३. पठमअग्गिसुत्तवण्णना

४६. ततिये अनुडहनट्ठेनाति कामं आहुनेय्यग्गिआदयो तयो अग्गी ब्राह्मणेहिपि इच्छिता सन्ति. ते पन तेहि इच्छितमत्ताव, न सत्तानं तादिसा अत्थसाधका. ये पन सत्तानं अत्थसाधका, ते दस्सेतुं ‘‘आहुनं वुच्चती’’तिआदि वुत्तं. तत्थ आनेत्वा हुननं पूजनं ‘‘आहुन’’न्ति वुत्तं, तं आहुनं अरहन्ती मातापितरो. तेनाह भगवा – ‘‘आहुनेय्याति, भिक्खवे, मातापितूनं एतं अधिवचन’’न्ति (इतिवु. १०६). यदग्गेन च ते पुत्तानं बहूपकारताय आहुनेय्याति, तेसु सम्मापटिपत्ति नेसं हितसुखावहा, तदग्गेन तेसु मिच्छापटिपत्ति अहितदुक्खावहाति आह ‘‘तेसु…पे… निब्बत्तन्ती’’ति.

स्वायमत्थो (दी. नि. अट्ठ. ३.३०५) मित्तविन्दकवत्थुना वेदितब्बो. मित्तविन्दको हि मातरा, ‘‘तात, अज्ज उपोसथिको हुत्वा विहारे सब्बरत्तिं धम्मस्सवनं सुणोहि, सहस्सं ते दस्सामी’’ति वुत्तो धनलोभेन उपोसथं समादाय विहारं गन्त्वा ‘‘इदं ठानं अकुतोभय’’न्ति सल्लक्खेत्वा धम्मासनस्स हेट्ठा निपन्नो सब्बरत्तिं निद्दायित्वा घरं अगमासि. माता पातोव यागुं पचित्वा उपनामेसि. सो सहस्सं गहेत्वाव पिवि. अथस्स एतदहोसि ‘‘धनं संहरिस्सामी’’ति. सो नावाय समुद्दं पक्खन्दितुकामो अहोसि. अथ नं माता, ‘‘तात, इमस्मिं कुले चत्तालीसकोटिधनं अत्थि, अलं गमनेना’’ति निवारेति. सो तस्सा वचनं अनादियित्वा गच्छति एव. सा पुरतो अट्ठासि. अथ नं कुज्झित्वा ‘‘अयं मय्हं पुरतो तिट्ठती’’ति पादेन पहरित्वा पतितं अन्तरं कत्वा अगमासि.

माता उट्ठहित्वा ‘‘मादिसाय मातरि एवरूपं कम्मं कत्वा गतस्स ते गतट्ठाने सुखं भविस्सतीति एवंसञ्ञी नाम त्वं पुत्ता’’ति आह. तस्स नावं आरुय्ह गच्छतो सत्तमे दिवसे नावा अट्ठासि. अथ ते मनुस्सा ‘‘अद्धा एत्थ पापपुग्गलो अत्थि, सलाकं देथा’’ति आहंसु. सलाका दीयमाना तस्सेव तिक्खत्तुं पापुणि. ते तस्स उळुम्पं दत्वा तं समुद्दे पक्खिपिंसु. सो एकं दीपं गन्त्वा विमानपेतीहि सद्धिं सम्पत्तिं अनुभवन्तो ताहि ‘‘पुरतो पुरतो मा अगमासी’’ति वुच्चमानोपि तद्दिगुणं तद्दिगुणं सम्पत्तिं पस्सन्तो अनुपुब्बेन खुरचक्कधरं एकं अद्दस. तं चक्कं पदुमपुप्फं विय उपट्ठासि. सो तं आह, ‘‘अम्भो, इदं तया पिळन्धितं पदुमं मय्हं देही’’ति. न इदं, सामि, पदुमं, खुरचक्कं एतन्ति. सो ‘‘वञ्चेसि मं त्वं, किं मया पदुमं न दिट्ठपुब्ब’’न्ति वत्वा ‘‘त्वं लोहितचन्दनं विलिम्पित्वा पिळन्धनं पदुमपुप्फं मय्हं न दातुकामो’’ति आह. सो चिन्तेसि ‘‘अयम्पि मया कतसदिसं कम्मं कत्वा तस्स फलं अनुभवितुकामो’’ति. अथ नं ‘‘गण्ह, रे’’ति वत्वा तस्स मत्थके चक्कं खिपि. तेन वुत्तं –

‘‘चतुब्भि अट्ठज्झगमा, अट्ठाहि पिच सोळस;

सोळसाहि च बात्तिंस, अत्रिच्छं चक्कमासदो;

इच्छाहतस्स पोसस्स, चक्कं भमति मत्थके’’ति. (जा. १.१.१०४; १.५.१०३);

सोति गेहसामिको भत्ता. पुरिमनयेनेवाति अनुडहनस्स पच्चयताय. तत्रिदं वत्थु – कस्सपबुद्धकाले सोतापन्नस्स उपासकस्स भरिया अतिचारं चरति. सो तं पच्चक्खतो दिस्वा ‘‘कस्मा एवं करोसी’’ति आह. सा ‘‘सचाहं एवरूपं करोमि, अयं मे सुनखो विलुप्पमानो खादतू’’ति वत्वा कालकता कण्णमुण्डकदहे वेमानिकपेती हुत्वा निब्बत्ता दिवा सम्पत्तिं अनुभवति, रत्तिं दुक्खं. तदा बाराणसिराजा मिगवं चरन्तो अरञ्ञं पविसित्वा अनुपुब्बेन कण्णमुण्डकदहं सम्पत्तो ताय सद्धिं सम्पत्तिं अनुभवति. सा तं वञ्चेत्वा रत्तिं दुक्खं अनुभवति. सो ञत्वा ‘‘कत्थ नु खो गच्छती’’ति पिट्ठितो पिट्ठितो गन्त्वा अविदूरे ठितो कण्णमुण्डकदहतो निक्खमित्वा तं ‘‘पटपट’’न्ति खादमानं एकं सुनखं दिस्वा असिना द्विधा छिन्दि, द्वे अहेसुं. पुन छिन्ने चत्तारो, पुन छिन्ने अट्ठ, पुन छिन्ने सोळस अहेसुं. सा ‘‘किं करोसि, सामी’’ति आह. सो ‘‘किं इद’’न्ति आह. सा ‘‘एवं अकत्वा खेळपिण्डं भूमियं निट्ठुभित्वा पादेन घंसाही’’ति आह. सो तथा अकासि. सुनखा अन्तरधायिंसु. मुट्ठियोगो किरायं तस्स सुनखन्तरधानस्स, यदिदं खेळपिण्डं भूमियं निट्ठुभित्वा पादेन घंसनं, तं दिवसं तस्सा कम्मं खीणं. राजा विप्पटिसारी हुत्वा गन्तुं आरद्धो. सा ‘‘मय्हं, सामि, कम्मं खीणं, मा अगमासी’’ति आह. राजा अस्सुत्वाव गतो.

दक्खिणाति चत्तारो पच्चया दीयमाना दक्खन्ति एतेहि हितसुखानीति, तं दक्खिणं अरहतीति दक्खिणेय्यो, भिक्खुसङ्घो.

पठमअग्गिसुत्तवण्णना निट्ठिता.