४-५. दुतियअग्गिसुत्तादिवण्णना
४७-४८. चतुत्थे यञ्ञवाटं सम्पादेत्वा महायञ्ञं उद्दिस्स सविञ्ञाणकानि अविञ्ञाणकानि च यञ्ञूपकरणानि सज्जितानीति आह पाळियं ‘‘महायञ्ञो उपक्खटो’’ति. तं उपकरणं तेसं तथासज्जनन्ति आह ‘‘उपक्खटोति पच्चुपट्ठितो’’ति. वच्छतरसतानीति युवभावप्पत्तानि नातिबलववच्छसतानि. ते पन वच्छा एव होन्ति, न दम्मा, बलीबद्दा वा. उरब्भाति तरुणमेण्डका वुच्चन्ति. उपनीतानीति ठपनत्थाय उपनीतानि. विहिंसट्ठेनाति हिंसनट्ठेन. उपवायतूति उपगन्त्वा सरीरदरथं निब्बापेन्तो सण्हसीतला वातो वायतु. सेसं सुविञ्ञेय्यमेव. पञ्चमे नत्थि वत्तब्बं.
दुतियअग्गिसुत्तादिवण्णना निट्ठिता.