१. बलकथावण्णना
३५४. इन्द्रियपरोपरियत्तं असाधारणन्ति यथा निद्देसतो वित्थारतो सब्बं सब्बाकारं ठानाट्ठानादिं अजानन्तापि ‘‘अट्ठानमेतं अनवकासो, यं दिट्ठिसम्पन्नो पुग्गलो कञ्चि सङ्खारं निच्चतो उपगच्छेय्या’’तिआदिना (अ. नि. १.२६८) ठानाट्ठानानि उद्देसतो सङ्खेपतो सावका जानन्ति, न एवं ‘‘आसयं जानाति अनुसयं जानाती’’तिआदिना (पटि. म. १.११३) उद्देसमत्तेनपि इन्द्रियपरोपरियत्तं जानन्तीति ‘‘असाधारण’’न्ति आह. थेरेन पन सद्धादीनं इन्द्रियानं तिक्खमुदुभावजाननमत्तं सन्धाय ‘‘सत्तानं इन्द्रियपरोपरियत्तं यथाभूतं पजानामी’’ति (पटि. म. २.४४) वुत्तं, न यथावुत्तं इन्द्रियपरोपरियत्तञाणं तथागतबलन्ति अयमेत्थ अधिप्पायो दट्ठब्बो. ‘‘उद्देसतो ठानाट्ठानादिमत्तजाननवसेन पटिजानाती’’ति वुत्तं, एवं पन पटिजानन्तेन ‘‘तथागतबलं सावकसाधारण’’न्ति इदम्पि एवमेव पटिञ्ञातं सियाति कथमयं चोदेतब्बो सिया.
३५६. सेसेसु पटिक्खेपो सकवादिस्स ठानाट्ठानञाणादीनं साधारणासाधारणत्ता तत्थ साधारणपक्खं सन्धायाति अधिप्पायो.
बलकथावण्णना निट्ठिता.