२. वस्सकारसुत्तवण्णना
२२. दुतिये अभियातुकामोति एत्थ अभि-सद्दो अभिभवनत्थो ‘‘अनभिविदितु’’न्तिआदीसु वियाति आह ‘‘अभिभवनत्थाय यातुकामो’’ति. वज्जिराजानोति ‘‘वज्जेतब्बा इमे’’ति आदितो पवत्तं वचनं उपादाय वज्जीति लद्धनामा राजानो, वज्जिरट्ठस्स वा राजानो वज्जिराजानो. रट्ठस्स पन वज्जिसमञ्ञा तन्निवासिराजकुमारवसेन वेदितब्बा. राजिद्धियाति राजभावानुगतेन पभावेन. सो पन पभावो नेसं गणराजानं मिथो सामग्गिया लोके पाकटो. चिरट्ठायी च अहोसीति ‘‘समग्गभावं कथेती’’ति वुत्तं. अनु अनु तंसमङ्गिनो भावेति वड्ढेतीति अनुभावो, अनुभावो एव आनुभावो, पतापो. सो पन नेसं पतापो हत्थिअस्सादिवाहनसम्पत्तिया तत्थ च सुभिक्खितभावेन लोके पाकटो जातोति ‘‘एतेन…पे… कथेती’’ति वुत्तं. ताळच्छिग्गळेनाति कुञ्चिकाछिद्देन. असनन्ति सरं. अतिपातयिस्सन्तीति अतिक्कामेन्ति. पोङ्खानुपोङ्खन्ति पोङ्खस्स अनुपोङ्खं, पुरिमसरस्स पोङ्खपदानुगतपोङ्खं इतरं सरं कत्वाति अत्थो. अविराधितन्ति अविरज्झितं. उच्छिन्दिस्सामीति उम्मूलनवसेन कुलसन्ततिं छिन्दिस्सामि. अयनं वड्ढनं अयो, तप्पटिपक्खेन अनयोति आह ‘‘अवड्ढि’’न्ति. ञातीनं ब्यसनं विनासो ञातिब्यसनं.
गङ्गायाति गङ्गासमीपे. पट्टनगामन्ति सकटपट्टनगामं. तत्राति तस्मिं पट्टने. बलवाघातजातोति उप्पन्नबलवकोधो. मेति मय्हं. गतेनाति गमनेन. सीतं वा उण्हं वा नत्थि ताय वेलाय. अभिमुखं युद्धेनाति अभिमुखं उजुकमेव सङ्गामकरणेन. उपलापनं सामं दानञ्चाति दस्सेतुं ‘‘अल’’न्तिआदि वुत्तं. भेदोपि इध उपायो एवाति वुत्तं ‘‘अञ्ञत्र मिथुभेदा’’ति. युद्धस्स पन अनुपायता पगेव पकासिता. इदन्ति ‘‘अञ्ञत्र उपलापनाय अञ्ञत्र मिथुभेदा’’ति इदं वचनं. कथाय नयं लभित्वाति ‘‘यावकीवञ्च …पे… परिहानी’’ति इमाय भगवतो कथाय उपायं लभित्वा. अनुकम्पायाति वज्जिराजेसु अनुग्गहेन.
राजापि तमेव पेसेत्वा सब्बे…पे… पापेसीति राजा तं अत्तनो सन्तिकं आगतं ‘‘किं, आचरिय, भगवा अवचा’’ति पुच्छि. सो ‘‘यथा भो समणस्स गोतमस्स वचनं न सक्का वज्जी केनचि गहेतुं, अपिच उपलापनाय वा मिथुभेदेन वा सक्का’’ति आह. ततो नं राजा ‘‘उपलापनाय अम्हाकं हत्थिअस्सादयो नस्सिस्सन्ति, भेदेनेव ते गहेस्सामि, किं करोमा’’ति पुच्छि. तेन हि, महाराज, तुम्हे वज्जी आरब्भ परिसति कथं समुट्ठापेथ, ततो अहं ‘‘किं ते, महाराज, तेहि, अत्तनो सन्तकेन कसिवणिज्जादीनि कत्वा जीवन्तु एते राजानो’’ति वत्वा पक्कमिस्सामि. ततो तुम्हे ‘‘किं नु, भो, एस ब्राह्मणो वज्जी आरब्भ पवत्तं कथं पटिबाहती’’ति वदेय्याथ. दिवसभागे चाहं तेसं पण्णाकारं पेसेस्सामि, तम्पि गाहापेत्वा तुम्हेपि मम दोसं आरोपेत्वा बन्धनताळनादीनि अकत्वाव केवलं खुरमुण्डं मं कत्वा नगरा नीहरापेथ, अथाहं ‘‘मया ते नगरे पाकारो परिखा च कारिता, अहं थिरदुब्बलट्ठानञ्च उत्तानगम्भीरट्ठानञ्च जानामि, न चिरस्सं दानि तं उजुं करिस्सामी’’ति वक्खामि. तं सुत्वा तुम्हे ‘‘गच्छतू’’ति वदेय्याथाति. राजा सब्बं अकासि.
लिच्छवी तस्स निक्खमनं सुत्वा ‘‘सठो ब्राह्मणो, मा तस्स गङ्गं उत्तारेतुं अदत्था’’ति आहंसु. तत्र एकच्चेहि ‘‘अम्हे आरब्भ कथितत्ता किर सो एवं करोती’’ति वुत्ते ‘‘तेन हि भणे एतू’’ति वदिंसु. सो गन्त्वा लिच्छवी दिस्वा ‘‘किमागतत्था’’ति पुच्छितो तं पवत्तिं आरोचेसि. लिच्छविनो ‘‘अप्पमत्तकेन नाम एवं गरुं दण्डं कातुं न युत्त’’न्ति वत्वा ‘‘किं ते तत्र ठानन्तर’’न्ति पुच्छिंसु. विनिच्छयमहामच्चोहमस्मीति. तदेव ते ठानन्तरं होतूति. सो सुट्ठुतरं विनिच्छयं करोति. राजकुमारा तस्स सन्तिके सिप्पं उग्गण्हन्ति. सो पतिट्ठितगुणो हुत्वा एकदिवसं एकं लिच्छविं गहेत्वा एकमन्तं गन्त्वा ‘‘दारका कसन्ती’’ति पुच्छि. आम, कसन्ति. द्वे गोणे योजेत्वाति. आम, द्वे गोणे योजेत्वाति. एत्तकं वत्वा निवत्तो. ततो तमञ्ञो ‘‘किं आचरियो आहा’’ति पुच्छित्वा तेन वुत्तं – असद्दहन्तो ‘‘न मेसो यथाभूतं कथेती’’ति तेन सद्धिं भिज्जि.
ब्राह्मणो अपरम्पि एकदिवसं एकं लिच्छविं एकमन्तं नेत्वा ‘‘केन ब्यञ्जनेन भुत्तोसी’’ति पुच्छित्वा निवत्तो. तम्पि अञ्ञो पुच्छित्वा असद्दहन्तो तथेव भिज्जि. ब्राह्मणो अपरम्पि दिवसं एकं लिच्छविं एकमन्तं नेत्वा ‘‘अतिदुग्गतोसि किरा’’ति पुच्छि. को एवमाहाति. असुको नाम लिच्छवीति. अपरम्पि एकमन्तं नेत्वा ‘‘त्वं किर भीरुजातिको’’ति पुच्छि. को एवमाहाति? असुको नाम लिच्छवीति. एवं अञ्ञेन अकथितमेव अञ्ञस्स कथेन्तो तीहि संवच्छरेहि ते राजानो अञ्ञमञ्ञं भिन्दित्वा यथा द्वे एकमग्गेन न गच्छन्ति, तथा कत्वा सन्निपातभेरिं चरापेसि. लिच्छविनो ‘‘इस्सरा सन्निपतन्तु, सूरा सन्निपतन्तू’’ति वत्वा न सन्निपतिंसु. ब्राह्मणो ‘‘अयं दानि कालो, सीघं आगच्छतू’’ति रञ्ञो सासनं पेसेति. राजा सुत्वाव बलभेरिं चरापेत्वा निक्खमि. वेसालिका सुत्वा ‘‘रञ्ञो गङ्गं उत्तरितुं न दस्सामा’’ति भेरिं चरापेसुं. ते सुत्वा ‘‘गच्छन्तु सूरराजानो’’तिआदीनि वत्वा न सन्निपतिंसु. ‘‘नगरप्पवेसनं न दस्साम, द्वारानि पिदहिस्सामा’’ति भेरिं चरापेसुं. एकोपि न सन्निपति. यथाविवटेहि द्वारेहि पविसित्वा सब्बे अनयब्यसनं पापेत्वा गतो. तं सन्धायेतं वुत्तं – ‘‘राजापि तमेव पेसेत्वा सब्बेपि भिन्दित्वा गन्त्वा अनयब्यसनं पापेसी’’ति.
वस्सकारसुत्तवण्णना निट्ठिता.