२. पठमसत्तकसुत्तवण्णना
२३. ततिये अपरिहानाय हिताति अपरिहानिया (दी. नि. टी. २.१३६), न परिहायन्ति एतेहीति वा अपरिहानिया. एवं सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेन्तो ‘‘इधापि चा’’तिआदिमाह. तत्थ ततोतिआदि दिसासु आगतसासने वुत्तवचनं वुत्तकथनं. विहारसीमा आकुला यस्मा, तस्मा उपोसथपवारणा ठिता. ओलीयमानकोति पाळितो अत्थतो च विनस्समानको. उक्खिपापेन्ताति पगुणभावकरणेन अत्थसंवण्णनावसेन च पग्गण्हन्ता.
सावत्थियं भिक्खू विय (पारा. ५६५) पाचित्तियं देसापेतब्बोति पञ्ञापेन्ता. वज्जिपुत्तका विय (चूळव. ४४६) दसवत्थुदीपनेन. तथा अकरोन्ताति नवं कतिकवत्तं वा सिक्खापदं वा अमद्दन्ता धम्मविनयतो सासनं दीपेन्ता खुद्दकम्पि च सिक्खापदं असमूहनन्ता. आयस्मा महाकस्सपो विय चाति ‘‘सुणातु मे, आवुसो, सङ्घो, सन्ताम्हाकं सिक्खापदानि गिहिगतानि. गिहिनोपि जानन्ति ‘इदं वो समणानं सक्यपुत्तिकानं कप्पति, इदं वो न कप्पती’ति. सचेपि हि मयं खुद्दानुखुद्दकानि सिक्खापदानि समूहनिस्साम, भविस्सन्ति वत्तारो ‘धूमकालिकं समणेन गोतमेन सावकानं सिक्खापदं पञ्ञत्तं, याविमेसं सत्था अट्ठासि, ताविमे सिक्खापदेसु सिक्खिंसु. यतो इमेसं सत्था परिनिब्बुतो, न दानिमे सिक्खापदेसु सिक्खन्ती’ति. यदि सङ्घस्स पत्तकल्लं, सङ्घो अपञ्ञत्तं न पञ्ञपेय्य, पञ्ञत्तं न समुच्छिन्देय्य, यथापञ्ञत्तेसु सिक्खापदेसु समादाय वत्तेय्या’’ति इमं (चूळव. ४४२) तन्तिं ठपेन्तो आयस्मा महाकस्सपो विय च.
थिरभावप्पत्ताति सासने थिरभावं अनिवत्तितभावं उपगता. थेरकारकेहीति थेरभावसाधकेहि सीलादिगुणेहि असेक्खधम्मेहि. बहू रत्तियोति पब्बजिता हुत्वा बहू रत्तियो जानन्ति. सीलादिगुणेसु पतिट्ठापनमेव सासने परिणायकताति आह ‘‘तीसु सिक्खासु पवत्तेन्ती’’ति. ओवादं न देन्ति अभाजनभावतो. पवेणिकथन्ति आचरियपरम्पराभतं सम्मापटिपत्तिदीपनं धम्मकथं. सारभूतं धम्मपरियायन्ति समथविपस्सनामग्गफलसम्पापनेन सासने सारभूतं बोज्झङ्गकोसल्लअनुत्तरसीतिभाव- (अ. नि. ६.८५) अधिचित्तसुत्तादिधम्मतन्तिं. आदिकं ओवादन्ति आदि-सद्देन ‘‘एवं ते आलोकेतब्बं, एवं ते विलोकेतब्बं, एवं ते समिञ्जितब्बं, एवं ते पसारेतब्बं, एवं ते सङ्घाटिपत्तचीवरं धारेतब्ब’’न्ति ओवादं सङ्गण्हाति.
पुनब्भवदानं पुनब्भवो उत्तरपदलोपेन. इतरेति ये न पच्चयवसिका न आमिसचक्खुका, ते न गच्छन्ति तण्हाय वसं.
आरञ्ञकेसूति अरञ्ञभागेसु अरञ्ञपरियापन्नेसु. ननु यत्थ कत्थचिपि तण्हा सावज्जा एवाति चोदनं सन्धायाह ‘‘गामन्तसेनासनेसु ही’’तिआदि. तेन ‘‘अनुत्तरेसु विमोक्खेसु पिहं उपट्ठापयतो’’ति एत्थ वुत्तपिहादयो पिय आरञ्ञकसेनासनेसु सालयता सेवितब्बपक्खिका एवाति दस्सेति.
अत्तनावाति सयमेव. तेन परेहि अनुस्साहितानं सरसेनेव अनागतानं पेसलानं भिक्खूनं आगमनं, आगतानञ्च फासुविहारं पच्चासीसन्तीति दस्सेति. इमिनाव नीहारेनाति इमाय पटिपत्तिया. अग्गहितधम्मग्गहणन्ति अग्गहितस्स परियत्तिधम्मस्स उग्गहणं. गहितसज्झायकरणन्ति उग्गहितस्स सुट्ठु अत्थचिन्तनं. चिन्तरत्थो हि अयं सज्झायसद्दो. एन्तीति उपगच्छन्ति. निसीदन्ति आसनपञ्ञापनादिना.
पठमसत्तकसुत्तवण्णना निट्ठिता.