४. सुखसोमनस्ससुत्तवण्णना

७८. चतुत्थे यथावुत्तधम्मादीसु तस्स किलेसनिमित्तं दुक्खं अनवस्सनन्ति ‘‘सुखसोमनस्सबहुलो विहरती’’ति वुत्तं. कायिकसुखञ्चेव चेतसिकसोमनस्सञ्च बहुलं अस्साति सुखसोमनस्सबहुलो. यवति तेन फलं मिस्सितं विय होतीति योनि, एकन्तिकं कारणं. अस्साति यथावुत्तस्स भिक्खुनो. परिपुण्णन्ति अविकलं अनवसेसं.

सुखसोमनस्ससुत्तवण्णना निट्ठिता.