धम्मुद्देसवारकथा
फस्सपञ्चमकरासिवण्णना
आचरियानन्ति रेवताचरियस्स. न पनेतं सारतो दट्ठब्बं. न हि फस्सादीनं कामावचरादिभावदस्सनत्थं इदमारद्धं, किन्तु तस्मिं समये फस्सादिसभावदस्सनत्थन्ति.
चित्तस्स पठमाभिनिपातत्ताति सब्बे चेतसिका चित्तायत्ता चित्तकिरियाभावेन वुच्चन्तीति फस्सो ‘‘चित्तस्स पठमाभिनिपातो’’ति वुत्तो. कामं उप्पन्नफस्सो पुग्गलो चित्तचेतसिकरासि वा आरम्मणेन फुट्ठो फस्ससहजाताय वेदनाय तंसमकालमेव वेदेति, फस्सो पन ओभासस्स पदीपो विय वेदनादीनं पच्चयविसेसो होतीति पुरिमकालो विय वुत्तो. गोपानसीनं उपरि तिरियं ठपितकट्ठं पक्खपासो. कट्ठद्वयादि विय एकदेसेन एकपस्सेन अनल्लीयमानोपि रूपेन सह फस्सस्स सामञ्ञं अनल्लीयमानं सङ्घट्टनमेव, न विसयभावो, सङ्घट्टनञ्च फस्सस्स चित्तारम्मणानं सन्निपतनभावो एव. वत्थारम्मणसन्निपातेन सम्पज्जतीति सङ्घट्टनसम्पत्तिको फस्सो. पाणिद्वयस्स सन्निपातो विय चित्तारम्मणसन्निपातो फस्सो चित्तस्स आरम्मणे सन्निपतितप्पवत्तिया पच्चयो होतीति किच्चट्ठेनेव रसेन सङ्घट्टनरसो. तथा पच्चयभावो हि तस्स फस्सस्स सङ्घट्टनकिच्चन्ति. यथा हि पाणिया पाणिम्हि सङ्घट्टनं तब्बिसेसभूता रूपधम्मा, एवं चित्तस्स आरम्मणे सङ्घट्टनं तब्बिसेसभूतो एको चेतसिकधम्मो दट्ठब्बो. चित्तेयेवाति एतेन चेतसिकसभावतं वत्थारम्मणेहि असंसट्ठं सङ्घट्टनं वेदनाय दस्सेति, न पन वत्थुनिस्सयतं पटिक्खिपति. तस्स फस्सस्स कारणभूतो तदनुरूपो समन्नाहारो तज्जासमन्नाहारो. इन्द्रियस्स तदभिमुखभावो आवज्जनाय च आरम्मणकरणं विसयस्स परिक्खतता अभिसङ्खतता विञ्ञाणस्स विसयभावकरणन्ति अत्थो.
सुखवेदनायमेव लब्भति अस्सादभावतोति अधिप्पायो. विस्सवितायाति अरहताय. अनेकत्थत्ता हि धातूनं अरहत्थो विपुब्बो सुसद्दो. विस्सवं वा सजनं वसिता कामकारिता विस्सविता. आरम्मणरसेकदेसमेव अनुभवन्तीति इदं फुसनादिकिच्चं एकदेसानुभवनमिव होतीति कत्वा वुत्तं. वेदयितसभावो एव हि अनुभवनन्ति. फुसनादिभावेन वा आरम्मणग्गहणं एकदेसानुभवनं, वेदयितभावेन गहणं यथाकामं सब्बानुभवनं. एवं सभावानेव तानि गहणानीति न वेदनाय विय फस्सादीनम्पि यथासककिच्चकरणेन सामिभावानुभवनं चोदेतब्बं. अयं इधाति एतेन पञ्चसु वेदनासु इमस्मिं चित्ते अधिप्पेतं सोमनस्सवेदनं वदति, तस्मा असोमनस्सवेदनं अपनेत्वा गहिताय सोमनस्सवेदनाय समाना इट्ठाकारसम्भोगरसता वुत्ताति वेदितब्बा.
निमित्तेन पुनसञ्जाननकिच्चा पच्चाभिञ्ञाणरसा. पुनसञ्जाननस्स पच्चयो पुनसञ्जाननपच्चयो, तदेव निमित्तं पुन…पे… निमित्तं, तस्स करणं पुन…पे… करणं. पुनसञ्जाननपच्चयभूतं वा निमित्तकरणं पुन…पे… करणं, तदस्सा किच्चन्ति अत्थो. पुनसञ्जाननपच्चयनिमित्तकरणं निमित्तकारिकाय निमित्तेन सञ्जानन्तिया च सब्बाय सञ्ञाय समानं वेदितब्बं. ञाणमेव अनुवत्तति, तस्मा अभिनिवेसकारिका विपरीतग्गाहिका च न होतीति अधिप्पायो. एतेनुपायेन समाधिसम्पयुत्ताय अचिरट्ठानता च न होतीति दट्ठब्बा.
अभिसन्दहतीति पबन्धति पवत्तेति. चेतनाभावो ब्यापारभावो. दिगुणुस्साहाति न दिगुणं वीरिययोगं सन्धाय वुत्तं, अत्तनो एव पन ब्यापारकिच्चस्स महन्तभावं दीपेति. उस्साहनभावेनाति आदरभावेन. सा हि सयं आदरभूता सम्पयुत्ते आदरयतीति.
विजाननं आरम्मणस्स उपलद्धि. सन्दहनं चित्तन्तरस्स अनुप्पबन्धनं. चक्खुना हि दिट्ठन्ति चक्खुना दट्ठब्बं. यथा ‘‘दिट्ठं सुतं मुतं विञ्ञात’’न्ति दट्ठब्बादि वुच्चति, एवमिधापि वेदितब्बं. चक्खुना हीतिआदीसु चक्खुना…पे… मनसा द्वारेनाति अत्थो. नगरगुत्तिकस्स विय चित्तस्स आरम्मणविभावनमत्तं उपधारणमत्तं उपलद्धिमत्तं किच्चं, आरम्मणपटिवेधनपच्चाभिञ्ञाणादि पन किच्चं पञ्ञासञ्ञादीनन्ति वेदितब्बं. पुरिमनिद्दिट्ठन्ति समयववत्थाने निद्दिट्ठं. भावेन्तो विय न न उप्पज्जति, किन्तु उप्पज्जतीति दस्सेतुं ‘‘चित्तं होती’’ति वुत्तन्ति एतं होति-सद्दस्स उप्पज्जति-सद्दस्स च समानत्थत्ते सति युज्जेय्य, तदत्थत्ते च तत्थ उप्पन्नं होतीति न वुच्चेय्य. न हि युत्तं उप्पन्नं उप्पज्जतीति वत्तुं. चित्तस्स च उप्पन्नता समयववत्थाने वुत्ता एवाति किं तस्स पुन उप्पत्तिदस्सनेन. येन च समयववत्थानं कतं, तस्स निद्देसो न न सक्का कातुन्ति किं तं निद्देसत्थं उद्देसेन दुतियेन, निद्देसेनेव च फस्सादीहि च अञ्ञत्तं चित्तस्स सिज्झतीति किं तदत्थेन पुन वचनेन, अञ्ञप्पयोजनत्ता पन पुरिमस्स चित्तवचनस्स पच्छिमं वुत्तं. पुरिमञ्हि समयववत्थानत्थमेव वुत्तं, न ववत्थितसमये विज्जमानधम्मदस्सनत्थं, इतरञ्च तस्मिं समये विज्जमानधम्मदस्सनत्थं वुत्तं, न समयववत्थानत्थं, न च अञ्ञदत्थं वचनं अञ्ञदत्थं वदति, न च लेसेन वुत्तोति कत्वा महाकारुणिको अत्थं पाकटं न करोतीति.
फस्सपञ्चमकरासिवण्णना निट्ठिता.
झानङ्गरासिवण्णना
वितक्केतीति धम्मतो अञ्ञस्स कत्तुनिवत्तनत्थं धम्ममेव कत्तारं निद्दिसति. तस्स पन वसवत्तिभावनिवारणत्थं ‘‘वितक्कनं वा’’ति भावनिद्देसो. रूपं रूपन्ति पथवी पथवीति वा आकोटेन्तो विय होतीति आकोटनलक्खणो. आदितो, अभिमुखं वा हननं आहननं, परितो, परिवत्तेत्वा वा आहननं परियाहननं. विचारतो ओळारिकट्ठेन विचारस्सेव पुब्बङ्गमट्ठेन अनुरवतो ओळारिको तस्स च पुब्बङ्गमो घण्टाभिघातो विय होति वितक्को. सो यथा घण्टाभिघातो पठमाभिनिपातो होति, एवं आरम्मणाभिमुखनिरोपनट्ठेन पठमाभिनिपातो होति. विप्फारवाति विचलनयुत्तो. अनुप्पबन्धेन पवत्तियन्ति उपचारे वा अप्पनायं वा सन्तानेन पवत्तियं. तत्थ हि वितक्को निच्चलो हुत्वा आरम्मणं अनुपविसित्वा पवत्तति. मण्डलन्ति खलमण्डलं.
पिणयतीति तप्पेति, वड्ढेति वा. फरणरसाति पणीतरूपेहि कायस्स ब्यापनरसा. उदग्गभावो ओदग्यं. खुद्दिका लहुं लोमहंसनमत्तं कत्वा भिन्ना न पुन उप्पज्जति. खणिका बहुलं उप्पज्जति. उब्बेगतो फरणा निच्चलत्ता चिरट्ठितिकत्ता च पणीततरा. पस्सद्धिया निमित्तभावेन गब्भं गण्हन्ती. अप्पनासम्पयुत्ताव पीति अप्पनासमाधिपूरिकाति कत्वा सा ठपिता. इतरा द्वे खणिकोपचारसमाधिपूरिका पीती.
समाधिचित्तेनाति समाधिसहितचित्तेन. अविसारो अत्तनो एव अविसरणसभावो. अविक्खेपो सम्पयुत्तानं अविक्खित्तता. येन सम्पयुत्ता अविक्खित्ता होन्ति, सो धम्मो अविक्खेपोति. विसेसतोति येभुय्येन. सुखविरहितोपि हि अत्थि समाधीति. पदीपनिदस्सनेन सन्तानट्ठितिभावं समाधिस्स दस्सेति.
झानङ्गरासिवण्णना निट्ठिता.
इन्द्रियरासिवण्णना
सद्दहन्ति एतायाति सद्दहनकिरियाय पवत्तमानानं धम्मानं तत्थ आधिपच्चभावेन सद्धाय पच्चयतं दस्सेति. तस्सा हि धम्मानं तथापच्चयभावे सति ‘‘पुग्गलो सद्दहती’’ति वोहारो होति. पसादनीयट्ठानेसु पसादस्स पटिपक्खभूतं अकुसलं अस्सद्धियं मिच्छाधिमोक्खो च. पसादभूतो निच्छयो वत्थुगतो अधिमोक्खलक्खणं, न येवापनकाधिमोक्खोति. इन्दट्ठं कारेतीति ‘‘मं अन्तरेन तुम्हाकं अधिमुच्चनं नत्थि, मया सद्दहथा’’ति विय अत्तानं अनुवत्तेति सम्पयुत्तधम्मे. एवं सेसेसुपि. पक्खन्दनन्ति संसीदनं. पङ्को कद्दमतो घनीभूतो होति. पणकं पिच्छिलं उदकमलं. पीतं उदकं. ओकप्पनलक्खणाति अनुपविसित्वा एवमेतन्ति कप्पनलक्खणा. अकलुसभावो अकालुसियं, अनाविलभावोति अत्थो. बुद्धादिवत्थूनि सद्धेय्यानि. सप्पुरिसूपसेवनसद्धम्मसवनयोनिसोमनसिकारधम्मानुधम्मपटिपत्तियो सोतापत्तियङ्गानि. कुसलधम्मानं आदाने हत्थो विय, सब्बसम्पत्तिनिप्फादने वित्तं विय, अमतकसिफलफलने बीजं विय दट्ठब्बा.
वीरभावोति येन वीरो नाम होति, सो धम्मोति अत्थो. अनुबलप्पदानं पग्गहो. मग्गो गन्तब्बो होति, मग्गो गतो, कम्मं कत्तब्बं, कम्मं कतं, अप्पमत्तको आबाधो उप्पन्नो, गिलाना वुट्ठितो होति अचिरवुट्ठितो गेलञ्ञा, गामं वा निगमं वा पिण्डाय चरन्तो न लभति लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं, लभति…पे… पारिपूरिन्ति एतानि अनुरूपपच्चवेक्खणासहितानि अट्ठ वीरियारम्भवत्थूनि तंमूलकानि वा पच्चवेक्खणानि.
चिरकतादिआरम्मणं उपगन्त्वा ठानं, अनिस्सज्जनं वा आरम्मणस्स उपट्ठानं. उदके अलाबु विय आरम्मणं पिलवित्वा गन्तुं अप्पदानं पासाणस्स विय निच्चलस्स आरम्मणस्स ठपनं सारणं असम्मुट्ठताकरणं अपिलापनं. अपिलापे करोति अपिलापेति. गतियोति निप्फत्तियो सम्भवतो फलतो च. अपरो नयोति रसादिदस्सनत्थं आरद्धं. सम्मोसपच्चनीकं किच्चं असम्मोसो, न सम्मोसाभावमत्तं. सतिया वत्थुभूता कायादयो कायादिसतिपट्ठाना, सतियोयेव वा पुरिमा पच्छिमानं पदट्ठानं.
विक्खेपस्स उद्धच्चस्स. पञ्ञापेतीति पकारेहि जानापेति. एकालोका होतीति विपस्सनुपक्किलेसोभासं सन्धायाह. मनते विजानाति एतेनाति वा मनो, एवञ्च कत्वा ‘‘मनञ्च पटिच्च धम्मे चा’’ति (म. नि. १.२०४, ४००; ३.४२१, ४२५) कारणभावेन मनो वुत्तो. सब्बो हि मनो अत्तनो अनन्तरस्स विञ्ञाणस्स कारणन्ति. विजानातीति परिच्छिन्नोपलद्धिवसेन जानाति, न सञ्ञापञ्ञा विय सञ्जाननपटिविज्झनवसेन.
पीतिसोमनस्ससम्पयोगतोति वुत्ते येन योगा सुमनो होति, तं सोमनस्सन्ति वुच्चतीति पीतिया च सोमनस्सभावो आपज्जति, तस्मा विनापि कायेन वत्थुना सातवेदनासम्पयोगतोति योजेतब्बं. एवञ्च निप्पीतिकं सोमनस्सञ्च सङ्गहितं होति, पीतिउपलक्खितं वा सोमनस्सं सप्पीतिकं निप्पीतिकञ्च सोमनस्सन्ति अत्थो दट्ठब्बो.
पवत्तसन्तताधिपतेय्यन्ति पवत्तसङ्खाताय सन्ततिया अधिपतिभूतं. जीवितिन्द्रियस्स हि अत्तनो विज्जमानक्खणे अनुपालेन्तस्स अनन्तरञ्च सानुपालनानं उप्पत्तिया हेतुभूतस्स वसेन पवत्तं चिरट्ठितिकं होति, तंतंकम्मविसेसेन विसेसयुत्तं याव चुति अविसेसेन वा याव परिनिब्बानं अविच्छिन्नं पवत्तति जीवमानताविसेसयुत्तञ्चाति रूपारूपजीवितिन्द्रियानं समानलक्खणादिं वत्तुं ‘‘अत्तना अविनिभुत्तधम्मान’’न्ति आह. अनुपालेतब्बानं अत्थिक्खणेयेव. असति हि अनुपालेतब्बे उप्पलादिम्हि किं उदकं अनुपालेय्याति. तस्स तस्साति अनुपालनादिकस्स. साधनतोति साधनेन. तंसाधनञ्च जीवमानविसेसपच्चयभावतो.
इन्द्रियरासिवण्णना निट्ठिता.
मग्गङ्गरासिवण्णना
सम्माति अविपरीतनिय्यानिकभावेन. पसत्थता च एवमेव दट्ठब्बा.
बलरासिवण्णना
अस्सद्धियेति अस्सद्धियकारणा. उभयपदवसेनाति सद्धापदं बलपदन्ति एवमादिपदद्वयवसेन. नियकज्झत्तं जातिआदिसमुट्ठानं एतिस्साति अज्झत्तसमुट्ठाना. गरुना किस्मिञ्चि वुत्ते गारववसेन पतिस्सवनं पतिस्सवो, सह पतिस्सवेन सप्पतिस्सवं, पतिस्सवभूतं तंसभागञ्च यंकिञ्चि गारवन्ति अत्थो. जातिआदिमहत्तपच्चवेक्खणेन उप्पज्जमाना च हिरी तत्थ गारववसेन पवत्ततीति ‘‘सप्पतिस्सवलक्खणा’’ति वुच्चति. वज्जं भायति तञ्च भयतो पस्सतीति वज्जभीरुकभयदस्सावी. एवंसभावं ओत्तप्पं. हिरी पापधम्मे गूथं विय पस्सति, ओत्तप्पं उण्हं विय. दायज्जं नवलोकुत्तरधम्मादि. अज्झत्तसमुट्ठानादिता च हिरीओत्तप्पानं तत्थ तत्थ पाकटभावेन वुत्ता, न पन तेसं कदाचि अञ्ञमञ्ञं विप्पयोगा. न हि लज्जनं निब्भयं पापभयं वा अलज्जनं होतीति.
मूलरासिवण्णना
अगेधो अनभिज्झनं अनभिकङ्खनं. अनल्लीनो भावो अधिप्पायो एतस्साति अनल्लीनभावो, एवञ्हि उपमाय समेति. अनुकूलमित्तो अनुवत्तको. विनयरसोति विनयनरसो. अदोसो दुस्सील्यमलस्साति इदं दुस्सील्यस्स दोससमुट्ठानतं दोसूपनिस्सयतञ्च सन्धाय वुत्तं. अभावनायाति ‘‘तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावनाइन्द्रियानं एकरसट्ठेन भावना तदुपगवीरियवाहनट्ठेन भावना आसेवनट्ठेन भावना’’ति एवं वुत्ताय पञ्ञासाधनाय भावनाय अप्पवत्ति, तप्पटिपक्खभूता वा अकुसला अभावना. निग्गुणेपि गुणग्गहणं अधिकग्गहणं. विज्जमानम्पि गुणं विद्धंसेत्वा गहणं ऊनग्गहणं. चतुविपल्लासग्गहणं विपरीतग्गहणं.
याथावसभावेति ‘‘एत्तको एतस्स गुणो, एत्तको दोसो’’ति गुणदोसानं सभावे ‘‘जराधम्मो जीरति, तं कुतेत्थ लब्भा मा जीरी’’ति एवमादिपच्चवेक्खणसम्भवतो. अलोभेन च गहट्ठानं खेत्तवत्थादीसु विवादाभावतो. अमोहेन पब्बजितानं दिट्ठिगतविवादाभावतो. कामरागाभिनिवेसविनिबन्धा हि गहट्ठा गहट्ठेहि विवदन्ति, दिट्ठिरागाभिनिवेसविनिबन्धा समणा समणेहीति. रागवसेन मित्तसन्थवो दोसवसेन विरोधो च तब्बिसेसेन उपगमापगमा, आरम्मणे वा रूपादिम्हि अनुरोधविरोधा. अमज्झत्तभावस्स पटिघानुनयसङ्खातस्स मोहेन पवत्ति. सुखविपरिणामे दुक्खसमायोगे च पटिघपवत्तियं वेदनापरिग्गहो न सिज्झतीति अदोसानुभावेन वेदनासतिपट्ठानं सिज्झति. दिब्बविहारस्साति चतुन्नं झानानं. अरियविहारो फलसमापत्ति. मोहेन अविचारेन्तो उदासीनपक्खेसुपि सत्तसङ्खारेसु सब्बेसु अभिसङ्गं करोतीति अमूळ्हस्स तदभावो वेदितब्बो. दुक्खदस्सनस्स आसन्नपटिपक्खत्ता दोसस्स तप्पटिपक्खेन अदोसेन दुक्खदस्सनं होति.
कम्मपथरासिवण्णना
सुखादीनि अत्तनो न ब्यापादेति न विनासेति परस्स चाति दट्ठब्बं. कम्मपथतातंसभागताहि कम्मपथवसेन.
पस्सद्धादियुगलवण्णना
दरथो सारम्भो, दुक्खदोमनस्सपच्चयानं उद्धच्चादिकानं किलेसानं चतुन्नं वा खन्धानं एतं अधिवचनं. उद्धच्चप्पधाना किलेसा उद्धच्चादिकिलेसा, उद्धच्चं वा आदिं कत्वा सब्बकिलेसे सङ्गण्हाति. सुवण्णविसुद्धि वियाति यथा सुवण्णविसुद्धि अलङ्कारविकतिविनियोगक्खमा, एवं अयम्पि हितकिरियाविनियोगक्खमा.
समं, समन्ततो वा पकारेहि जाननं सम्पजञ्ञं. चेतियवन्दनादिअत्थं अभिक्कमादीसु अत्थानत्थपरिग्गण्हनं सात्थकसम्पजञ्ञं. सति च अत्थे सप्पायासप्पायरूपादिपरिग्गण्हनं सप्पायसम्पजञ्ञं. गोचरगामाभिक्कमनादीसु कम्मट्ठानाविजहनं गोचरसम्पजञ्ञं. अभिक्कमनादीनं धातुआदिवसेन पविचयो असम्मोहसम्पजञ्ञं. सब्बकम्मट्ठानभावनानुयुत्तानं सब्बयोगीनं सब्बदा उपकारका इमे द्वे धम्मा पारिपन्थकहरणतो भावनावड्ढनतो च. यथाह ‘‘द्वे धम्मा बहुकारा सति च सम्पजञ्ञञ्चा’’ति (दी. नि. ३.३५२). युगे नद्धा वियाति युगनद्धा, अञ्ञमञ्ञं निमित्तभावेन समं पवत्ताति अत्थो. ‘‘पुन चपरं, आवुसो, भिक्खु समथविपस्सनं युगनद्धं भावेती’’ति (अ. नि. ४.१७०; पटि. म. २.१) हि सुत्ते एतेसं युगनद्धता वुत्ता. सब्बकुसलधम्मेसु लीनुद्धच्चाभावो एतेहि द्वीहि समं युत्तेहीति ‘‘वीरियसमाधियोजनत्थाया’’ति आह, योगवचनत्थायाति अत्थो.
येवापनकवण्णना
रूपाभावेनाति रुप्पनाभावेन. धम्माति एतस्स अत्थो सभावतो उपलब्भमानाति. मेत्तापुब्बभागोति अप्पनाप्पत्ताय मेत्ताय पुब्बभागो, परिकम्ममेत्ता एतस्मिं चित्ते अत्थीति अत्थो. विरतिवसेनाति वचीपवत्तिया न पूरेति, किन्तु विरतियोगेनाति अत्थो. अपण्णकङ्गानीति अविरद्धङ्गानि. यथा तथा वा आरम्मणे विनिच्छयनं अधिमुच्चनं. न हि अनधिमुच्चन्तो पाणातिपातादीसु दानादीसु वा पवत्तति, सद्धा पन पसादनीयेसु पसादाधिमोक्खोति अयमेतेसं विसेसो. दारकस्स विय इतो चितो च संसप्पनस्स करिस्सामि न करिस्सामीति अविनिच्छयस्स पटिपक्खकिरिया असंसप्पनं. पुरिममनतोति भवङ्गतो. विसदिसं वीथिजवनं मनं करोतीति मनसिकारसामञ्ञेन वीथिजवनपटिपादके दस्सेति. तेसु धम्मेसूति चित्तचेतसिकधम्मेसु. अतदारम्मणत्तेपि हि तेसु समप्पवत्तेसु उदासीनभावतो तत्रमज्झत्तताति वुच्चति. अलीनानुद्धतप्पवत्तिपच्चयत्ता ऊनाधिकनिवारणरसा. कायदुच्चरितादिवत्थूनन्ति पाणादीनं. अमद्दना मद्दनपटिपक्खभावोव.
तंतंरासिकिच्चवसेन विभागरहिता अविभत्तिका. एत्थाति एतेसु सविभत्तिकेसु दुतियट्ठानादीसुपि भाजियमानेसु अपुब्बं नत्थीति अत्थो. पदं पूरितन्ति झानादिपदं पञ्चकादिवसेन पूरितं. पञ्च हि अङ्गानि झानपदस्स अत्थो, तेसु एकस्मिञ्च ऊने झानपदं ऊनं होतीति. पदसमूहो पदकोट्ठासो वा तं तमेव वा पदं, अवुत्तं हापितं नाम होतीति वुत्तं ‘‘पूरित’’न्ति. वुत्तस्मिञ्ञेव वुच्चमाने अनेकेसं पुरिससद्दानं विय कोचि सम्बन्धो नत्थीति मञ्ञमानो आह ‘‘अननुसन्धिका कथा’’ति. अन्तरन्तरा वुत्तस्मिञ्ञेव वुच्चमाने अनुक्कमेन धम्मा कथिता न होन्तीति आह ‘‘उप्पटिपाटिया’’ति. फस्सपञ्चमकरासि सब्बचित्तुप्पादसाधारणवसेन चतुक्खन्धतप्पच्चयसङ्गहवसेन च वुत्तो. यथावुत्तेसु पन रासीसु एकरासिकिच्चस्सपि अभावा छन्दादयो येवापनकवसेन वुत्ता. वुत्तानम्पि च धम्मानं यथा वेदनादीनं झानङ्गादिभावो वुत्तो, न एवं सोवचस्सताकल्याणमित्ततादिविसेसो वुत्तोति तस्स सङ्गण्हनत्थं केचि धम्मे विसुं ठपेत्वा ते च तञ्च विसेसं ‘‘ये वा पना’’ति आह. वेनेय्यज्झासयवसेन वा सावसेसे धम्मे वत्वा ‘‘ये वा पना’’ति वुत्तं.
येवापनकवण्णना निट्ठिता.
धम्मुद्देसवारकथावण्णना निट्ठिता.