२. छळभिजातिसुत्तवण्णना
५७. ततिये अभिजातियोति एत्थ अभि-सद्दो उपसग्गमत्तं, न अत्थविसेसजोतकोति आह ‘‘छ जातियो’’ति. अभिजायतीति एत्थापि एसेव नयो.
उरब्भे हनन्तीति ओरब्भिका. एवं सूकरिकादयो वेदितब्बा. रोदेन्ति कुरुरकम्मन्तताय सप्पटिबद्धे सत्ते अस्सूनि मोचेन्तीति रुद्दा, ते एव लुद्दा र-कारस्स ल-कारं कत्वा. इमिना अञ्ञेपि ये केचि मागविका नेसादा वुत्ता, ते पापकम्मप्पसुतताय ‘‘कण्हाभिजाती’’ति वदति.
भिक्खूति च बुद्धसासने भिक्खू. ते किर सच्छन्दरागेन परिभुञ्जन्तीति अधिप्पायेन चतूसु पच्चयेसु कण्टके पक्खिपित्वा खादन्तीति ‘‘कण्टकवुत्तिका’’ति वदति. कस्माति चे? यस्मा ते पणीते पच्चये पटिसेवन्तीति तस्स मिच्छागाहो. ञायलद्धेपि पच्चये भुञ्जमाना आजीवकसमयस्स विलोमग्गाहिताय पच्चयेसु कण्टके पक्खिपित्वा खादन्ति नामाति वदतीति. अथ वा कण्टकवुत्तिका एवंनामका एके पब्बजिता, ये सविसेसं अत्तकिलमथानुयोगं अनुयुत्ता. तथा हि ते कण्टके वत्तन्ता विय होन्तीति ‘‘कण्टकवुत्तिका’’ति वुत्ता. इममेव च अत्थविकप्पं सन्धायाह ‘‘कण्टकवुत्तिकाति समणा नामेते’’ति.
लोहिताभिजाति नाम निगण्ठा एकसाटकाति वुत्ता. ते किर ठत्वा भुञ्जननहानप्पटिक्खेपादिवतसमायोगेन पुरिमेहि द्वीहि पण्डरतरा.
अचेलकसावकाति आजीवकसावके वदति. ते किर आजीवकलद्धिया सुविसुद्धचित्तताय निगण्ठेहिपि पण्डरतरा. एवञ्च कत्वा अत्तनो पच्चयदायके निगण्ठेहिपि जेट्ठकतरे करोति.
आजीवका आजीवकिनियो ‘‘सुक्काभिजाती’’ति वुत्ता. ते किर पुरिमेहि चतूहि पण्डरतरा. नन्दादयो हि तथारूपं आजीवकप्पटिपत्तिं उक्कंसं पापेत्वा ठिता, तस्मा निगण्ठेहि आजीवकसावकेहि च पण्डरतराति ‘‘परमसुक्काभिजाती’’ति वुत्ता.
बिलं ओलग्गेय्युन्ति मंसभागं न्हारुना वा केनचि वा गन्थित्वा पुरिसस्स हत्थे वा केसे वा ओलम्बनवसेन बन्धेय्युं. इमिना सत्थधम्मं नाम दस्सेति. सत्थवाहो किर महाकन्तारं पटिपन्नो अन्तरामग्गे गोणे मते मंसं गहेत्वा सब्बेसं सत्थिकानं ‘‘इदं खादित्वा एत्तकं मूलं दातब्ब’’न्ति कोट्ठासं ओलम्बति. गोणमंसं नाम खादन्तापि अत्थि, अखादन्तापि अत्थि, खादन्तापि मूलं दातुं सक्कोन्तापि असक्कोन्तापि. सत्थवाहो येन मूलेन गोणो गहितो, तं मूलं सत्थिकेहि धारणत्थं सब्बेसं बलक्कारेन कोट्ठासं दत्वा मूलं गण्हाति. अयं सत्थधम्मो.
कण्हाभिजातियो समानोति कण्हे नीचकुले जातो हुत्वा. कण्हधम्मन्ति पच्चत्ते उपयोगवचनन्ति आह ‘‘कण्हसभावो हुत्वा अभिजायती’’ति, तं अन्तोगधहेतुअत्थं पदं, उप्पादेतीति अत्थो. तस्मा कण्हं धम्मं अभिजायतीति काळकं दसदुस्सील्यधम्मं उप्पादेति. सुक्कं धम्मं अभिजायतीति एत्थापि इमिना नयेन अत्थो वेदितब्बो. सो हि ‘‘अहं पुब्बेपि पुञ्ञानं अकतत्ता नीचकुले निब्बत्तो, इदानि पुञ्ञं करिस्सामी’’ति पुञ्ञसङ्खातं पण्डरधम्मं करोति.
अकण्हं असुक्कं निब्बानन्ति सचे कण्हं भवेय्य, कण्हविपाकं ददेय्य यथा दसविधं दुस्सील्यधम्मं. सचे सुक्कं, सुक्कविपाकं ददेय्य यथा दानसीलादिकुसलकम्मं. द्विन्नम्पि अप्पदानतो ‘‘अकण्हं असुक्क’’न्ति वुत्तं. निब्बानञ्च नाम इमस्मिं अत्थे अरहत्तं अधिप्पेतं ‘‘अभिजायती’’ति वचनतो. तञ्हि किलेसनिब्बानन्ते जातत्ता निब्बानं नाम यथा ‘‘रागादीनं खयन्ते जातत्ता रागक्खयो, दोसक्खयो, मोहक्खयो’’ति. पटिप्पस्सम्भनवसेन वा किलेसानं निब्बापनतो निब्बानं. तं एस अभिजायति पसवति. इधापि हि अन्तोगधहेतु अत्थं ‘‘जायती’’ति पदं. अट्ठकथायं पन ‘‘जायती’’ति इमस्स पापुणातीहि अत्थं गहेत्वाव ‘‘निब्बानं पापुणाती’’ति वुत्तं. सुक्काभिजातियो समानोति सुक्के उच्चकुले जातो हुत्वा. सेसमेत्थ सुविञ्ञेय्यमेव.
छळभिजातिसुत्तवण्णना निट्ठिता.