१. सारन्ददसुत्तवण्णना
२१. ततियस्स पठमे देवायतनभावेन चित्तत्ता लोकस्स चित्तीकारट्ठानताय च चेतियं अहोसि. यावकीवन्ति (दी. नि. टी. २.१३४) एकमेवेतं पदं अनियमतो परिमाणवाची. कालो चेत्थ अधिप्पेतोति आह ‘‘यत्तकं काल’’न्ति. अभिण्हं सन्निपाताति निच्चसन्निपाता. तं पन निच्चसन्निपाततं दस्सेतुं ‘‘दिवसस्सा’’तिआदि वुत्तं. सन्निपातबहुलाति पचुरसन्निपाता. वोसानन्ति सङ्कोचं. ‘‘वुद्धियेवा’’तिआदिना वुत्तमत्थं ब्यतिरेकमुखेन दस्सेतुं ‘‘अभिण्हं असन्निपतन्ता ही’’तिआदि वुत्तं. आकुलाति खुभिता न पसन्ना. भिज्जित्वाति वग्गबन्धतो विभज्ज विसुं विसुं हुत्वा.
सन्निपातभेरियाति सन्निपातारोचनभेरिया. अद्धभुत्ता वाति सामिभुत्ता वा. ओसीदमानेति हायमाने.
सुङ्कन्ति भण्डं गहेत्वा गच्छन्तेहि पब्बतखण्डनादितित्थगामद्वारादीसु राजपुरिसानं दातब्बभागं. बलिन्ति निप्फन्नसस्सादितो छभागं सत्तभागन्तिआदिना लद्धब्बकरं. दण्डन्ति दसवीसतिकहापणादिकं अपराधानुरूपं गहेतब्बधनदण्डं. वज्जिधम्मन्ति वज्जिराजधम्मं. इदानि अपञ्ञत्तपञ्ञापनादीसु तप्पटिक्खेपे च आदीनवानिसंसे च वित्थारतो दस्सेतुं ‘‘तेस’’न्तिआदि वुत्तं. पारिचरियक्खमाति उपट्ठानक्खमा. पोराणं वज्जिधम्मन्ति एत्थ पुब्बे किर वज्जिराजानो ‘‘अयं चोरो’’ति आनेत्वा दस्सिते ‘‘गण्हथ नं चोर’’न्ति अवत्वा विनिच्छयमहामत्तानं देन्ति. ते विनिच्छिनित्वा सचे अचोरो होति, विस्सज्जेन्ति. सचे चोरो, अत्तना किञ्चि अकत्वा वोहारिकानं देन्ति, तेपि विनिच्छिनित्वा अचोरो चे, विस्सज्जेन्ति. चोरो चे, सुत्तधरानं देन्ति. तेपि विनिच्छिनित्वा अचोरो चे, विस्सज्जेन्ति. चोरो चे, अट्टकुलिकानं देन्ति, तेपि तथेव कत्वा सेनापतिस्स, सेनापति उपराजस्स, उपराजा रञ्ञो. राजा विनिच्छिनित्वा सचे अचोरो होति, विस्सज्जेति. सचे पन चोरो होति, पवेणिपण्णकं वाचापेति. तत्थ ‘‘येन इदं नाम कतं, तस्स अयं नामदण्डो’’ति लिखितं. राजा तस्स किरियं तेन समानेत्वा तदनुच्छविकं दण्डं करोति. इति एतं पोराणं वज्जिधम्मं समादाय वत्तन्तानं मनुस्सा न उज्झायन्ति. परम्परागतेसु अट्टकुलेसु जाता अगतिगमनविरता अट्टमहल्लकपुरिसा अट्टकुलिका.
सक्कारन्ति उपकारं. गरुभावं पच्चुपट्ठपेत्वाति ‘‘इमे अम्हाकं गरुनो’’ति तत्थ गरुभावं पटि पटि उपट्ठपेत्वा. मानेस्सन्तीति सम्मानेस्सन्ति. तं पन सम्माननं तेसु नेसं अत्तमनतापुब्बकन्ति आह ‘‘मनेन पियायिस्सन्ती’’ति. निपच्चकारं पणिपातं. दस्सेन्तीति गरुचित्तभारं दस्सेन्ति. सन्धानेतुन्ति सम्बन्धं अविच्छिन्नं कत्वा घटेतुं.
पसय्हकारस्साति बलक्कारस्स. कामं वुद्धिया पूजनीयताय ‘‘वुद्धिहानियो’’ति वुत्तं, अत्थो पन वुत्तानुक्कमेनेव योजेतब्बो. पाळियं वा यस्मा ‘‘वुद्धियेव पाटिकङ्खा, नो परिहानी’’ति वुत्तं, तस्मा तदनुक्कमेन ‘‘वुद्धिहानियो’’ति वुत्तं.
विपच्चितुं अलद्धोकासे पापकम्मे, तस्स कम्मस्स विपाके वा अनवसरोव देवसोपसग्गो. तस्मिं पन लद्धोकासे सिया देवतोपसग्गस्स अवसरोति आह ‘‘अनुप्पन्नं…पे… वड्ढेन्ती’’ति. एतेनेव अनुप्पन्नं सुखन्ति एत्थापि अत्थो वेदितब्बो. बलकायस्स दिगुणतिगुणतादस्सनं पटिभयभावदस्सनन्ति एवमादिना देवतानं सङ्गामसीसे सहायता वेदितब्बा.
अनिच्छितन्ति अनिट्ठं. आवरणतोति निसेधनतो. धम्मतो अनपेता धम्मियाति इध ‘‘धम्मिका’’ति वुत्ता. मिगसूकरादिघाताय सुनखादीनं कड्ढित्वा वनचरणं वाजो, तत्थ नियुत्ता, ते वा वाजेन्तीति वाजिका, मिगवधचारिनो.
सारन्ददसुत्तवण्णना निट्ठिता.