९. मेत्तसुत्तवण्णना
६२. नवमे मा, भिक्खवे, पुञ्ञानन्ति (इतिवु. अट्ठ. ६२) एत्थ माति पटिसेधे निपातो. पुञ्ञ-सद्दो ‘‘कुसलानं, भिक्खवे, धम्मानं समादानहेतु एवमिदं पुञ्ञं पवड्ढती’’तिआदीसु (दी. नि. ३.८०) पुञ्ञफले आगतो. ‘‘अविज्जागतोयं, भिक्खवे, पुरिसपुग्गलो पुञ्ञञ्चे सङ्खारं अभिसङ्खरोती’’तिआदीसु (सं. नि. २.५१) कामरूपावचरसुचरितेसु. ‘‘पुञ्ञूपगं होति विञ्ञाण’’न्तिआदीसु (सं. नि. २.५१) सुगतिविसेसभूते उपपत्तिभवे. ‘‘तीणिमानि, भिक्खवे, पुञ्ञकिरियवत्थूनि दानमयं पुञ्ञकिरियवत्थु, सीलमयं पुञ्ञकिरियवत्थु, भावनामयं पुञ्ञकिरियवत्थू’’तिआदीसु (इतिवु. ६०; दी. नि. ३.३०५; अ. नि. ८.३६) कुसलचेतनायं. इध पन तेभूमककुसलधम्मे वेदितब्बो. भायित्थाति एत्थ दुविधं भयं ञाणभयं, सारज्जभयन्ति. तत्थ ‘‘येपि ते, भिक्खवे, देवा दीघायुका वण्णवन्तो सुखबहुला उच्चेसु विमानेसु चिरट्ठितिका, तेपि तथागतस्स धम्मदेसनं सुत्वा येभुय्येन भयं संवेगं सन्तासं आपज्जन्ती’’ति (अ. नि. ४.३३) आगतं ञाणभयं. ‘‘अहुदेव भयं, अहु छम्भितत्तं, अहु लोमहंसो’’तिआदीसु (दी. नि. २.३१८) आगतं सारज्जभयं. इधापि सारज्जभयमेव. अयञ्हेत्थ अत्थो – भिक्खवे, दीघरत्तं कायवचीसंयमो वत्तप्पटिवत्तपूरणं एकासनं एकसेय्यं इन्द्रियदमो धुतधम्मेहि चित्तस्स निग्गहो सतिसम्पजञ्ञं कम्मट्ठानानुयोगवसेन वीरियारम्भोति एवमादीनि यानि भिक्खुना निरन्तरं पवत्तेतब्बानि पुञ्ञानि, तेहि मा भायित्थ, मा भयं सन्तासं आपज्जित्थ. एकच्चस्स दिट्ठधम्मसुखस्स उपरोधभयेन सम्परायिकनिब्बानसुखदायकेहि पुञ्ञेहि मा भायित्थाति. निस्सक्के इदं सामिवचनं.
इदानि ततो अभायितब्बभावे कारणं दस्सेन्तो ‘‘सुखस्सेत’’न्तिआदिमाह. तत्थ सुख-सद्दो ‘‘सुखो बुद्धानमुप्पादो, सुखा विरागता लोके’’तिआदीसु (ध. प. १९४) सुखमूले आगतो. ‘‘यस्मा च खो, महालि, रूपं सुखं सुखानुपतितं सुखावक्कन्त’’न्तिआदीसु (सं. नि. ३.६०) सुखारम्मणे. ‘‘यावञ्चिदं, भिक्खवे, न सुकरं अक्खानेन पापुणितुं याव सुखा सग्गा’’तिआदीसु (म. नि. ३.२५५) सुखपच्चयट्ठाने. ‘‘सुखो पुञ्ञस्स उच्चयो’’तिआदीसु (ध. प. ११८) सुखहेतुम्हि. ‘‘दिट्ठधम्मसुखविहारा एते धम्मा’’तिआदीसु (म. नि. १.८२) अब्यापज्जे. ‘‘निब्बानं परमं सुख’’न्तिआदीसु (म. नि. २.२१५; ध. प. २०३, २०४) निब्बाने. ‘‘सुखस्स च पहाना’’तिआदीसु (दी. नि. १.२३२; म. नि. १.२७१; सं. नि. २.१५२) सुखवेदनायं. ‘‘अदुक्खमसुखं सन्तं, सुखमिच्चेव भासित’’न्तिआदीसु (सं. नि. ४.२५३; इतिवु. ५३) उपेक्खावेदनायं. ‘‘द्वेपि मया, आनन्द, वेदना वुत्ता परियायेन सुखा वेदना दुक्खा वेदना’’तिआदीसु (म. नि. २.८९) इट्ठसुखेसु. ‘‘सुखो विपाको पुञ्ञान’’न्तिआदीसु (पेटको. २३) इट्ठविपाके. इधापि इट्ठविपाके एव दट्ठब्बो. इट्ठस्सातिआदीसु इच्छितब्बतो चेव अनिट्ठप्पटिपक्खतो च इट्ठस्स. कमनीयतो मनस्मिञ्च कमनतो पविसनतो कन्तस्स. पियायितब्बतो सन्तप्पनतो च पियस्स. मननीयतो मनस्स वड्ढनतो च मनापस्साति अत्थो वेदितब्बो. यदिदं पुञ्ञानीति पुञ्ञानीति यदिदं वचनं, एतं सुखस्स इट्ठस्स विपाकस्स अधिवचनं नामं. सुखस्सेतं यदिदं पुञ्ञानीति फलेन कारणस्स अभेदोपचारं वदति. तेन कतूपचितानं पुञ्ञानं अवस्संभाविफलं सुत्वा अप्पमत्तेन सक्कच्चं पुञ्ञानि कत्तब्बानीति पुञ्ञकिरियायं नियोजेति, आदरञ्च नेसं तत्थ उप्पादेति.
इदानि अत्तना सुनेत्तकाले कतेन पुञ्ञकम्मेन दीघरत्तं पच्चनुभूतं भवन्तरप्पटिच्छन्नं उळारतरं पुञ्ञविपाकं उदाहरित्वा तमत्थं पाकटतरं करोन्तो ‘‘अभिजानामि खो पनाह’’न्तिआदिमाह. तत्थ अभिजानामीति अभिविसिट्ठेन ञाणेन जानामि, पच्चक्खतो बुज्झामि. दीघरत्तन्ति चिरकालं. पुञ्ञानन्ति दानादीनं कुसलधम्मानं. सत्त वस्सानीति सत्त संवच्छरानि. मेत्तचित्तन्ति मिज्जतीति मेत्ता, सिनिय्हतीति अत्थो. मित्ते भवा, मित्तस्स वा एसा पवत्तीतिपि मेत्ता. लक्खणादितो पन हिताकारप्पवत्तिलक्खणा, हितूपसंहाररसा, आघातविनयपच्चुपट्ठाना, सत्तानं मनापभावदस्सनपदट्ठाना. ब्यापादूपसमो एतिस्सा सम्पत्ति, सिनेहसम्भवो विपत्ति. मेत्तचित्तं भावेत्वाति मेत्तासहगतं चित्तं, चित्तसीसेन समाधि वुत्तोति मेत्तासमाधिं मेताब्रह्मविहारं उप्पादेत्वा चेव वड्ढेत्वा च.
सत्त संवट्टविवट्टकप्पेति सत्त महाकप्पे. संवट्टविवट्टग्गहणेनेव हि संवट्टट्ठायिविवट्टट्ठायिनोपि गहिता. इमं लोकन्ति कामलोकं. संवट्टमाने सुदन्ति संवट्टमाने, सुदन्ति निपातमत्तं, विपज्जमानेति अत्थो. ‘‘वरसंवत्तट्ठाने सुद’’न्तिपि पठन्ति. कप्पेति काले. कप्पसीसेन हि कालो वुत्तो, काले खीयमाने सब्बोपि खीयतेव. यथाह – ‘‘कालो घसति भूतानि, सब्बानेव सहत्तना’’ति (जा. १.२.१९०). ‘‘आभस्सरूपगो होमी’’ति वुत्तत्ता तेजोसंवट्टवसेनेत्थ कप्पवुट्ठानं वेदितब्बं. आभस्सरूपगोति तत्थ पटिसन्धिग्गहणवसेन आभस्सरब्रह्मलोकं उपगच्छामीति आभस्सरूपगो होमि. विवट्टमानेति सण्ठहमानेति अत्थो. सुञ्ञं ब्रह्मविमानं उपपज्जामीति कस्सचि सत्तस्स तत्थ निब्बत्तस्स अभावतो सुञ्ञं यं पठमज्झानभूमिसङ्खातं ब्रह्मविमानं आदितो निब्बत्तति, तं पटिसन्धिग्गहणवसेन उपपज्जामि उपेमि.
ब्रह्माति कामावचरसत्तेहि विसिट्ठट्ठेन तथा तथा ब्रूहितगुणताय ब्रह्मविहारतो निब्बत्तनट्ठेन च ब्रह्मा. ब्रह्मपारिसज्जब्रह्मपुरोहितेहि महन्तो ब्रह्माति महाब्रह्मा, ततो एव ते अभिभवित्वा ठितत्ता अभिभू. तेहि न केनचिपि गुणेन अभिभूतोति अनभिभूतो. अञ्ञदत्थूति एकंसवचने निपातो. दस्सनतो दसो, अतीतानागतपच्चुप्पन्नानं दस्सनसमत्थो अभिञ्ञाञाणेन पस्सितब्बं पस्सामीति अत्थो. सेसब्रह्मानं इद्धिपादभावनाबलेन अत्तनो चित्तञ्च मम वसे वत्तेमीति वसवत्ती होमीति योजेतब्बं. तदा किर बोधिसत्तो अट्ठसमापत्तिलाभीपि समानो तथा सत्तहितं अत्तनो पारमिपूरणञ्च ओलोकेन्तो तासु एव द्वीसु झानभूमीसु निकन्ति उप्पादेत्वा मेत्ताब्रह्मविहारवसेन अपरापरं संसरि. तेन वुत्तं ‘‘सत्त वस्सानि…पे… वसवत्ती’’ति.
एवं भगवा रूपावचरपुञ्ञस्स विपाकमहन्ततं पकासेत्वा इदानि कामावचरपुञ्ञस्सपि विपाकं दस्सेन्तो ‘‘छत्तिंसक्खत्तु’’न्तिआदिमाह. तत्थ सक्को अहोसिन्ति छत्तिंसक्खत्तुं छत्तिंसवारे अञ्ञत्थ अनुपपज्जित्वा निरन्तरं सक्को देवानमिन्दो तावतिंसदेवराजा अहोसिं. राजा अहोसिन्तिआदीसु चतूहि अच्छरियधम्मेहि चतूहि सङ्गहवत्थूहि च लोकं रञ्जेतीति राजा. चक्करतनं वत्तेति, चतूहि सम्पत्तिचक्केहि वत्तति, तेहि च परं वत्तेति, परहिताय च इरियापथचक्कानं वत्तो एतस्मिं अत्थीति चक्कवत्ती. ‘‘राजा’’ति चेत्थ सामञ्ञं, ‘‘चक्कवत्ती’’ति विसेसं. धम्मेन चरतीति धम्मिको, ञायेन समेन वत्ततीति अत्थो. धम्मेनेव रज्जं लभित्वा राजा जातोति धम्मराजा, दसविधे कुसलधम्मे अगरहिते च राजधम्मे नियुत्तोति धम्मिको. तेन च धम्मेन सकलं लोकं रञ्जेतीति धम्मराजा. परहितधम्मकरणेन वा धम्मिको, अत्तहितधम्मकरणेन धम्मराजा. यस्मा चक्कवत्ती धम्मेन ञायेन रज्जं अधिगच्छति, न अधम्मेन, तस्मा वुत्तं ‘‘धम्मेन लद्धरज्जत्ता धम्मराजा’’ति.
चतूसु दिसासु समुद्दपरियोसानताय चातुरन्ता नाम तत्थ तत्थ दीपे महापथवीति आह ‘‘पुरत्थिम…पे… इस्सरो’’ति. विजितावीति विजेतब्बस्स विजितवा, कामकोधादिकस्स अब्भन्तरस्स पटिराजभूतस्स बाहिरस्स च अरिगणस्स विजयी विजिनित्वा ठितोति अत्थो. कामं चक्कवत्तिनो केनचि युद्धं नाम नत्थि, युद्धेन पन साधेतब्बस्स विजयस्स सिद्धिया ‘‘विजितसङ्गामो’’ति वुत्तं. जनपदो वा चतुब्बिधअच्छरियधम्मेन समन्नागतो अस्मिं राजिनि थावरियं केनचि असंहारियं दळ्हभत्तिभावं पत्तो, जनपदे वा अत्तनो धम्मिकाय पटिपत्तिया थावरियं थिरभावं पत्तोति जनपदत्थावरियप्पत्तो. चण्डस्स हि रञ्ञो बलिदण्डादीहि लोकं पीळयतो मनुस्सा मज्झिमजनपदं छड्डेत्वा पब्बतसमुद्दतीरकन्दरादीनि निस्साय पच्चन्ते वासं कप्पेन्ति. अतिमुदुकस्स रञ्ञो चोरेहि साहसिकधनविलोपपीळिता मनुस्सा पच्चन्तं पहाय जनपदमज्झे वासं कप्पेन्ति. इति एवरूपे राजिनि जनपदो थिरभावं न पापुणाति.
सत्तरतनसमन्नागतोति चक्करतनादीहि सत्तहि रतनेहि समुपेतो. तेसु हि राजा चक्कवत्ती चक्करतनेन अजितं जिनाति, हत्थिअस्सरतनेहि विजिते सुखेनेव अनुविचरति, परिणायकरतनेन विजितमनुरक्खति, अवसेसेहि उपभोगसुखमनुभवति. पठमेन चस्स उस्साहसत्तियोगो, पच्छिमेन मन्तसत्तियोगो, हत्थिअस्सगहपतिरतनेहि पभुसत्तियोगो सुपरिपुण्णो होति. इत्थिमणिरतनेहि उपभोगसुखमनुभवति, सेसेहि इस्सरियसुखं. विसेसतो चस्स पुरिमानि तीणि अदोसकुसलमूलजनितकम्मानुभावेन सम्पज्जन्ति, मज्झिमानि अलोभकुसलमूलजनितकम्मानुभावेन, पच्छिममेकं अमोहकुसलमूलजनितकम्मानुभावेनाति.
सूराति सत्तिवन्तो, निब्भयाति अत्थोति आह ‘‘अभीरुनो’’ति. अङ्गन्ति कारणं. येन कारणेन ‘‘वीरा’’ति वुच्चेय्युं, तं वीरङ्गं. तेनाह ‘‘वीरियस्सेतं नाम’’न्ति. याव चक्कवाळपब्बता चक्कस्स वत्तनतो ‘‘चक्कवाळपब्बतं सीमं कत्वा ठितसमुद्दपरियन्त’’न्ति वुत्तं. अदण्डेनाति इमिना धनदण्डस्स सरीरदण्डस्स च अकरणं वुत्तं. असत्थेनाति इमिना पन सेनाय युज्झनस्साति तदुभयं दस्सेतुं ‘‘न दण्डेना’’तिआदि वुत्तं. इदं वुत्तं होति – ये कतापराधे सत्ते सतम्पि सहस्सम्पि गण्हन्ति, ते धनदण्डेन रज्जं कारेन्ति. ये छेज्जभेज्जं अनुसासन्ति, ते सत्थदण्डेन. अहं पन दुविधम्पि दण्डं पहाय अदण्डेन अज्झावसिं. ये एकतोधारादिना सत्थेन परं विहेठेन्ति, ते सत्थेन रज्जं कारेन्ति नाम. अहं पन सत्थेन खुद्दकमक्खिकाय पिवनमत्तम्पि लोहितं कस्सचि अनुप्पादेत्वा धम्मेनेव ‘‘एहि खो, महाराजा’’ति एवं पटिराजूहि सम्पटिच्छितागमनो वुत्तप्पकारं पथविं अभिजिनित्वा अज्झावसिं, अभिविजिनित्वा सामी हुत्वा वसिन्ति.
इति भगवा अत्तानं कायसक्खिं कत्वा पुञ्ञानं विपाकमहन्ततं पकासेत्वा इदानि तमेवत्थं गाथाबन्धनेन दस्सेन्तो ‘‘पस्स, पुञ्ञानं विपाक’’न्तिआदिमाह. सुखेसिनोति आलपनवचनमेतं, तेन सुखपरियेसके सत्ते आमन्तेति. पाळियं पन ‘‘पस्सथा’’ति वत्तब्बे ‘‘पस्सा’’ति वचनब्यत्तयो कतोति दट्ठब्बो. मनुस्सानं उरे सत्थं ठपेत्वा इच्छितधनहरणादिना वा साहसकारिताय साहसिका, तेसं कम्मं साहसिककम्मं. पथविया इस्सरो पथब्योति आह ‘‘पुथविसामिको’’ति.
मेत्तसुत्तवण्णना निट्ठिता.