप्पकरण’’न्ति. कथावत्थुस्स सविवादत्तेपि अविवादानि छप्पकरणानि पठितब्बानि सियुं, तानि नप्पवत्तन्तीति हि दस्सनत्थं ‘‘छप्पकरण’’न्ति वुत्तन्ति. ततियसङ्गीतितो वा पुब्बे पवत्तमानानं वसेन ‘‘छप्पकरण’’न्ति वुत्तं. अञ्ञानीति अञ्ञानि अभिधम्मपकरणादीनि. नामन्ति यं बुद्धादिपटिसंयुत्तं न होति मञ्जुसिरीतिआदिकं, तं निकायनामं. लिङ्गन्ति निवासनपारुपनादिविसेसकतं सण्ठानविसेसं. सिक्कादिकं परिक्खारं. आकप्पो ठानादीसु अङ्गट्ठपनविसेसो दट्ठब्बो. करणन्ति चीवरसिब्बनादिकिच्चविसेसो.

सङ्कन्तिकस्सपिकेन निकायेन वादेन वा भिन्ना सङ्कन्तिकाति अत्थो. सङ्कन्तिकानं भेदा सुत्तवादी अनुपुब्बेन भिज्जथ भिज्जिंसूति अत्थो. भिन्नवादेनाति भिन्ना वादा एतस्मिन्ति भिन्नवादो, तेन अभिन्नेन थेरवादेन सह अट्ठारस होन्तीति वुत्तं होति. भिन्नवादेनाति वा भिन्नाय लद्धिया अट्ठारस होन्ति, ते सब्बेपि सहाति अत्थो. थेरवादानमुत्तमोति एत्थ थेर-इति अविभत्तिको निद्देसो. थेरानं अयन्ति थेरो. को सो? वादो. थेरो वादानमुत्तमोति अयमेत्थ अत्थो.

उप्पन्ने वादे सन्धाय ‘‘परप्पवादमथन’’न्ति आह. आयतिं उप्पज्जनकवादानं पटिसेधनलक्खणभावतो ‘‘आयतिलक्खण’’न्ति वुत्तं.

निदानकथावण्णना निट्ठिता.

महावग्गो

१. पुग्गलकथा

१. सुद्धसच्चिकट्ठो

१. अनुलोमपच्चनीकवण्णना

१. मायाय अमणिआदयो मणिआदिआकारेन दिस्समाना ‘‘माया’’ति वुत्ता. अभूतेन मणिउदकादिआकारेन गय्हमाना मायामरीचिआदयो अभूतञ्ञेय्याकारत्ता असच्चिकट्ठा. यो तथा न होति, सो सच्चिकट्ठोति दस्सेन्तो आह ‘‘माया…पे… भूतत्थो’’ति. अनुस्सवादिवसेन गय्हमानो तथापि होति अञ्ञथापीति तादिसो ञेय्यो न परमत्थो, अत्तपच्चक्खो पन परमत्थोति दस्सेन्तो आह ‘‘अनुस्सवा…पे… उत्तमत्थो’’ति.

छलवादस्साति अत्थीति वचनसामञ्ञेन अत्थीति वुत्तेहि रूपादीहि सामञ्ञवचनस्साति अधिप्पायो. ‘‘सो सच्चि…पे… लद्धिं गहेत्वा आमन्ताति पटिजानाती’’ति वचनतो पन ‘‘छलवादस्सा’’ति न सक्का वत्तुं. न हि लद्धि छलन्ति. ओकासं अददमानोति पतिट्ठं पच्छिन्दन्तो. यदि सच्चिकट्ठेन उपलब्भति, रूपादयो विय उपलब्भेय्य, तथा अनुपलब्भनीयतो न तव वादो तिट्ठतीति निवत्तेन्तोति अधिप्पायो. तं सन्धायाति ‘‘यो सच्चिकट्ठो’’ति एत्थ वुत्तो यो सच्चिकट्ठो, सो सप्पच्चयादिभावेन दीपितो ‘‘रूपञ्च उपलब्भती’’तिआदीसु आगतो धम्मप्पभेदोति दस्सेति.

‘‘तेन सच्चिकट्ठपरमत्थेना’’ति वत्वा ‘‘तेनाकारेना’’ति वदतो अयमधिप्पायो – सच्चिकट्ठपरमत्थाकारेन उपलब्भमानं सच्चिकट्ठपरमत्थेन उपलब्भमानं नाम होतीति. अञ्ञथा ततोति तस्स तेनाकारेनाति वत्तब्बं सिया. को पनेतिस्सा पुरिमपुच्छाय च विसेसोति? पुरिमपुच्छाय सत्तपञ्ञासविधो धम्मप्पभेदो यथा भूतेन सभावत्थेन उपलब्भति, एवं पुग्गलो उपलब्भतीति वुत्तं. इध पन भूतसभावत्थेन उपलब्भमानो सो धम्मप्पभेदो येन रुप्पनादिसप्पच्चयादिआकारेन उपलब्भति, किं तेनाकारेन पुग्गलोपि उपलब्भतीति एस विसेसो. यथा पन रूपं विय भूतसभावत्थेन उपलब्भमाना वेदना न रुप्पनाकारेन उपलब्भति, एवं धम्मप्पभेदो विय भूतसभावत्थेन उपलब्भमानो पुग्गलो न रुप्पनादिसप्पच्चयादिआकारेन उपलब्भतीति सक्का परवादिना वत्तुन्ति अचोदनीयं एतं सिया. अवजाननञ्च तस्स युत्तन्ति निग्गहो च न कातब्बो. धम्मप्पभेदतो पन अञ्ञस्स सच्चिकट्ठस्स असिद्धत्ता धम्मप्पभेदाकारेनेव चोदेति. अवजाननेनेव निग्गहं दस्सेति. अनुजाननावजाननपक्खा सामञ्ञविसेसेहि पटिञ्ञापटिक्खेपपक्खा अनुलोमपटिलोमपक्खा पठमदुतियनयाति अयमेतेसं विसेसो वेदितब्बो.

‘‘तेन वत रे वत्तब्बे’’ति वदन्तो वत्तब्बस्स अवचने दोसं पापेतीति इमिना अधिप्पायेन ‘‘निग्गहस्स पापितत्ता’’ति वुत्तन्ति दट्ठब्बं. ‘‘एवमेतं निग्गहस्स च अनुलोमपटिलोमतो चतुन्नं पापनारोपनञ्च वुत्तत्ता उपलब्भतीतिआदिकं अनुलोमपञ्चकं नामा’’ति वुत्तं, अनुलोमपटिलोमतो पन द्वीहि ठपनाहि सह सत्तकेन भवितब्बं, तंवज्जने वा कारणं वत्तब्बं. यं पन वक्खति ‘‘ठपना नाम परवादीपक्खस्स ठपनतो ‘अयं तव दोसो’ति दस्सेतुं ठपनमत्तमेव होति, न निग्गहस्स वा पटिकम्मस्स वा पाकटभावकरण’’न्ति (कथा. अट्ठ. २). तेनाधिप्पायेन इधापि ठपनाद्वयं वज्जेति. यथा पन तत्थ पटिकम्मपञ्चकभावं अवत्वा पटिकम्मचतुक्कभावं वक्खति, एवमिधापि निग्गहचतुक्कभावो वत्तब्बो सिया. सुद्धिकनिग्गहस्स पन निग्गहप्पधानत्ता उद्देसभावेन वुत्तो निग्गहोव विसुं वुत्तोति दट्ठब्बो. ये पन ‘‘अयथाभूतनिग्गहत्ता तत्थ पटिकम्मं विसुं न वुत्त’’न्ति वदन्ति, तेसं दुतिये वादमुखे निग्गहचतुक्कभावो पटिकम्मपञ्चकभावो च आपज्जति.

२. अत्तना अधिप्पेतं सच्चिकट्ठमेवाति सम्मुतिसच्चं सन्धायाति अधिप्पायो. वक्खति हि ‘‘सुद्धसम्मुतिसच्चं वा परमत्थमिस्सकं वा सम्मुतिसच्चं सन्धाय ‘यो सच्चिकट्ठो’ति पुन अनुयोगो परवादिस्सा’’ति (कथा. अट्ठ. ६). तत्थ यदि परवादिना अत्तना अधिप्पेतसच्चिकट्ठो सम्मुतिसच्चं, सम्मुतिसच्चाकारेन पुग्गलो उपलब्भतीति वदन्तेन समानलद्धिको नप्पटिसेधितब्बो, कथा एवायं नारभितब्बा. अथ सकवादिना अत्तना च अधिप्पेतसच्चिकट्ठंयेव सन्धाय परवादी ‘‘यो सच्चिकट्ठो’’तिआदिमाहाति अयमत्थो. सकवादिना सम्मुतिसच्चंयेव सच्चिकट्ठोति अधिप्पेतन्ति आपज्जति. यदि उभयं अधिप्पेतं, पुन ‘‘सम्मुतिसच्चपरमत्थसच्चानि वा एकतो कत्वापि एवमाहा’’ति न वत्तब्बं सियाति. यदि च द्वेपि सच्चानि सच्चिकट्ठपरमत्था, सच्चिकट्ठेकदेसेन उपलद्धिं इच्छन्तेन ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’तिआदि अनुयोगो न कातब्बो, न च सच्चिकट्ठेकदेसेन अनुयोगो युत्तो. न हि वेदयिताकारेन उपलब्भमाना वेदना रुप्पनाकारेन उपलब्भतीति अनुयुञ्जितब्बा, न च परवादी रुप्पनादिसभावं पुग्गलं इच्छति, अथ खो सच्चिकट्ठपरमत्थमेवाति. परमत्थसच्चतो अञ्ञस्मिं सच्चिकट्ठे विज्जमाने नास्स परमत्थसच्चता अनुयुञ्जितब्बा. असच्चिकट्ठे सच्चिकट्ठवोहारं आरोपेत्वा तं सन्धाय पुच्छतीति वदन्तानं वोहरितसच्चिकट्ठस्स अत्तना अधिप्पेतसच्चिकट्ठता न युत्ता. वोहरितपरमत्थसच्चिकट्ठानञ्च द्विन्नं सच्चिकट्ठभावे वुत्तनयोव दोसो. सम्मुतिसच्चाकारेन उपलब्भमानञ्च भूतसभावत्थेन उपलब्भेय्य वा न वा. यदि भूतसभावत्थेन उपलब्भति, पुग्गलोपि उपलब्भति सच्चिकट्ठपरमत्थेनाति अनुजानन्तो नानुयुञ्जितब्बो. अथ न भूतसभावत्थेन, तंविनिमुत्तो सम्मुतिसच्चस्स सच्चिकट्ठपरमत्थाकारो न वत्तब्बो असिद्धत्ता. वक्खति च ‘‘यथा रूपादयो पच्चत्तलक्खणसामञ्ञलक्खणवसेन अत्थि, न एवं पुग्गलो’’ति. तस्मा मग्गितब्बो एत्थ अधिप्पायो.

द्विन्नं सच्चानन्ति एत्थ सच्चद्वयाकारेन अनुपलब्भनीयतो अनुञ्ञेय्यमेतं सिया, न वा किञ्चि वत्तब्बं. यथा हि एकदेसेन परमत्थाकारेन अनुपलब्भनीयता अनुजाननस्स न कारणं, एवं एकदेसेन सम्मुतियाकारेन उपलब्भनीयता पटिक्खेपस्स चाति मग्गितब्बो एत्थापि अधिप्पायो. नुपलब्भतीति वचनसामञ्ञमत्तन्ति नुपलब्भतीति इदमेव वचनं अनुञ्ञातं पटिक्खित्तञ्चाति एतं छलवादं निस्सायाति अधिप्पायो. यथा उपलब्भतीति एतस्सेव अनुजाननपटिक्खेपेहि अहं निग्गहेतब्बो, एवं नुपलब्भतीति एतस्सेव अनुजाननपटिक्खेपेहि त्वन्ति एवं सम्भवन्तस्स सामञ्ञेन असम्भवन्तस्स कप्पनं पनेत्थ छलवादो भवितुं अरहति. तेन नुपलब्भतीति वचनसामञ्ञमत्तं छलवादस्स कारणत्ता ‘‘छलवादो’’ति वुत्तन्ति दट्ठब्बं. वचनसामञ्ञमत्तञ्च छलवादञ्च निस्सायाति वा अत्थो. ठपना निग्गहप्पटिकम्मानं पाकटभावकरणं न होतीति इदं विचारेतब्बं. न हि पक्खट्ठपनेन विना पुरिमं अनुजानित्वा पच्छिमस्स अवजाननं, पच्छिमं वा अवजानन्तस्स पुरिमानुजाननं मिच्छाति सक्का आरोपेतुन्ति.

३. तवाति, पटिजानन्तन्ति च पच्चत्ते सामिउपयोगवचनानीति अधिप्पायेन ‘‘त्वंयेव पटिजानन्तो’’ति आह.

४-५. चतूहि पापनारोपनाहि निग्गहस्स उपनीतत्ताति ‘‘दुन्निग्गहिता च होम, हञ्ची’’तिआदिना तया मम कतो निग्गहो, मया तव कतो निग्गहो विय मिच्छाति एवं तेन अनुलोमपञ्चके चतूहि पापनारोपनाहि कतस्स निग्गहस्स तेन नियामेन दुक्कटभावस्स अत्तना कतनिग्गहेन सह उपनीतत्ता अनिग्गहभावस्स वा उपगमितत्ताति अत्थो दट्ठब्बो. एवमेव तेन हि यं निग्गण्हासि हञ्चि…पे… इदं ते मिच्छाति एतस्स अनिग्गहभावनिगमनस्सेव निग्गमनचतुक्कता वेदितब्बा.

अनुलोमपच्चनीकवण्णना निट्ठिता.

२. पच्चनीकानुलोमवण्णना

७-१०. ‘‘अत्तनो लद्धिं निस्साय पटिञ्ञा परवादिस्सा’’ति वत्वा पुन ‘‘परमत्थवसेन पुग्गलस्स अभावतो पटिक्खेपो परवादिस्सा’’ति वुत्तं. तत्रायं पटिक्खेपो अत्तनो लद्धिया यदि कतो, परमत्थतो अञ्ञेन सच्चिकट्ठपरमत्थेन पुग्गलो उपलब्भतीति अयमस्स लद्धीति आपज्जति. तथा च सति नायं सम्मुतिसच्चवसेन उपलद्धिं इच्छन्तेन निग्गहेतब्बो. अथ अत्तनो लद्धिं निग्गूहित्वा परस्स लद्धिवसेन पटिक्खिपति, पुरिमपटिञ्ञाय अविरोधितत्ता न निग्गहेतब्बो. न हि अत्तनो च परस्स च लद्धिं वदन्तस्स दोसो आपज्जतीति. अत्तनो पन लद्धिया पटिजानित्वा परलद्धिया पटिक्खिपन्तेन अत्तनो लद्धिं छड्डेत्वा परलद्धि गहिता होतीति निग्गहेतब्बोति अयमेत्थ अधिप्पायो सिया.

पच्चनीकानुलोमवण्णना निट्ठिता.

सुद्धसच्चिकट्ठवण्णना निट्ठिता.

२. ओकाससच्चिकट्ठो

१. अनुलोमपच्चनीकवण्णना

११. सब्बत्थाति सब्बस्मिं सरीरेति अयमत्थोति दस्सेन्तो आह ‘‘सरीरं सन्धाया’’ति. तत्थाति तस्मिं संखित्तपाठे. यस्मा सरीरं सन्धाय ‘‘सब्बत्थ न उपलब्भती’’ति वुत्ते सरीरतो बहि उपलब्भतीति आपज्जति, तस्मा पच्चनीके पटिक्खेपो सकवादिस्साति एतेन न केनचि सभावेन पुग्गलो उपलब्भतीति अयमत्थो वुत्तो होति. न हि केनचि सभावेन उपलब्भमानस्स सरीरतदञ्ञाविमुत्तो उपलद्धिओकासो अत्थीति.

३. कालसच्चिकट्ठो

१. अनुलोमपच्चनीकवण्णना

१२. पुरिमपच्छिमजातिकालञ्चाति मज्झिमजातिकाले उपलब्भमानस्स तस्सेव पुरिमपच्छिमजातिकालेसु उपलद्धिं सन्धायाति अधिप्पायो. सेसं पठमनये वुत्तसदिसमेवाति इमेसु तीसु पठमे ‘‘सब्बत्था’’ति एतस्मिं नये वुत्तसदिसमेव, किं तं? पाठस्स संखित्तताति अत्थो. इधापि हि यस्मा ‘‘सब्बदा न उपलब्भती’’ति वुत्ते एकदा उपलब्भतीति आपज्जति, तस्मा पच्चनीके पटिक्खेपो सकवादिस्साति योजेतब्बन्ति.

४. अवयवसच्चिकट्ठो

१. अनुलोमपच्चनीकवण्णना

१३. ततियनये च यस्मा ‘‘सब्बेसु न उपलब्भती’’ति वुत्ते एकस्मिं उपलब्भतीति आपज्जति, तस्मा पच्चनीके पटिक्खेपो सकवादिस्साति योजेतब्बं. तेनाह ‘‘तादिसमेवा’’ति.

ओकासादिसच्चिकट्ठो

२. पच्चनीकानुलोमवण्णना

१४. तत्थ अनुलोमपञ्चकस्सातिआदिम्हि अनुलोमपञ्चकन्ति निग्गहपञ्चकं, पच्चनीकन्ति च पटिकम्मं वुत्तन्ति दट्ठब्बं. तत्थ अनुलोमपञ्चकस्स ‘‘सब्बत्थ पुग्गलो नुपलब्भती’’तिआदिकस्स अत्थो ‘‘सब्बत्थ पुग्गलो नुपलब्भती’’तिआदिपाळिं संखिपित्वा आगते सरूपेन अवुत्ते ‘‘यस्मा सरीरं सन्धाया’’तिआदिना (कथा. अट्ठ. ११) वुत्तनयेन वेदितब्बो, पच्चनीकस्स च ‘‘सब्बत्थ पुग्गलो उपलब्भती’’तिआदिकस्स पटिकम्मकरणवसेन वुत्तस्स अत्थो पटिकम्मादिपाळिं संखिपित्वा आदिमत्तदस्सनेन आगते ‘‘पुग्गलो उपलब्भती’’तिआदिम्हि अनुलोमे ‘‘सब्बत्थाति सरीरं सन्धाय अनुयोगो सकवादिस्सा’’तिआदिना (कथा. अट्ठ. ११) वुत्तनयेन वेदितब्बोति एवमत्थो दट्ठब्बो. अथ वा तत्थाति यं आरद्धं, तस्मिन्ति एवं अत्थं अग्गहेत्वा तत्थ तेसु तीसु मुखेसूति अत्थो गहेतब्बो. अनुलोमपञ्चकमूलका चेत्थ सब्बानुलोमपच्चनीकपञ्चकपाळि अनुलोमपञ्चकस्स पाळीति वुत्ता, तथा पच्चनीकानुलोमपञ्चकपाळि च पच्चनीकस्स पाळीति. तं संखिपित्वा पटिकम्मवसेन आगते सरूपेन अवुत्ते ‘‘पुग्गलो नुपलब्भती’’तिआदिके पच्चनीके ‘‘उपलब्भती’’तिआदिके अनुलोमे च अत्थो हेट्ठा सुद्धिकसच्चिकट्ठे वुत्तनयेनेव वेदितब्बोति वुत्तं होति.

सच्चिकट्ठवण्णना निट्ठिता.

५. सुद्धिकसंसन्दनवण्णना

१७-२७. रूपादीहि सद्धिं सच्चिकट्ठसंसन्दनन्ति सच्चिकट्ठस्स पुग्गलस्स रूपादीहि सद्धिं संसन्दनं, सच्चिकट्ठे वा रूपादीहि सद्धिं पुग्गलस्स संसन्दनन्ति अधिप्पायो. पुग्गलो रूपञ्चाति च-कारस्स समुच्चयत्थत्ता यथा रूपन्ति एवं निदस्सनवसेन वुत्तो अत्थो विचारेतब्बो. रूपादीहि अञ्ञो अनञ्ञो च पुग्गलो न वत्तब्बोति लद्धि समयो. ‘‘अञ्ञं जीवं अञ्ञं सरीरन्ति अब्याकतमेतं भगवता’’तिआदिकं (सं. नि. ४.४१६) सुत्तं. अनुञ्ञायमाने तदुभयविरोधो आपज्जतीति इममत्थं सन्धायाह ‘‘समयसुत्तविरोधं दिस्वा’’ति.

धम्मतोति पाळितो. ‘‘पटिकम्मचतुक्कादीनि संखित्तानि. परवादी…पे… दस्सितानी’’ति वदन्तेहि पुग्गलो नुपलब्भति…पे… आजानाहि पटिकम्मन्ति एत्थ आजानाहि निग्गहन्ति पाठो दिट्ठो भविस्सति. अञ्ञत्तं पटिजानापनत्थन्ति यथा मया अञ्ञत्तं वत्तब्बं, तथा च तयापि तं वत्तब्बन्ति अञ्ञत्तपटिञ्ञाय चोदनत्थन्ति अत्थो. सम्मुतिपरमत्थानं एकत्तनानत्तपञ्हस्स ठपनीयत्ताति अब्याकतत्ताति अत्थो. यदि ठपनीयत्ता पटिक्खिपितब्बं, परेनपि ठपनीयत्ता लद्धिमेव निस्साय पटिक्खेपो कतोति सोपि न निग्गहेतब्बो सिया. परो पन पुग्गलोति कञ्चि सभावं गहेत्वा तस्स ठपनीयत्तं इच्छति, सति च सभावे ठपनीयता न युत्ताति निग्गहेतब्बो. सम्मुति पन कोचि सभावो नत्थि. तेनेवस्स एकत्तनानत्तपञ्हस्स ठपनीयतं वदन्तो न निग्गहेतब्बोति सकवादिना पटिक्खेपो कतोति अयमेत्थ अधिप्पायो युत्तो.

सुद्धिकसंसन्दनवण्णना निट्ठिता.

६. ओपम्मसंसन्दनवण्णना

२८-३६. उपलद्धिसामञ्ञेन अञ्ञत्तपुच्छा चाति इदञ्च द्विन्नं समानता नो अञ्ञत्तस्स कारणं युत्तं, अथ खो विसुं अत्तनो सभावेन सच्चिकट्ठपरमत्थेन उपलब्भनीयताति विचारेतब्बं. ‘‘एकवीसाधिकानी’’ति पुरिमपाठो, वीसाधिकानीति पन पठितब्बं.

३७-४५. ‘‘अत्थि पुग्गलो’’ति सुत्तं अनुजानापेन्तेन उपलद्धि अनुजानिता होतीति मञ्ञमानो आह ‘‘उपलद्धिसामञ्ञं आरोपेत्वा’’ति. वीसाधिकानि नव पटिकम्मपञ्चकसतानि दस्सितानीति एतेन सुद्धिकसंसन्दनेपि ‘‘आजानाहि पटिकम्म’’मिच्चेव पाठोति विञ्ञायति. यञ्च वादमुखेसु सुद्धिकसच्चिकट्ठे ‘‘पटिकम्मचतुक्क’’न्ति वुत्तं, तम्पि ‘‘पटिकम्मपञ्चक’’न्ति.

ओपम्मसंसन्दनवण्णना निट्ठिता.

७. चतुक्कनयसंसन्दनवण्णना

४६-५२. एकधम्मतोपि अञ्ञत्तं अनिच्छन्तो रूपादिएकेकधम्मवसेन नानुयुञ्जितब्बो. समुदायतो हि अयं अञ्ञत्तं अनिच्छन्तो एकदेसतो अनञ्ञत्तं पटिक्खिपन्तो न निग्गहारहो सियाति एतं वचनोकासं निवत्तेतुं ‘‘अयञ्च अनुयोगो’’तिआदिमाह. सकलन्ति सत्तपञ्ञासविधो धम्मप्पभेदो पुग्गलोति वा परमत्थसच्चं पुग्गलोति वा एवं सकलं सन्धायाति अत्थो. एवं सकलं परमत्थं चिन्तेत्वा तन्तिवसेन अनुयोगलक्खणस्स ठपितत्ता सकलपरमत्थतो च अञ्ञस्स सच्चिकट्ठस्स अभावा सच्चिकट्ठेन पुग्गलेन ततो अञ्ञेन न भवितब्बन्ति ‘‘रूपं पुग्गलो’’ति इमं पञ्हं पटिक्खिपन्तस्स निग्गहारोपनं युत्तन्ति अत्थो.

सभागविनिब्भोगतोति रूपतो अञ्ञसभागत्ताति वुत्तं होति. सब्बधम्माति रूपवज्जे सब्बधम्मे वदति. ‘‘रूपस्मिं पुग्गलो’’ति एत्थ निस्सयविनासे विनासापत्तिभयेन पटिक्खिपतीति अधिप्पायेनाह ‘‘उच्छेददिट्ठिभयेन चेवा’’ति. तीसु पन समयविरोधेन पटिक्खेपो अधिप्पेतो. न हि सो सक्कायदिट्ठिं इच्छति, अपिच सस्सतदिट्ठिभयेन पटिक्खिपतीति युत्तं वत्तुं. सक्कायदिट्ठीसु हि पञ्चेव उच्छेददिट्ठियो, सेसासस्सतदिट्ठियोति. अञ्ञत्र रूपाति एत्थ च रूपवा पुग्गलोति अयमत्थो सङ्गहितोति वेदितब्बो.

चतुक्कनयसंसन्दनवण्णना निट्ठिता.

निट्ठिता च संसन्दनकथावण्णना.

८. लक्खणयुत्तिवण्णना

५४. पच्चनीकानुलोमेति इदं यं वक्खति ‘‘छलवसेन पन वत्तब्बं ‘आजानाहि पटिकम्म’न्तिआदी’’ति (कथा. अट्ठ. ५४), तेन पन न समेति. पच्चनीकानुलोमे हि पच्चनीके ‘‘आजानाहि निग्गह’’न्ति वत्तब्बं, न पन ‘‘पटिकम्म’’न्ति.

लक्खणयुत्तिवण्णना निट्ठिता.

९. वचनसोधनवण्णना

५५-५९. पुग्गलो उपलब्भतीति पदद्वयस्स अत्थतो एकत्तेति एत्थ तदेव एकत्तं परेन सम्पटिच्छितं असम्पटिच्छितन्ति विचारेतब्बमेतं. पुग्गलस्स हि अविभजितब्बतं, उपलब्भतीति एतस्स विभजितब्बतं वदन्तो विभजितब्बाविभजितब्बत्थानं उपलब्भतिपुग्गल-सद्दानं कथं अत्थतो एकत्तं सम्पटिच्छेय्याति? यथा च विभजितब्बाविभजितब्बत्थानं उपलब्भति-रूप-सद्दानं तं विभागं वदतो रूपं किञ्चि उपलब्भति, किञ्चि न उपलब्भतीति अयं पसङ्गो नापज्जति, एवं एतस्सपि यथावुत्तविभागं वदतो यथाआपादितेन पसङ्गेन न भवितब्बन्ति मग्गितब्बो एत्थ अधिप्पायो.

६०. ‘‘सुञ्ञतो लोकं अवेक्खस्सू’’ति (सु. नि. ११२५) एतेन अत्थतो पुग्गलो नत्थीति वुत्तं होतीति आह ‘‘नत्थीतिपि वुत्त’’न्ति.

वचनसोधनवण्णना निट्ठिता.

१०. पञ्ञत्तानुयोगवण्णना

६१-६६. रूपकायाविरहं सन्धाय ‘‘रूपकायसब्भावतो’’ति आह. ‘‘रूपिनो वा अरूपिनो वा’’ति (इतिवु. ९०) सुत्ते आगतपञ्ञत्तिं सन्धाय ‘‘तथारूपाय च पञ्ञत्तिया अत्थिताया’’ति. वीतरागसब्भावतोति कामीभावस्स अनेकन्तिकत्ता कामधातुया आयत्तत्ताभावतो च ‘‘कामी’’ति न वत्तब्बोति पटिक्खिपतीति अधिप्पायो.

६७. कायानुपस्सनायाति कारणवचनमेतं, कायानुपस्सनाय कारणभूताय एवंलद्धिकत्ताति अत्थो. आहच्च भासितन्ति ‘‘अञ्ञं जीवं अञ्ञं सरीरन्ति अब्याकतमेतं मया’’ति (म. नि. २.१२८) आहच्च भासितं.

पञ्ञत्तानुयोगवण्णना निट्ठिता.

११. गतिअनुयोगवण्णना

६९-७२. ‘‘दस्सेन्तो ‘तेन हि पुग्गलो सन्धावती’तिआदिमाहा’’ति वुत्तं, ‘‘दस्सेन्तो ‘न वत्तब्बं पुग्गलो सन्धावती’तिआदिमाहा’’ति पन भवितब्बं, दस्सेत्वाति वा वत्तब्बं.

९१. येन रूपसङ्खातेन सरीरेन सद्धिं गच्छतीति एत्थ ‘‘रूपेन सद्धिं गच्छती’’ति वदन्तेन ‘‘रूपं पुग्गलो’’ति अननुञ्ञातत्ता येनाकारेन तं जीवं तं सरीरन्ति इदं आपज्जति, सो वत्तब्बो. असञ्ञूपपत्तिं सन्धायाति निरयूपगस्स पुग्गलस्स असञ्ञूपगस्स अरूपूपगस्स च अन्तराभवं न इच्छतीति चुतितो अनन्तरं उपपत्तिं सन्धायाति अत्थो दट्ठब्बो. ये पन चुतिकाले उपपत्तिकाले च असञ्ञूपपत्तिकाले च असञ्ञसत्तेसु सञ्ञा अत्थीति गहेत्वा असञ्ञूपगस्स च अन्तराभवं इच्छेय्युं, तेसं अन्तराभवभावतो ‘‘असञ्ञूपपत्ति अवेदना’’ति न सक्का वत्तुन्ति.

९२. अवेदनोतिआदीसु तदञ्ञन्ति सञ्ञभवतो अञ्ञं असञ्ञानेवसञ्ञानासञ्ञायतनुपपत्तिं. नेवसञ्ञानासञ्ञायतनेपि हि न वत्तब्बं सञ्ञा अत्थीति इच्छन्ति.

९३. यस्मा रूपादिधम्मे विना पुग्गलो नत्थीति इन्धनुपादानो अग्गि विय इन्धनेन रूपादिउपादानो पुग्गलो रूपादिना विना नत्थीति लद्धिवसेन वदति.

गतिअनुयोगवण्णना निट्ठिता.

१२. उपादापञ्ञत्तानुयोगवण्णना

९७. नीलं रूपं उपादाय नीलोतिआदीसूति ‘‘नीलं रूपं उपादाय नीलकस्स पुग्गलस्स पञ्ञत्ती’’ति एत्थ यो पुट्ठो नीलं उपादाय नीलोति, तदादीसूति अत्थो.

९८. छेकट्ठं सन्धायाति छेकट्ठं सन्धाय वुत्तं, न कुसलपञ्ञत्तिं. ‘‘कुसलं वेदनं उपादाया’’ति मञ्ञमानो पटिजानातीति अत्थो दट्ठब्बो.

११२. इदानि …पे… दस्सेतुं ‘‘यथा रुक्ख’’न्तिआदिमाहाति पुब्बपक्खं दस्सेत्वा उत्तरमाहाति वुत्तं होति.

११५. ‘‘यस्स रूपं सो रूपवा’’ति उत्तरपक्खे वुत्तं वचनं उद्धरित्वा ‘‘यस्मा’’तिआदिमाह.

११६. चित्तानुपस्सनावसेनाति चित्तानुपस्सनावसेन परिदीपितस्स सरागादिचित्तयोगस्स वसेनाति अधिप्पायो.

११८. येनाति चक्खुन्ति ‘‘येना’’ति वुत्तं करणं चक्खुन्ति अत्थो. चक्खुमेव रूपं पस्सतीति विञ्ञाणनिस्सयभावूपगमनमेव चक्खुस्स दस्सनं नाम होतीति सन्धाय वदति.

उपादापञ्ञत्तानुयोगवण्णना निट्ठिता.

१३. पुरिसकारानुयोगवण्णना

१२३. करणमत्तन्ति कम्मानं निप्फादकप्पयोजकभावेन पवत्ता खन्धा.

१२४. पुरिमकम्मेन विना पुग्गलस्स जाति, जातस्स च विज्जट्ठानादीसु सम्मा मिच्छा वा पवत्ति नत्थीति सन्धाय ‘‘पुरिमकम्ममेव तस्सा’’तिआदिमाह.

१२५. कम्मवट्टस्साति एत्थ कम्मकारकस्स यो कारको, तेनपि अञ्ञं कम्मं कातब्बं, तस्स कारकेनपि अञ्ञन्ति एवं कम्मवट्टस्स अनुपच्छेदं वदन्ति. पुग्गलस्स कारको कम्मस्स कारको आपज्जतीति विचारेतब्बमेतं. मातापितूहि जनिततादिना तस्स कारकं इच्छन्तस्स कम्मकारकानं कारकपरम्परा आपज्जतीति इदञ्च विचारेतब्बं.

१७०. सुत्तविरोधभयेनाति ‘‘सो करोति सो पटिसंवेदयतीति खो, ब्राह्मण, अयमेको अन्तो’’तिआदीहि (सं. नि. २.४६) विरोधभया.

१७१. ‘‘इध नन्दति पेच्च नन्दती’’ति (ध. प. १८) वचनतो कम्मकरणकाले विपाकपटिसंवेदनकाले च सोयेवाति पटिजानातीति अधिप्पायो. सयंकतं सुखदुक्खन्ति च पुट्ठो ‘‘किं नु खो, भो गोतम, सयंकतं सुखं दुक्खन्ति? मा हेवं कस्सपा’’तिआदिसुत्तविरोधा (सं. नि. २.१८) पटिक्खिपति.

१७६. लद्धिमत्तमेवेतन्ति सोयेवेको नेव सो होति न अञ्ञोति इदं पन नत्थेव, तस्मा एवंवादिनो असयंकारन्तिआदि आपज्जतीति अधिप्पायो. अपिचातिआदिना इदं दस्सेति – न परस्स इच्छावसेनेव ‘‘सो करोती’’तिआदि अनुयोगो वुत्तो, अथ खो ‘‘सो करोती’’तिआदीसु एकं अनिच्छन्तस्स इतरं, तञ्च अनिच्छन्तस्स अञ्ञं आपन्नन्ति एवं कारकवेदकिच्छाय ठत्वा ‘‘सो करोती’’तिआदीसु तं तं अनिच्छाय आपन्नवसेनापीति. अथ वा न केवलं ‘‘सो करोती’’तिआदीनं सब्बेसं आपन्नत्ता, अथ खो एकेकस्सेव च आपन्नत्ता अयं अनुयोगो कतोति दस्सेति. पुरिमनयेनेवाति एतेन ‘‘इध नन्दती’’तिआदि सब्बं पटिजाननादिकारणं एकतो योजेतब्बन्ति दस्सेति.

पुरिसकारानुयोगवण्णना निट्ठिता.

कल्याणवग्गो निट्ठितो.

१४. अभिञ्ञानुयोगवण्णना

१९३. अभिञ्ञानुयोगादिवसेन अरहत्तसाधनाति एत्थ ‘‘ननु अत्थि कोचि इद्धिं विकुब्बती’’ति अभिञ्ञाअनुयोगो च ‘‘हञ्चि अत्थि कोचि इद्धिं विकुब्बती’’ति ठपना च ‘‘तेन वत रे’’तिआदि पापना च आदिसद्दसङ्गहितो अत्थोव दट्ठब्बो. आसवक्खयञाणं पनेत्थ अभिञ्ञा वुत्ताति तदभिञ्ञावतो अरहतो साधनं ‘‘अरहत्तसाधना’’ति आह. अरहतो हि साधना तब्भावस्स च साधना होतियेवाति.

अभिञ्ञानुयोगवण्णना निट्ठिता.

१५-१८. ञातकानुयोगादिवण्णना

२०९. तथारूपस्साति ततियकोटिभूतस्स सच्चिकट्ठस्स अभावाति अधिप्पायो. एवं पन पटिक्खिपन्तो असच्चिकट्ठं ततियकोटिभूतं पुग्गलं वदेय्याति तादिसं पुग्गलं इच्छन्तो हि सुत्तेन निग्गहेतब्बो सिया. कस्मा? तथारूपस्स सच्चिकट्ठस्स अभावतोति, तथारूपस्स कस्सचि सभावस्स अभावतो पटिक्खेपारहत्ता अत्तनो लद्धिं निगूहित्वा पटिक्खेपो परवादिस्साति अयमत्थो दट्ठब्बो.

ञातकानुयोगादिवण्णना निट्ठिता.

१९. पटिवेधानुयोगादिवण्णना

२१८. परिग्गहितवेदनोति वचनेन अपरिग्गहितवेदनस्स ‘‘सुखितोस्मि, दुक्खितोस्मी’’ति जाननं पजाननं नाम न होतीति दस्सेति योगावचरस्स सुखुमानम्पि वेदनानं परिच्छेदनसमत्थतञ्च.

२२८. लक्खणवचनन्ति रूपब्भन्तरगमनं सहरूपभावो, बहिद्धा निक्खमनं विनारूपभावोति अधिप्पायो.

२३७. इमा खोति ओळारिको अत्तपटिलाभो मनोमयो अत्तपटिलाभो अरूपो अत्तपटिलाभोति इमा लोकस्स समञ्ञा, याहि तथागतो वोहरति अपरामसं, यो सच्चो मोघो वा सिया, तस्मिं अनुपलब्भमानेपि अत्तनि तदनुपलब्भतोयेव परामासं अत्तदिट्ठिं अनुप्पादेन्तो लोके अत्तपटिलाभोति पवत्तवोहारवसेनेव वोहरतीति अयमेत्थ अत्थो. एत्थ च पच्चत्तसामञ्ञलक्खणवसेन पुग्गलस्स अत्थितं पटिक्खिपित्वा लोकवोहारेन अत्थितं वदन्तेन पुग्गलोति कोचि सभावो नत्थीति वुत्तं होति. सति हि तस्मिं अत्तनो सभावेनेव अत्थिता वत्तब्बा सिया, न लोकवोहारेनाति. इमिना पन यथा समेति, यथा च परामासो न होति, एवं इतो पुरिमा च अत्थवण्णना योजेतब्बा.

लोकसम्मुतिकारणन्ति यस्मा लोकसम्मुतिवसेन पवत्तं, तस्मा सच्चन्ति वुत्तं होति. तथलक्खणन्ति तथकारणं. यस्मा धम्मानं तथताय पवत्तं, तस्मा सच्चन्ति दस्सेति.

पटिवेधानुयोगादिवण्णना निट्ठिता.

पुग्गलकथावण्णना निट्ठिता.

२. परिहानिकथा

१. वादयुत्तिपरिहानिकथावण्णना

२३९. ‘‘द्वेमे, भिक्खवे, धम्मा सेक्खस्स भिक्खुनो परिहानाय संवत्तन्ती’’ति (अ. नि. २.१८५) इदं सुत्तं अरहतो परिहानिलद्धिया न निस्सयो, अथ खो अनागामिआदीनं परिहानिलद्धिया, तस्मा अरहतोपि परिहानिं इच्छन्तीति एत्थ पि-सद्देन अनागामिस्सपि सकदागामिस्सपीति योजेतब्बं.

‘‘ततियस्मिम्पि मुदिन्द्रियाव अधिप्पेता. तेसञ्हि सब्बेसम्पि परिहानि न होतीति तस्स लद्धी’’ति पुरिमपाठो, मुदिन्द्रियेस्वेव पन अधिप्पेतेसु परिक्खेपो न कातब्बो सिया, कतो च, तस्मा ‘‘ततियस्मिम्पि तिक्खिन्द्रियाव अधिप्पेता. तेसञ्हि सब्बेसम्पि परिहानि न होतीति तस्स लद्धी’’ति पठन्ति.

अयोनिसो अत्थं गहेत्वाति सोतापन्नोयेव नियतोति वुत्तोति सोयेव न परिहायति, न इतरेति अत्थं गहेत्वा. ‘‘उपरिमग्गत्थाया’’ति वुत्तं अत्थं अग्गहेत्वा नियतोति सोतापत्तिफला न परिहायतीति एतमत्थं गण्हीति पन वदन्ति.

वादयुत्तिपरिहानिकथावण्णना निट्ठिता.

२. अरियपुग्गलसंसन्दनपरिहानिवण्णना

२४१. यं पनेत्थातिआदिम्हि दस्सनमग्गफले ठितस्स अनन्तरं अरहत्तप्पत्तिं, ततो परिहायित्वा तत्थ च ठानं इच्छन्तो पुन वायामेन तदनन्तरं अरहत्तप्पत्तिं न इच्छतीति विचारेतब्बमेतं.

२६२. अवसिप्पत्तो झानलाभीति सेक्खो वुत्तोति दट्ठब्बो. पुथुज्जनो पन वसिप्पत्तो अवसिप्पत्तो च समयविमुत्तअसमयविमुत्ततन्तिया अग्गहितो, भजापियमानो पन समापत्तिविक्खम्भितानं किलेसानं वसेन समयविमुत्तभावं भजेय्याति वुत्तोति.

अरियपुग्गलसंसन्दनपरिहानिवण्णना निट्ठिता.

३. सुत्तसाधनपरिहानिवण्णना

२६५. उत्तमहीनभेदो ‘‘तत्र यायं पटिपदा सुखा खिप्पाभिञ्ञा, सा उभयेनेव पणीता अक्खायती’’तिआदिसुत्तवसेन (दी. नि. ३.१५२) वुत्तो. ‘‘दिट्ठं सुतं मुत’’न्ति एत्थ विय मुतसद्दो पत्तब्बं वदतीति आह ‘‘फुसनारह’’न्ति.

२६७. अप्पत्तपरिहानाय चेव संवत्तन्ति यथाकतसन्निट्ठानस्स समयविमुत्तस्साति अधिप्पायो.

सुत्तसाधनपरिहानिवण्णना निट्ठिता.

परिहानिकथावण्णना निट्ठिता.

३. ब्रह्मचरियकथा

१. सुद्धब्रह्मचरियकथावण्णना

२६९. ‘‘परनिम्मितवसवत्तिदेवे उपादाय तदुपरी’’ति वुत्तं, ‘‘तीहि, भिक्खवे, ठानेही’’ति (अ. नि. ९.२१) पन सुत्तस्स वचनेन हेट्ठापि मग्गभावनम्पि न इच्छन्तीति विञ्ञायति.

२७०. ‘‘गिहीनञ्चेव एकच्चानञ्च देवानं मग्गपटिलाभं सन्धाय पटिक्खेपो तस्सेवा’’ति वुत्तं, ‘‘यत्थ नत्थी’’ति पन ओकासवसेन पुट्ठो पुग्गलवसेन तस्स पटिक्खेपो न युत्तो. यदि च तस्सायं अधिप्पायो, सकवादिना समानाधिप्पायत्ता न निग्गहेतब्बो.

२७१. एकन्तरिकपञ्हाति परवादीसकवादीनं अञ्ञमञ्ञं पञ्हन्तरिका पञ्हा.

सुद्धब्रह्मचरियकथावण्णना निट्ठिता.

२. संसन्दनब्रह्मचरियकथावण्णना

२७३. रूपावचरमग्गेन हि सो इधविहायनिट्ठो नाम जातोति इदं ‘‘इध भावितमग्गो हि अनागामी इधविहायनिट्ठो नाम होती’’तिआदिकेन लद्धिकित्तनेन कथं समेतीति विचारेतब्बं. पुब्बे पन अनागामी एव अनागामीति वुत्तो, इध झानानागामिसोतापन्नादिकोति अधिप्पायो. इध अरहत्तमग्गं भावेत्वा इधेव फलं सच्छिकरोन्तं ‘‘इधपरिनिब्बायी’’ति वदति, इध पन मग्गं भावेत्वा तत्थ फलं सच्छिकरोन्तं ‘‘तत्थपरिनिब्बायी अरहा’’ति.

संसन्दनब्रह्मचरियकथावण्णना निट्ठिता.

ब्रह्मचरियकथावण्णना निट्ठिता.

४. ओधिसोकथावण्णना

२७४. ओधिसो ओधिसोति एतस्स अत्थं दस्सेन्तो ‘‘एकदेसेन एकदेसेना’’ति आह.

ओधिसोकथावण्णना निट्ठिता.

४. जहतिकथावण्णना

१. नसुत्ताहरणकथावण्णना

२८०. किच्चसब्भावन्ति तीहि पहातब्बस्स पहीनतं. तं पन किच्चं यदि तेनेव मग्गेन सिज्झतीति लद्धि, पुथुज्जनकाले एव कामरागब्यापादा पहीनाति लद्धीति एतं न समेति, तस्मा पुथुज्जनकाले पहीनानम्पि दस्सनमग्गे उप्पन्ने पुन कदाचि अनुप्पत्तितो तिण्णं मग्गानं किच्चं सम्भवतीति अधिप्पायो.

नसुत्ताहरणकथावण्णना निट्ठिता.

जहतिकथावण्णना निट्ठिता.

५. सब्बमत्थीतिकथा

१. वादयुत्तिवण्णना

२८२. सब्बस्मिं सरीरे सब्बन्ति सिरसि पादा पच्छतो चक्खूनीति एवं सब्बं सब्बत्थ अत्थीति अत्थो. सब्बस्मिं कालेति बालकाले युवता, वुड्ढकाले बालता, एवं सब्बस्मिं काले सब्बं. सब्बेनाकारेनाति नीलाकारेन पीतं, पीताकारेन लोहितन्ति एवं. सब्बेसु धम्मेसूति चक्खुस्मिं सोतं, सोतस्मिं घानन्ति एवं. अयुत्तन्ति योगरहितं वदति, तं पन एकसभावं. कथं पन एकसभावस्स योगरहितताति तं दस्सेन्तो ‘‘नानासभावानञ्ही’’तिआदिमाह. द्विन्नञ्हि नानासभावानं अङ्गुलीनं मेण्डकानं वा अञ्ञमञ्ञयोगो होति, न एकस्सेव सतो, तस्मा यो नानासभावेसु होति योगो, तेन रहितं एकसभावं अयोगन्ति वुत्तं. इदं पुच्छतीति परवादीदिट्ठिया मिच्छादिट्ठिभावं गहेत्वा उप्पन्नाय अत्तनो दिट्ठिया सम्मादिट्ठिभावो अत्थीति वुत्तं होति.

वादयुत्तिवण्णना निट्ठिता.

२. कालसंसन्दनवण्णना

२८५. अतीतानागतं पहाय पच्चुप्पन्नरूपमेव अप्पियं अविभजितब्बं करित्वाति पच्चुप्पन्नसद्देन रूपसद्देन चाति उभोहिपि पच्चुप्पन्नरूपमेव वत्तब्बं कत्वाति वुत्तं होति. पञ्ञत्तिया अविगतत्ताति एतेन इदं विञ्ञायति ‘‘न रूपपञ्ञत्ति विय वत्थपञ्ञत्ति सभावपरिच्छिन्ने पवत्ता विज्जमानपञ्ञत्ति, अथ खो पुब्बापरियवसेन पवत्तमानं रूपसमूहं उपादाय पवत्ता अविज्जमानपञ्ञत्ति, तस्मा वत्थभावस्स ओदातभावविगमे विगमावत्तब्बता युत्ता, न पन रूपभावस्स पच्चुप्पन्नभावविगमे’’ति.

कालसंसन्दनवण्णना निट्ठिता.

वचनसोधनवण्णना

२८८. अनागतं वा पच्चुप्पन्नं वा हुत्वा होतीति वुत्तन्ति एत्थ अनागतं अनागतं हुत्वा पुन पच्चुप्पन्नं होन्तं हुत्वा होतीति, तथा पच्चुप्पन्नं पच्चुप्पन्नं होन्तं पुब्बे अनागतं हुत्वा पच्चुप्पन्नं होतीति हुत्वा होतीति वुत्तन्ति दट्ठब्बं. किं ते तम्पि हुत्वा होतीति तब्भावाविगमतो हुत्वाहोतिभावानुपरमं अनुपच्छेदं पुच्छतीति अधिप्पायो युत्तो. हुत्वा भूतस्स पुन हुत्वा अभावतोति अनागतं हुत्वा पच्चुप्पन्नभूतस्स पुन अनागतं हुत्वा पच्चुप्पन्नाभावतो.

यस्मा तन्ति तं हुत्वा भूतं पच्चुप्पन्नं यस्मा अनागतं हुत्वा पच्चुप्पन्नं होन्तं ‘‘हुत्वा होती’’ति सङ्ख्यं गतं, तस्मा दुतियम्पि ‘‘हुत्वा होती’’ति वचनं अरहतीति पटिजानातीति अधिप्पायो. एवं पन धम्मे हुत्वाहोतिभावानुपरमं वदन्तस्स अधम्मे ससविसाणे नहुत्वान होतिभावानुपरमो आपज्जतीति अधिप्पायेन ‘‘अथ न’’न्तिआदिमाह.

पटिक्खित्तनयेनाति कालनानत्तेन. पटिञ्ञातनयेनाति अत्थानानत्तेन. अत्थानानत्तं इच्छन्तोपि पन अनागतस्स पच्चुप्पन्ने वुत्तं होतिभावं, पच्चुप्पन्नस्स च अनागते वुत्तं हुत्वाभावं कथं पटिजानातीति विचारेतब्बं. अत्थानानत्तमेव हि तेन अनुञ्ञायति, न अनागते पच्चुप्पन्नभावो, पच्चुप्पन्ने वा अनागतभावोति. पुरिमं पटिक्खित्तपञ्हं परिवत्तित्वाति अनुञ्ञातपञ्हस्स हुत्वा होति हुत्वा होतीति दोसो वुत्तोति अवुत्तदोसं अतिक्कम्म पटिक्खित्तपञ्हं पुन गहेत्वा तेन चोदेतीति अत्थो. एत्थ च अत्थानानत्तेन हुत्वाहोतीति अनुजानन्तस्स दोसो कालनानत्तायेव अनागतं पच्चुप्पन्नन्ति पटिक्खेपेन कथं होतीति? तस्सेव अनुजाननपटिक्खेपतोति अधिप्पायो.

एकेकन्ति अनागतम्पि न हुत्वा न होति पच्चुप्पन्नम्पीति तदुभयं गहेत्वा ‘‘एकेकं न हुत्वा न होति न हुत्वा न होती’’ति वुत्तं, न एकेकमेव न हुत्वा न होति न हुत्वा न होतीति. एस नयो पुरिमस्मिं ‘‘एकेकं हुत्वा होति हुत्वा होती’’ति वचनेपि. अनागतस्स हि ‘‘हुत्वा होती’’ति नामं पच्चुप्पन्नस्स चाति द्वेपि नामानि सङ्गहेत्वा ‘‘हुत्वा होति हुत्वा होती’’ति चोदितं, तथा ‘‘न हुत्वा न होति न हुत्वा न होती’’ति चाति अधिप्पायो. सब्बतो अन्धकारेन परियोनद्धो वियाति एतेन अपरियोनद्धेन पटिजानितब्बं सियाति दस्सेति. एत्थ च पुरिमनये हुत्वा भूतस्स पुन हुत्वाहोतिभावो चोदितो, दुतियनये अनागतादीसु एकेकस्स हुत्वाहोतिनामताति अयं विसेसो.

वचनसोधनवण्णना निट्ठिता.

अतीतञाणादिकथावण्णना

२९०. पुन पुट्ठो…पे… अत्थिताय पटिजानातीति एत्थ पच्चुप्पन्नं ञाणं तेनाति एतेन अनुवत्तमानापेक्खनवचनेन कथं वुच्चतीति विचारेतब्बं.

अतीतञाणादिकथावण्णना निट्ठिता.