८. पचलायमानसुत्तवण्णना
६१. अट्ठमे आलोकसञ्ञं मनसि करेय्यासीति दिवा वा रत्तिं वा सूरियपज्जोतचन्दमणिआदीनं आलोकं ‘‘आलोको’’ति मनसि करेय्यासि. इदं वुत्तं होति – सूरियचन्दालोकादिं दिवा रत्तिञ्च उपलद्धं यथालद्धवसेनेव मनसि करेय्यासि, चित्ते ठपेय्यासि. यथा ते सुभावितालोककसिणस्स विय कसिणालोको यदिच्छकं यावदिच्छकञ्च सो आलोको रत्तियं उपतिट्ठति, येन तत्थ दिवासञ्ञं ठपेय्यासि, दिवा विय विगतथिनमिद्धोव भवेय्यासीति. तेनाह ‘‘यथा दिवा तथा रत्ति’’न्ति. इति विवटेन चेतसाति एवं अपिहितेन चित्तेन थिनमिद्धपिधानेन अपिहितत्ता. अपरियोनद्धेनाति समन्ततो अनोनद्धेन असञ्छादितेन. सहोभासन्ति सञाणोभासं. थिनमिद्धविनोदनआलोकोपि वा होतु कसिणालोकोपि वा परिकम्मालोकोपि वा, उपक्किलेसालोको विय सब्बोयं आलोको ञाणसमुट्ठानोवाति. येसं अकरणे पुग्गलो महाजानियो होति, तानि अवस्सं कातब्बानि. यानि अकातुम्पि वट्टन्ति, सति समवाये कातब्बतो तानि करणीयानीति आह ‘‘इतरानि करणीयानी’’ति. अथ वा कत्तब्बानि कम्मानि करणं अरहन्तीति करणीयानि. इतरानि किच्चानीतिपि वदन्ति.
आदिनयप्पवत्ता विग्गाहिककथाति ‘‘न त्वं इमं धम्मविनयं आजानासि, अहं इमं धम्मविनयं आजानामि, किं त्वं इमं धम्मविनयं आजानिस्ससि, मिच्छापटिपन्नो त्वमसि, अहमस्मि सम्मापटिपन्नो, सहितं मे, असहितं ते, पुरेवचनीयं पच्छा अवच, पच्छावचनीयं पुरे अवच, अधिचिण्णं ते विपरावत्तं, आरोपितो ते वादो, निग्गहितो त्वमसि. चर वादप्पमोक्खाय, निब्बेठेहि वा सचे पहोसी’’ति (दी. नि. १.१८; म. नि. ३.४१) एवंपवत्ता कथा. तत्थ सहितं मेति (दी. नि. अट्ठ. १.१८) मय्हं वचनं सहितं सिलिट्ठं, अत्थयुत्तं कारणयुत्तन्ति अत्थो. सहितन्ति वा पुब्बापराविरुद्धं. असहितं तेति तुय्हं वचनं असहितं असिलिट्ठं. अधिचिण्णं ते विपरावत्तन्ति यं तुय्हं दीघरत्ताचिण्णवसेन सुप्पगुणं, तं मय्हं एकवचनेनेव विपरावत्तं परिवत्तित्वा ठितं, न किञ्चि जानासीति अत्थो. आरोपितो ते वादोति मया तव वादे दोसो आरोपितो. चर वादप्पमोक्खायाति दोसमोचनत्थं चर विचर, तत्थ तत्थ गन्त्वा सिक्खाति अत्थो. निब्बेठेहि वा सचे पहोसीति अथ सयं पहोसि, इदानि एव निब्बेठेहीति अत्थो.
तण्हा सब्बसो खीयन्ति एत्थाति तण्हासङ्खयो, तस्मिं. तण्हासङ्खयेति च इदं विसये भुम्मन्ति आह ‘‘तं आरम्मणं कत्वा’’ति. विमुत्तचित्ततायाति सब्बसंकिलेसेहि विप्पयुत्तचित्तताय. अपरभागे पटिपदा नाम अरियसच्चाभिसमयो. सा सासनचारिगोचरा पच्चत्तं वेदितब्बतोति आह ‘‘पुब्बभागप्पटिपदं संखित्तेन देसेथाति पुच्छती’’ति. अकुप्पधम्मताय खयवयसङ्खातं अन्तं अतीताति अच्चन्ता, सो एव अपरिहायनसभावत्ता अच्चन्ता निट्ठा अस्साति अच्चन्तनिट्ठा. तेनाह ‘‘एकन्तनिट्ठो सततनिट्ठोति अत्थो’’ति. न हि पटिविद्धस्स लोकुत्तरधम्मस्स दस्सन्नं कुप्पन्नं नाम अत्थि. अच्चन्तमेव चतूहि योगेहि खेमो एतस्स अत्थीति अच्चन्तयोगक्खेमी. मग्गब्रह्मचरियस्स वुसितत्ता तस्स च अपरिहायनसभावत्ता अच्चन्तं ब्रह्मचारीति अच्चन्तब्रह्मचारी. तेनाह ‘‘निच्चब्रह्मचारीति अत्थो’’ति. परियोसानन्ति मग्गब्रह्मचरियपरियपरियोसानं वट्टदुक्खपरियोसानञ्च.
पञ्चक्खन्धाति पञ्चुपादानक्खन्धा. सक्कायसब्बञ्हि सन्धाय इध ‘‘सब्बे धम्मा’’ति वुत्तं विपस्सनाविसयस्स अधिप्पेतत्ता. तस्मा आयतनधातुयोपि तग्गतिका एव दट्ठब्बा. तेनाह भगवा ‘‘नालं अभिनिवेसाया’’ति. न युत्ता अभिनिवेसाय ‘‘एतं मम, एसो मे अत्ता’’ति अज्झोसानाय. ‘‘अलमेव निब्बिन्दितुं अलं विरज्जितु’’न्तिआदीसु (दी. नि. २.२७२; सं. नि. २.१२४, १२८, १३४, १४३) विय अलं-सद्दो युत्तत्थोपि होतीति आह ‘‘न युत्ता’’ति. सम्पज्जन्तीति भवन्ति. यदिपि ‘‘ततिया चतुत्थी’’ति इदं विसुद्धिद्वयं अभिञ्ञापञ्ञा, तस्स पन सपच्चयनामरूपदस्सनभावतो सति च पच्चयपरिग्गहे सपच्चयत्ता अनिच्चन्ति, नामरूपस्स अनिच्चताय दुक्खं, दुक्खञ्च अनत्ताति अत्थतो लक्खणत्तयं सुपाकटमेव होतीति आह ‘‘अनिच्चं दुक्खं अनत्ताति ञातपरिञ्ञाय अभिजानाती’’ति. तथेव तीरणपरिञ्ञायाति इमिना अनिच्चादिभावेन नालं अभिनिवेसायाति नामरूपस्स उपसंहरति, न अभिञ्ञापञ्ञानं सम्भारधम्मानं. पुरिमाय हि अत्थतो आपन्नं लक्खणत्तयं गण्हाति सलक्खणसल्लक्खणपरत्ता तस्सा. दुतियाय सरूपतो तस्सा लक्खणत्तयारोपनवसेन सम्मसनभावतो. एकचित्तक्खणिकताय अभिनिपातमत्तताय च अप्पमत्तकम्पि. रूपपरिग्गहस्स ओळारिकभावतो अरूपपरिग्गहं दस्सेति. दस्सेन्तो च वेदनाय आसन्नभावतो, विसेसतो सुखसारागिताय, भवस्सादगधितमानसताय च थेरस्स वेदनावसेन निब्बत्तेत्वा दस्सेति.
खयविरागोति खयसङ्खातो विरागो सङ्खारानं पलुज्जना. यं आगम्म सब्बसो सङ्खारेहि विरज्जना होति, तं निब्बानं अच्चन्तविरागो. निरोधानुपस्सिम्हिपीति निरोधानुपस्सिपदेपि. एसेव नयोति अतिदिसित्वा तं एकदेसेन विवरन्तो ‘‘निरोधोपि हि…पे… दुविधोयेवा’’ति आह. खन्धानं परिच्चजनं तप्पटिबद्धकिलेसप्पहानवसेनाति येनाकारेन विपस्सना किलेसे पजहति, तेनाकारेन तंनिमित्तक्खन्धे च पजहतीति वत्तब्बतं अरहतीति आह ‘‘सा हि…पे… वोस्सज्जती’’ति. आरम्मणतोति किच्चसाधनवसेन आरम्मणकरणतो. एवञ्हि मग्गतो अञ्ञेसं निब्बानारम्मणानं पक्खन्दनवोस्सग्गाभावो सिद्धोव होति. परिच्चजनेन पक्खन्दनेन चाति द्वीहिपि वा कारणेहि. सोति मग्गो. सब्बेसं खन्धानं वोस्सज्जनं तप्पटिबद्धसंकिलेसप्पहानेन दट्ठब्बं. यस्मा वा विपस्सनाचित्तं पक्खन्दतीति मग्गसम्पयुत्तचित्तं सन्धायाह. मग्गो च समुच्छेदवसेन किलेसे खन्धे च परिच्चजति, तस्मा यथाक्कमं विपस्सनामग्गानञ्च वसेन पक्खन्दनपरिच्चागवोस्सग्गापि वेदितब्बा. तदुभयसमङ्गीति विपस्सनासमङ्गी मग्गसमङ्गी च. ‘‘अनिच्चानुपस्सनाय निच्चसञ्ञं पजहती’’तिआदिवचनतो (पटि. म. १.५२) हि यथा विपस्सनाय किलेसानं परिच्चागप्पटिनिस्सग्गो लब्भति, एवं आयतिं तेहि किलेसेहि उप्पादेतब्बक्खन्धानम्पि परिच्चागपटिनिस्सग्गो वत्तब्बो. पक्खन्दनपटिनिस्सग्गो पन मग्गे लब्भमानाय एकन्तकारणभूताय वुट्ठानगामिनिविपस्सनाय वसेन वेदितब्बो. मग्गे पन तदुभयम्पि ञायागतमेव निप्परियायतोव लब्भमानत्ता. तेनाह ‘‘तदुभयसमङ्गीपुग्गलो’’तिआदि. पुच्छन्तस्स अज्झासयवसेन ‘‘न किञ्चि लोके उपादियती’’ति एत्थ कामुपादानवसेन उपादियनं पटिक्खिपतीति आह ‘‘तण्हावसेन न उपादियती’’ति. तण्हावसेन वा असति उपादियने दिट्ठिवसेन उपादियनं अनवकासमेवाति ‘‘तण्हावसेन’’इच्चेव वुत्तं. न परामसतीति नादियति. दिट्ठिपरामासवसेन वा ‘‘निच्च’’न्तिआदिना न परामसति. संखित्तेनेव कथेसीति तस्स अज्झासयवसेन पपञ्चं अकत्वा कथेसि.
पचलायमानसुत्तवण्णना निट्ठिता.