१. सोणसुत्तवण्णना
५५. छट्ठस्स पठमे निसीदि भगवा पञ्ञत्ते आसनेति एत्थ किं तं आसनं पठममेव पञ्ञत्तं, उदाहु भगवन्तं दिस्वा पञ्ञत्तन्ति चे? भगवतो धरमानकाले पधानिकभिक्खूनं वत्तमेतं, यदिदं अत्तनो वसनट्ठाने बुद्धासनं पञ्ञपेत्वाव निसीदनन्ति दस्सेन्तो आह ‘‘पधानिकभिक्खू’’तिआदि. बुद्धकाले किर यत्थ यत्थ एकोपि भिक्खु विहरति, सब्बत्थ बुद्धासनं पञ्ञत्तमेव होति. कस्मा? भगवा हि अत्तनो सन्तिके कम्मट्ठानं गहेत्वा फासुकट्ठाने विहरन्ते मनसि करोति – ‘‘असुको मय्हं सन्तिके कम्मट्ठानं गहेत्वा गतो, असक्खि नु खो विसेसं निब्बत्तेतुं, नो’’ति. अथ नं पस्सति कम्मट्ठानं विस्सज्जेत्वा अकुसलवितक्कं वितक्कयमानं, ततो ‘‘कथञ्हि नाम मादिसस्स सत्थु सन्तिके कम्मट्ठानं गहेत्वा विहरन्तं इमं कुलपुत्तं अकुसलवितक्का अधिभवित्वा अनमतग्गे वट्टदुक्खे संसारेस्सन्ती’’ति तस्स अनुग्गहत्थं तत्थेव अत्तानं दस्सेत्वा तं कुलपुत्तं ओवदित्वा आकासं उप्पतित्वा पुन अत्तनो वसनट्ठानमेव गच्छति. अथेवं ओवदियमाना ते भिक्खू चिन्तयिंसु ‘‘सत्था अम्हाकं मनं जानित्वा आगन्त्वा अम्हाकं समीपे ठितंयेव अत्तानं दस्सेति. तस्मिं खणे, ‘भन्ते, इध निसीदथ निसीदथा’ति आसनपरियेसनं नाम भारो’’ति. ते आसनं पञ्ञपेत्वाव विहरन्ति. यस्स पीठं अत्थि, सो तं पञ्ञपेति. यस्स नत्थि, सो मञ्चं वा फलकं वा पासाणं वा वालिकापुञ्जं वा पञ्ञपेति. तं अलभमाना पुराणपण्णानिपि संकड्ढित्वा तत्थ पंसुकूलं पत्थरित्वा ठपेन्ति.
सत्त सराति – छज्जो, उसभो, गन्धारो, मज्झिमो, पञ्चमो, धेवतो, निसादोति एते सत्त सरा. तयो गामाति – छज्जगामो, मज्झिमगामो, साधारणगामोति तयो गामा, समूहाति अत्थो. मनुस्सलोके वीणावादना एकेकस्स सरस्स वसेन तयो तयो मुच्छनाति कत्वा एकवीसति मुच्छना. देवलोके वीणावादना पन समपञ्ञास मुच्छनाति वदन्ति. तत्थ हि एकेकस्स सरस्स वसेन सत्त सत्त मुच्छना, अन्तरस्स सरस्स च एकाति समपञ्ञास मुच्छना. तेनेव सक्कपञ्हसुत्तसंवण्णनायं (दी. नि. अट्ठ. २.३४५) ‘‘समपञ्ञास मुच्छना मुच्छेत्वा’’ति पञ्चसिखस्स वीणावादनं दस्सेन्तेन वुत्तं. ठाना एकूनपञ्ञासाति एकेकस्सेव सरस्स सत्त सत्त ठानभेदा, यतो सरस्स मण्डलताववत्थानं होति. एकूनपञ्ञासट्ठानविसेसो तिस्सो दुवे चतस्सो चतस्सो तिस्सो दुवे चतस्सोति द्वावीसति सुतिभेदा च इच्छिता.
अतिगाळ्हं आरद्धन्ति थिनमिद्धछम्भितत्तानं वूपसमत्थं अतिविय आरद्धं. सब्बत्थ नियुत्ता सब्बत्थिका. सब्बेन वा लीनुद्धच्चपक्खियेन अत्थेतब्बा सब्बत्थिका. समथोयेव समथनिमित्तं. एवं सेसेसुपि. खया रागस्स वीतरागत्ताति एत्थ यस्मा बाहिरको कामेसु वीतरागो न खया रागस्स वीतरागो सब्बसो अविप्पहीनरागत्ता. विक्खम्भितरागो हि सो. अरहा पन खया एव, तस्मा वुत्तं ‘‘खया रागस्स वीतरागत्ता’’ति. एस नयो दोसमोहेसुपि.
लाभसक्कारसिलोकं निकामयमानोति एत्थ लब्भति पापुणीयतीति लाभो, चतुन्नं पच्चयानमेतं अधिवचनं. सक्कच्चं कातब्बोति सक्कारो. पच्चया एव हि पणीतपणीता सुन्दरसुन्दरा अभिसङ्खरित्वा कता ‘‘सक्कारो’’ति वुच्चति, या च परेहि अत्तनो गारवकिरिया, पुप्फादीहि वा पूजा. सिलोकोति वण्णभणनं. तं लाभञ्च, सक्कारञ्च, सिलोकञ्च, निकामयमानो, पवत्तयमानोति अत्थो. तेनेवाह ‘‘चतुपच्चयलाभञ्च…पे… पत्थयमानो’’ति.
थूणन्ति पसूनं बन्धनत्थाय निखातत्थम्भसङ्खातं थूणं. सेसं सुविञ्ञेय्यमेव.
सोणसुत्तवण्णना निट्ठिता.