३-६. इणसुत्तादिवण्णना

४५-४८. ततिये दलिद्दो नाम दुग्गतो, तस्स भावो दालिद्दियं. न एतस्स सकं सापतेय्यन्ति अस्सको, असापतेय्यो. तेनाह ‘‘अत्तनो सन्तकेन रहितो’’ति. ‘‘बुद्धो धम्मो सङ्घो’’ति वुत्ते ‘‘सम्मासम्बुद्धो भगवा, स्वाक्खातो धम्मो, सुप्पटिपन्नो सङ्घो’’ति केनचि अकम्पियभावेन ओकप्पनं रतनत्तयगुणे ओगाहेत्वा कप्पनं ओकप्पनसद्धा नाम. ‘‘इदं अकुसलं कम्मं नो सकं, इदं पन कम्मं सक’’न्ति एवं ब्यतिरेकतो अन्वयतो च कम्मस्सकतजाननपञ्ञा कम्मस्सकतपञ्ञा. तिविधञ्हि दुच्चरितं अत्तना कतम्पि सककम्मं नाम न होति अत्थभञ्जनतो. सुचरितं सककम्मं नाम अत्थजननतो. इणादानस्मिन्ति पच्चत्तवचनत्थे एतं भुम्मन्ति आह ‘‘इणग्गहणं वदामी’’ति.

कटग्गाहोति कतं सब्बसो सिद्धमेव कत्वा गहणं. सो पन विजयलाभो होतीति आह ‘‘जयग्गाहो’’ति. हिरिमनो एतस्साति हिरिमनोति आह ‘‘हिरिसम्पयुत्तचित्तो’’ति, पापजिगुच्छनलक्खणाय हिरिया सम्पयुत्तचित्तोति अत्थो. ओत्तप्पति उब्बिज्जति भायति सीलेनाति ओत्तप्पी, ओत्तप्पेन समन्नागतो. निरामिसं सुखन्ति ततियज्झानसुखं दूरसमुस्सारितकामामिसत्ता. उपेक्खन्ति चतुत्थज्झानुपेक्खं, न यं किञ्चि उपेक्खावेदनन्ति आह ‘‘चतुत्थज्झानुपेक्ख’’न्ति. आरद्धवीरियोति पग्गहितपरिपुण्णकायिकचेतसिकवीरियोति अत्थो. यो गणसङ्गणिकं विनोदेत्वा चतूसु इरियापथेसु अट्ठआरम्भवत्थुवसेन एकको होति, तस्स कायिकं वीरियं आरद्धं नाम होति. चित्तसङ्गणिकं विनोदेत्वा अट्ठसमापत्तिवसेन एकको होति. गमने उप्पन्नकिलेसस्स ठानं पापुणितुं न देति, ठाने उप्पन्नकिलेसस्स निसज्जं, निसज्जाय उप्पन्नकिलेसस्स सयनं पापुणितुं न देति, उप्पन्नट्ठानेयेव किलेसे निग्गण्हाति. अयं चेतसिकं वीरियं आरद्धं नाम होति. पटिपक्खदूरीभावेन सेट्ठट्ठेन च एको उदेतीति एकोदि, एकग्गता. तस्स योगतो एकग्गचित्तो इध एकोदि. पटिपक्खतो अत्तानं निपाति, तं वा निपयति विसोसेतीति निपको. अञ्ञतरं कायादिभेदं आरम्मणं सातिसयाय सतिया सरतीति सतो. तेनाह ‘‘एकग्गचित्तो’’तिआदि.

अकुप्पा मे विमुत्तीति मय्हं अरहत्तफलविमुत्ति अकुप्पताय अकुप्पारम्मणताय च अकुप्पा. सा हि रागादीहि न कुप्पतीति अकुप्पतायपि अकुप्पा. अकुप्पं निब्बानमस्सा आरम्मणन्ति अकुप्पारम्मणतायपि अकुप्पा. तेनेवाह ‘‘अकुप्पारम्मणत्ता’’तिआदि. भवसंयोजनानन्ति कामरागपटिघमानदिट्ठिविचिकिच्छासीलब्बतपरामासभवरागइस्सामच्छरिय- अविज्जासङ्खातानं दसन्नं संयोजनानं. इमानि हि सत्ते भवेसु संयोजेन्ति उपनिबन्धन्ति भवाभवेन संयोजेन्ति, तस्मा भवसंयोजनानीति वुच्चन्ति. खीणासवो उत्तमअणणो किलेसइणानं अभावतो. अञ्ञे हि सत्ता याव न किलेसा पहीयन्ति, ताव सइणा नाम असेरिविहारभावतो. चतुत्थादीनि उत्तानत्थानि.

इणसुत्तादिवण्णना निट्ठिता.