४. आसवसुत्तवण्णना

५८. चतुत्थे संवरेनाति संवरेन हेतुभूतेन वा. इधाति अयं इध-सद्दो सब्बाकारतो इन्दियसंवरसंवुतस्स पुग्गलस्स सन्निस्सयभूतसासनपरिदीपनो, अञ्ञस्स तथाभावप्पटिसेधनो वाति वुत्तं ‘‘इधाति इधस्मिं सासने’’ति. पटिसङ्खाति पटिसङ्खाय. सङ्खा-सद्दो ञाणकोट्ठासपञ्ञत्तिगणनादीसु दिस्सति ‘‘सङ्खायेकं पटिसेवती’’तिआदीसु (म. नि. २.१६८) हि ञाणे दिस्सति. ‘‘पपञ्चसञ्ञासङ्खा समुदाचरन्ती’’तिआदीसु (म. नि. १.२०२, २०४) कोट्ठासे. ‘‘तेसं तेसं धम्मानं सङ्खा समञ्ञा’’तिआदीसु (ध. स. १३१३-१३१५) पञ्ञत्तियं. ‘‘न सुकरं सङ्खातु’’न्तिआदीसु (सं. नि. २.१२८) गणनाय. इध पन ञाणे दट्ठब्बो. तेनेवाह ‘‘पटिसञ्जानित्वा पच्चवेक्खित्वाति अत्थो’’ति. आदीनवपच्चवेक्खणा आदीनवपटिसङ्खाति योजना. सम्पलिमट्ठन्ति घंसितं. अनुब्यञ्जनसोति हत्थपादसितआलोकितविलोकितादिप्पकारभागसो. तञ्हि अयोनिसोमनसिकरोतो किलेसानं अनुब्यञ्जनतो ‘‘अनुब्यञ्जन’’न्ति वुच्चति. निमित्तग्गाहोति इत्थिपुरिसनिमित्तस्स सुभनिमित्तादिकस्स वा किलेसवत्थुभूतस्स निमित्तस्स गाहो. आदित्तपरियायेनाति आदित्तपरियाये (सं. नि. ४.२८; महाव. ५४) आगतनयेन वेदितब्बो.

यथा इत्थिया इन्द्रियं इत्थिन्द्रियं, न एवमिदं, इदं पन चक्खुमेव इन्द्रियन्ति चक्खुन्द्रियं. तेनाह ‘‘चक्खुमेव इन्द्रिय’’न्ति. यथा आवाटे नियतट्ठितिको कच्छपो ‘‘आवाटकच्छपो’’ति वुच्चति, एवं तप्पटिबद्धवुत्तिताय तं ठानो संवरो चक्खुन्द्रियसंवरो. तेनाह ‘‘चक्खुन्द्रिये संवरो चक्खुन्द्रियसंवरो’’ति. ननु च चक्खुन्द्रिये संवरो वा असंवरो वा नत्थि. न हि चक्खुपसादं निस्साय सति वा मुट्ठस्सच्चं वा उप्पज्जति. अपिच यदा रूपारम्मणं चक्खुस्स आपाथं आगच्छति, तदा भवङ्गे द्विक्खत्तुं उप्पज्जित्वा निरुद्धे किरियमनोधातु आवज्जनकिच्चं साधयमाना उप्पज्जित्वा निरुज्झति. ततो चक्खुविञ्ञाणं दस्सनकिच्चं, ततो विपाकमनोधातु सम्पटिच्छनकिच्चं, ततो विपाकमनोविञ्ञाणधातु सन्तीरणकिच्चं, ततो किरियाहेतुकमनोविञ्ञाणधातु वोट्ठब्बनकिच्चं साधयमाना उप्पज्जित्वा निरुज्झति, तदनन्तरं जवनं जवति. तत्थापि नेव भवङ्गसमये, न आवज्जनादीनं अञ्ञतरसमये च संवरो वा असंवरो वा अत्थि. जवनक्खणे पन सचे दुस्सील्यं वा मुट्ठस्सच्चं वा अञ्ञाणं वा अक्खन्ति वा कोसज्जं वा उप्पज्जति, असंवरो होति. तस्मिं पन सीलादीसु उप्पन्नेसु संवरो होति, तस्मा ‘‘चक्खुन्द्रिये संवरो’’ति कस्मा वुत्तन्ति आह ‘‘जवने उप्पज्जमानोपि हेस…पे… चक्खुन्द्रियसंवरोति वुच्चती’’ति.

इदं वुत्तं होति – यथा नगरे चतूसु द्वारेसु असंवुतेसु किञ्चापि अन्तोघरद्वारकोट्ठकगब्भादयो सुसंवुता, तथापि अन्तोनगरे सब्बं भण्डं अरक्खितं अगोपितमेव होति. नगरद्वारेन हि पविसित्वा चोरा यदिच्छकं करेय्युं, एवमेवं जवने दुस्सील्यादीसु उप्पन्नेसु तस्मिं असंवरे सति द्वारम्पि अगुत्तं होति भवङ्गम्पि आवज्जनादीनि वीथिचित्तानिपि. यथा पन नगरद्वारेसु संवुतेसु किञ्चापि अन्तोघरादयो असंवुता, तथापि अन्तोनगरे सब्बं भण्डं सुरक्खितं सुगोपितमेव होति. नगरद्वारेसु हि पिहितेसु चोरानं पवेसो नत्थि, एवमेवं जवने सीलादीसु उप्पन्नेसु द्वारम्पि सुगुत्तं होति भवङ्गम्पि आवज्जनादीनि वीथिचित्तानिपि, तस्मा जवनक्खणे उप्पज्जमानोपि चक्खुन्द्रियसंवरोति वुत्तोति.

संवरेन समन्नागतो पुग्गलो संवुतोति आह ‘‘उपेतो’’ति. अयमेवेत्थ अत्थो सुन्दरतरोति उपरि पाळियं सन्दिस्सनतो वुत्तं. तेनाह ‘‘तथा ही’’तिआदि.

यन्ति आदेसोति इमिना लिङ्गविपल्लासेन सद्धिं वचनविपल्लासो कतोति दस्सेति, निपातपदं वा एतं पुथुवचनत्थं. विघातकराति चित्तविघातकरा, कायचित्तदुक्खनिब्बत्तका वा. यथावुत्तकिलेसहेतुका दाहानुबन्धा विपाका एव विपाकपरिळाहा. यथा पनेत्थ आसवा अञ्ञे च विघातकरा किलेसपरिळाहा सम्भवन्ति, तं दस्सेतुं ‘‘चक्खुद्वारस्मिञ्ही’’तिआदि वुत्तं. तं सुविञ्ञेय्यमेव. एत्थ च संवरणूपायो, संवरितब्बं, संवरो, यतो सो संवरो, यत्थ संवरो, यथा संवरो, यञ्च संवरफलन्ति अयं विभागो वेदितब्बो. कथं? ‘‘पटिसङ्खा योनिसो’’ति हि संवरणूपायो. चक्खुन्द्रियं संवरितब्बं. संवरग्गहणेन गहिता सति संवरो. ‘‘असंवुतस्सा’’ति संवरणावधि. असंवरतो हि संवरणं. संवरितब्बग्गहणसिद्धो इध संवरविसयो. चक्खुन्द्रियञ्हि संवरणं ञाणं रूपारम्मणे संवरयतीति अवुत्तसिद्धोयमत्थो. आसवतन्निमित्तकिलेसपरिळाहाभावो फलं. एवं सोतद्वारादीसु योजेतब्बं. सब्बत्थेवाति मनोद्वारे पञ्चद्वारे चाति सब्बस्मिं द्वारे.

पटिसङ्खा योनिसो चीवरन्तिआदीसु ‘‘सीतस्स पटिघाताया’’तिआदिना पच्चवेक्खणमेव योनिसो पटिसङ्खा. ईदिसन्ति एवरूपं इट्ठारम्मणं. भवपत्थनाय अस्सादयतोति भवपत्थनामुखेन भावितं आरम्मणं अस्सादेन्तस्स. चीवरन्ति निवासनादि यं किञ्चिचीवरं. पटिसेवतीति निवासनादिवसेन परिभुञ्जति. यावदेवाति पयोजनपरिमाणनियमनं. सीतप्पटिघातादियेव हि योगिनो चीवरप्पटिसेवनप्पयोजनं. सीतस्साति सीतधातुक्खोभतो वा उतुपरिणामतो वा उप्पन्नस्स सीतस्स. पटिघातायाति पटिघातनत्थं तप्पच्चयस्स विकारस्स विनोदनत्थं. उण्हस्साति अग्गिसन्तापतो उप्पन्नस्स उण्हस्स. डंसादयो पाकटायेव. पुन यावदेवाति नियतप्पयोजनपरिमाणनियमनं. नियतञ्हि पयोजनं चीवरं पटिसेवन्तस्स हिरिकोपीनप्पटिच्छादनं, इतरं कदाचि. हिरिकोपीनन्ति सम्बाधट्ठानं. यस्मिञ्हि अङ्गे विवटे हिरी कुप्पति विनस्सति, तं हिरिया कोपनतो हिरिकोपीनं, तंपटिच्छादनत्थं चीवरं पटिसेवति.

पिण्डपातन्ति यं किञ्चि आहारं. सो हि पिण्डोल्येन भिक्खुनो पत्ते पतनतो, तत्थ तत्थ लद्धभिक्खापिण्डानं पातो सन्निपातोति वा ‘‘पिण्डपातो’’ति वुच्चति. नेव दवायाति न कीळनाय. न मदायाति न बलमदमानमदपुरिसमदत्थं. न मण्डनायाति न अङ्गपच्चङ्गानं पीणनभावत्थं. न विभूसनायाति न तेसंयेव सोभत्थं, छविसम्पत्तिअत्थन्ति अत्थो. इमानि यथाक्कमं मोहदोससण्ठानवण्णरागूपनिस्सयप्पहानत्थानि वेदितब्बानि. पुरिमं वा द्वयं अत्तनो संकिलेसुप्पत्तिनिसेधनत्थं, इतरं परस्सपि. चत्तारिपि कामसुखल्लिकानुयोगस्स पहानत्थं वुत्तानीति वेदितब्बानि. कायस्साति रूपकायस्स. ठितिया यापनायाति पबन्धट्ठितत्थञ्चेव पवत्तिया अविच्छेदनत्थञ्च, चिरकालट्ठितत्थं जीवितिन्द्रियस्स पवत्तापनत्थं. विहिंसूपरतियाति जिघच्छादुक्खस्स उपरमत्थं. ब्रह्मचरियानुग्गहायाति सासनमग्गब्रह्मचरियानं अनुग्गण्हनत्थं. इतीति एवं इमिना उपायेन. पुराणञ्च वेदनं पटिहङ्खामीति पुराणं अभुत्तपच्चया उप्पज्जनकवेदनं पटिहनिस्सामि. नवञ्च वेदनं न उप्पादेस्सामीति नवं भुत्तपच्चया उप्पज्जनकवेदनं न उप्पादेस्सामि. तस्सा हि अनुप्पज्जनत्थमेव आहारं परिभुञ्जति. एत्थ अभुत्तपच्चया उप्पज्जनकवेदना नाम यथावुत्तजिघच्छानिमित्ता वेदना. सा हि अभुञ्जन्तस्स भिय्यो भिय्योपवड्ढनवसेन उप्पज्जति, भुत्तपच्चया अनुप्पज्जनकवेदनापि खुदानिमित्ताव अङ्गदाहसूलादिवेदना अप्पवत्ता. सा हि भुत्तपच्चया अनुप्पन्नाव न उप्पज्जिस्सति. विहिंसानिमित्तता चेतासं विहिंसाय विसेसो.

यात्रा च मे भविस्सतीति यापना च मे चतुन्नं इरियापथानं भविस्सति. ‘‘यापनाया’’ति इमिना जीवितिन्द्रिययापना वुत्ता, इध चतुन्नं इरियापथानं अविच्छेदसङ्खाता यापनाति अयमेतासं विसेसो. अनवज्जता च फासुविहारो चाति अयुत्तपरियेसनप्पटिग्गहणपरिभोगपरिवज्जनेन अनवज्जता, परिमितपरिभोगेन फासुविहारो. असप्पायापरिमितभोजनपच्चया अरतितन्दीविजम्भिताविञ्ञुगरहादिदोसाभावेन वा अनवज्जता. सप्पायपरिमितभोजनपच्चया कायबलसम्भवेन फासुविहारो. यावदत्थं उदरावदेहकभोजनपरिवज्जनेन वा सेय्यसुखपस्ससुखमिद्धसुखादीनं अभावतो अनवज्जता. चतुपञ्चालोपमत्तऊनभोजनेन चतुइरियापथयोग्यतापादनतो फासुविहारो. वुत्तञ्हेतं –

‘‘चत्तारो पञ्च आलोपे, अभुत्वा उदकं पिवे;

अलं फासुविहाराय, पहितत्तस्स भिक्खुनो’’ति. (थेरगा. ९८३; मि. प. ६.५.१०);

एत्तावता च पयोजनपरिग्गहो, मज्झिमा च पटिपदा दीपिता होति. यात्रा च मे भविस्सतीति पयोजनपरिग्गहदीपना. यात्रा हि नं आहारूपयोगं पयोजेति. धम्मिकसुखापरिच्चागहेतुको फासुविहारो मज्झिमा पटिपदा अन्तद्वयपरिवज्जनतो.

सेनासनन्ति सेनञ्च आसनञ्च. यत्थ विहारादिके सेति निपज्जति आसति निसीदति, तं सेनासनं. उतुपरिस्सयविनोदनप्पटिसल्लानारामत्थन्ति उतुयेव परिसहनट्ठेन परिस्सयो सरीराबाधचित्तविक्खेपकरो, तस्स विनोदनत्थं, अनुप्पन्नस्स अनुप्पादनत्थं, उप्पन्नस्स वूपसमनत्थञ्चाति अत्थो. अथ वा यथावुत्तो उतु च सीहब्यग्घादिपाकटपरिस्सयो च रागदोसादिपटिच्छन्नपरिस्सयो च उतुपरिस्सयो, तस्स विनोदनत्थञ्चेव एकीभावफासुकत्थञ्च. चीवरप्पटिसेवने हिरीकोपीनप्पटिच्छादनं विय तं नियतपयोजनन्ति पुन ‘‘यावदेवा’’ति वुत्तं.

गिलानपच्चयभेसज्जपरिक्खारन्ति रोगस्स पच्चनीकप्पवत्तिया गिलानपच्चयो, ततो एव भिसक्कस्स अनुञ्ञातवत्थुताय भेसज्जं, जीवितस्स परिवारसम्भारभावेहि परिक्खारो चाति गिलानपच्चयभेसज्जपरिक्खारो, तं. वेय्याबाधिकानन्ति वेय्याबाधतो धातुक्खोभतो च तंनिब्बत्तकुट्ठगण्डपीळकादिरोगतो उप्पन्नानं. वेदनानन्ति दुक्खवेदनानं. अब्याबज्झपरमतायाति निद्दुक्खपरमभावाय. याव तं दुक्खं सब्बं पहीनं होति, ताव पटिसेवामीति योजना. एवमेत्थ सङ्खेपेनेव पाळिवण्णना वेदितब्बा. नववेदनुप्पादतोपीति न केवलं आयतिं एव विपाकपरिळाहा, अथ खो अतिभोजनपच्चया अलंसाटकादीनं विय नववेदनुप्पादतोपि वेदितब्बा.

कम्मट्ठानिकस्स चलनं नाम कम्मट्ठानपरिच्चागोति आह ‘‘चलति कम्पति कम्मट्ठानं विजहती’’ति. ‘‘खमो होति सीतस्स उण्हस्सा’’ति एत्थ च लोमसनागत्थेरस्स वत्थु कथेतब्बं. थेरो किर चेतियपब्बते पियङ्गुगुहाय पधानघरे विहरन्तो अन्तरट्ठके हिमपातसमये लोकन्तरिकनिरयं पच्चवेक्खित्वा कम्मट्ठानं अविजहन्तोव अब्भोकासे वीतिनामेसि. गिम्हसमये च पच्छाभत्तं बहिचङ्कमे कम्मट्ठानं मनसिकरोतो सेदापिस्स कच्छेहि मुच्चन्ति. अथ नं अन्तेवासिको आह – ‘‘इध, भन्ते, निसीदथ, सीतलो ओकासो’’ति. थेरो ‘‘उण्हभयेनेवम्हि, आवुसो, इध निसिन्नो’’ति अवीचिमहानिरयं पच्चवेक्खित्वा निसीदियेव. उण्हन्ति चेत्थ अग्गिसन्तापोव वेदितब्बो सूरियसन्तापस्स परतो वुच्चमानत्ता. सूरियसन्तापवसेन पनेतं वत्थु वुत्तं.

यो च द्वे तयो वारे भत्तं वा पानीयं वा अलभमानोपि अनमतग्गे संसारे अत्तनो पेत्तिविसयूपपत्तिं पच्चवेक्खित्वा अवेधन्तो कम्मट्ठानं न विजहतियेव. डंसमकसवातातपसम्फस्सेहि फुट्ठो चेपि तिरच्छानूपपत्तिं पच्चवेक्खित्वा अवेधन्तो कम्मट्ठानं न विजहतियेव. सरीसपसम्फस्सेन फुट्ठो चापि अनमतग्गे संसारे सीहब्यग्घादिमुखेसु अनेकवारं परिवत्तितपुब्बभावं पच्चवेक्खित्वा अवेधन्तो कम्मट्ठानं न विजहतियेव पधानियत्थेरो विय, अयं ‘‘खमो जिघच्छाय…पे… सरीसपसम्फस्सान’’न्ति वेदितब्बो. थेरं किर खण्डचेलविहारे कणिकारपधानियघरे अरियवंसधम्मं सुणन्तञ्ञेव घोरविसो सप्पो डंसि. थेरो जानित्वापि पसन्नचित्तो निसिन्नो धम्मंयेव सुणाति, विसवेगो थद्धो अहोसि. थेरो उपसम्पदमाळं आदिं कत्वा सीलं पच्चवेक्खित्वा ‘‘विसुद्धसीलोम्ही’’ति पीतिं उप्पादेसि, सह पीतुप्पादा विसं निवत्तित्वा पथविं पाविसि. थेरो तत्थेव चित्तेकग्गतं लभित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि.

यो पन अक्कोसवसेन दुरुत्ते दुरुत्तत्तायेव च दुरागते अपि अन्तिमवत्थुसञ्ञिते वचनपथे सुत्वा खन्तिगुणंयेव पच्चवेक्खित्वा न वेधति दीघभाणकअभयत्थेरो विय, अयं ‘‘खमो दुरुत्तानं दुरागतानं वचनपथान’’न्ति वेदितब्बो. थेरो किर पच्चयसन्तोसभावनारामताय महाअरियवंसप्पटिपदं कथेसि, सब्बो महागामो आगच्छति, थेरस्स महासक्कारो उप्पज्जि. तं अञ्ञतरो महाथेरो अधिवासेतुं असक्कोन्तो ‘‘दीघभाणको ‘अरियवंसं कथेमी’ति सब्बरत्तिं कोलाहलं करोती’’तिआदीहि अक्कोसि. उभोपि च अत्तनो अत्तनो विहारं गच्छन्ता गावुतमत्तं एकपथेन अगमंसु. सकलगावुतम्पि सो तं अक्कोसियेव. ततो यत्थ द्विन्नं विहारानं मग्गो भिज्जति, तत्थ ठत्वा दीघभाणकत्थेरो तं वन्दित्वा ‘‘एसो, भन्ते, तुम्हाकं मग्गो’’ति आह. सो अस्सुणन्तो विय अगमासि. थेरोपि विहारं गन्त्वा पादे पक्खालेत्वा निसीदि. तमेनं अन्तेवासिको ‘‘किं, भन्ते, सकलगावुतं परिभासन्तं न किञ्चि अवोचुत्था’’ति आह. थेरो ‘‘खन्तियेवावुसो, मय्हं भारो, न अक्खन्ति, एकपदुद्धारेपि कम्मट्ठानवियोगं न पस्सामी’’ति आह.

वचनमेव तदत्थं ञापेतुकामानञ्च पथो उपायोति आह ‘‘वचनमेव वचनपथो’’ति. असुखट्ठेन वा तिब्बा. यञ्हि न सुखं, तं अनिट्ठं तिब्बन्ति वुच्चति. अधिवासकजातिको होतीति यथावुत्तवेदनानं अधिवासकसभावो होति. चित्तलपब्बते पधानियत्थेरस्स किर रत्तिं पधानेन वीतिनामेत्वा ठितस्स उदरवातो उप्पज्जति. सो तं अधिवासेतुं असक्कोन्तो आवत्तति परिवत्तति. तमेनं चङ्कमनपस्से ठितो पिण्डपातियत्थेरो आह – ‘‘आवुसो, पब्बजितो नाम अधिवासनसीलो होती’’ति. सो ‘‘साधु, भन्ते’’ति अधिवासेत्वा निच्चलो सयि. वातो नाभितो याव हदयं फालेसि. थेरो वेदनं विक्खम्भेत्वा विपस्सन्तो मुहुत्तेन अनागामी हुत्वा परिनिब्बायि. एवं सब्बत्थाति ‘‘उण्हेन फुट्ठस्स सीतं पत्थयतो’’तिआदिना सब्बत्थ उण्हादिनिमित्तं कामासवुप्पत्ति वेदितब्बा. नत्थि सुगतिभवे सीतं वा उण्हं वाति अनिट्ठं सीतं वा उण्हं वा नत्थीति अधिप्पायो. अत्तग्गाहे सति अत्तनियग्गाहोति आह ‘‘मय्हं सीतं उण्हन्ति गाहो दिट्ठासवो’’ति.

अहं समणोति ‘‘अहं समणो, किं मम जीवितेन वा मरणेन वा’’ति एवं चिन्तेत्वाति अधिप्पायो. पच्चवेक्खित्वाति गामप्पवेसप्पयोजनादिञ्च पच्चवेक्खित्वा. पटिक्कमतीति हत्थिआदीनं समीपगमनतो अपक्कमति. ठायन्ति एत्थाति ठानं, कण्टकानं ठानं कण्टकट्ठानं, यत्थ कण्टकानि सन्ति, तं ओकासन्ति वुत्तं होति. अमनुस्सदुट्ठानीति अमनुस्ससञ्चारेन दूसितानि, सपरिस्सयानीति अत्थो. अनियतवत्थुभूतन्ति अनियतसिक्खापदस्स कारणभूतं. वेसियादिभेदतोति वेसियाविधवाथुल्लकुमारिकापण्डकपानागारभिक्खुनिभेदतो. समानन्ति समं, अविसमन्ति अत्थो. अकासि वाति तादिसं अनाचारं अकासि वा. सीलसंवरसङ्खातेनाति कथं परिवज्जनं सीलं? अनासनपरिवज्जनेन हि अनाचारपरिवज्जनं वुत्तं. अनाचारागोचरपरिवज्जनं चारित्तसीलताय सीलसंवरो. तथा हि भगवता ‘‘पातिमोक्खसंवरसंवुतो विहरती’’ति (विभ. ५०८) सीलसंवरविभजने आचारगोचरसम्पत्तिं दस्सेन्तेन ‘‘अत्थि अनाचारो, अत्थि अगोचरो’’तिआदिना (विभ. ५१३-५१४) आचारगोचरा विभजित्वा दस्सिता. ‘‘चण्डं हत्थिं परिवज्जेती’’ति वचनतो हत्थिआदिपरिवज्जनम्पि भगवतो वचनानुट्ठानन्ति कत्वा आचारसीलमेवाति वेदितब्बं.

इतिपीति इमिनापि कारणेन अयोनिसोमनसिकारसमुट्ठितत्तापि, लोभादिसहगतत्तापि, कुसलप्पटिपक्खतोपीतिआदीहि कारणेहि अयं वितक्को अकुसलोति अत्थो. इमिना नयेन सावज्जोतिआदीसुपि अत्थो वेदितब्बो. एत्थ च अकुसलोतिआदिना दिट्ठधम्मिकं कामवितक्कस्स आदीनवं दस्सेति, दुक्खविपाकोति इमिना सम्परायिकं. अत्तब्याबाधाय संवत्ततीतिआदीसुपि इमिनाव नयेन आदीनवविभावना वेदितब्बा. उप्पन्नस्स कामवितक्कस्स अनधिवासनं नाम पुन तादिसस्स अनुप्पादनं. तं पनस्स पहानं विनोदनं ब्यन्तिकरणं अनभावगमनन्ति च वत्तुं वट्टतीति पाळियं – ‘‘उप्पन्नं कामवितक्कं नाधिवासेती’’ति वत्वा ‘‘पजहती’’तिआदि वुत्तन्ति तमत्थं दस्सेन्तो ‘‘अनधिवासेन्तो किं करोती’’तिआदिमाह. पहानञ्चेत्थ विक्खम्भनमेव, न समुच्छेदोति दस्सेतुं ‘‘विनोदेती’’तिआदि वुत्तन्ति विक्खम्भनवसेनेव अत्थो दस्सितो. उप्पन्नुप्पन्नेति तेसं पापवितक्कानं उप्पादावत्थागहणं वा कतं सिया अनवसेसग्गहणं वा. तेसु पठमं सन्धायाह ‘‘उप्पन्नमत्ते’’ति, सम्पतिजातेति अत्थो. अनवसेसग्गहणं ब्यापनिच्छायं होतीति दस्सेतुं ‘‘सतक्खत्तुम्पि उप्पन्नुप्पन्ने’’ति वुत्तं.

ञातिवितक्कोति ‘‘अम्हाकं ञातयो सुखजीविनो सम्पत्तियुत्ता’’तिआदिना गेहस्सितपेमवसेन ञातके आरब्भ उप्पन्नवितक्को. जनपदवितक्कोति ‘‘अम्हाकं जनपदो सुभिक्खो सम्पन्नसस्सो रमणीयो’’तिआदिना गेहस्सितपेमवसेन जनपदं आरब्भ उप्पन्नवितक्को. उक्कुटिकप्पधानादीहि दुक्खे निज्जिण्णे सम्पराये सत्ता सुखी होन्ति अमराति दुक्करकारिकाय पटिसंयुत्तो अमरत्थाय वितक्को. तं वा आरब्भ अमराविक्खेपदिट्ठिसहगतो अमरो च सो वितक्को चाति अमरावितक्को. परानुद्दयतापटिसंयुत्तोति परेसु उपट्ठाकादीसु सहनन्दितादिवसेन पवत्तो अनुद्दयतापतिरूपको गेहस्सितपेमप्पटिसंयुत्तो वितक्को. लाभसक्कारसिलोकप्पटिसंयुत्तोति चीवरादिलाभेन च सक्कारेन च कित्तिसद्देन च आरम्मणकरणवसेन पटिसंयुत्तो. अनवञ्ञत्तिप्पटिसंयुत्तोति ‘‘अहो वत मं परे न अवजानेय्युं, न हेट्ठा कत्वा मञ्ञेय्युं, पासाणच्छत्तं विय गरुं करेय्यु’’न्ति उप्पन्नवितक्को.

कामवितक्को कामसङ्कप्पनसभावतो कामासवप्पत्तिया सातिसयत्ता च कामनाकारोति आह ‘‘कामवितक्को पनेत्थ कामासवो’’ति. तब्बिसेसोति कामासवविसेसो भवसभावत्ताति अधिप्पायो. कामवितक्कादिके विनोदेति अत्तनो सन्तानतो नीहरति एतेनाति विनोदनं, वीरियन्ति आह ‘‘वीरियसंवरसङ्खातेन विनोदनेना’’ति.

‘‘सत्त बोज्झङ्गा भाविता बहुलीकता विज्जाविमुत्तियो परिपूरेन्ती’’ति वचनतो विज्जाविमुत्तीनं अनधिगमो ततो च सकलवट्टदुक्खानतिवत्ति अभावनाय आदीनवो. वुत्तविपरियायेन भगवतो ओरसपुत्तभावादिवसेन च भावनाय आनिसंसो वेदितब्बो. थोमेन्तोति आसवपहानस्स दुक्करत्ता ताय एव दुक्करकिरियाय तं अभित्थवन्तो. संवरेनेव पहीनाति संवरेन पहीना एव. तेन वुत्तं ‘‘न अप्पहीनेसुयेव पहीनसञ्ञी’’ति.

आसवसुत्तवण्णना निट्ठिता.