२. मिगसालासुत्तवण्णना

४४. दुतिये समसमगतियाति क-कारस्स य-कारवसेन निद्देसोति आह ‘‘समभावेनेव समगतिका’’ति. भविस्सन्तीति अतीतत्थे अनागतवचनं कतन्ति आह ‘‘भविस्सन्तीति जाता’’ति. पुराणस्स हि इसिदत्तस्स च समगतिकं सन्धाय सा एवमाह.

अम्मकाति मातुगामो. उपचारवचनञ्हेतं. इत्थीसु यदिदं अम्मका मातुगामो जननी जनिकाति. तेनाह ‘‘इत्थी हुत्वा इत्थिसञ्ञाय एव समन्नागता’’ति.

दिट्ठिया पटिविज्झितब्बं अप्पटिविद्धं होतीति अत्थतो कारणतो च पञ्ञाय पटिविज्झितब्बं अप्पटिविद्धं होति, निज्जटं निग्गुम्बं कत्वा याथावतो अविदितं होति. समये समये किलेसेहि विमुच्चनकं पीतिपामोज्जं इध सामायिकं म-कारे अकारस्स दीघं कत्वा. तेनाह – ‘‘सामायिकम्पि विमुत्तिं न लभतीति कालानुकालं धम्मस्सवनं निस्साय पीतिपामोज्जं न लभती’’ति. पमिणन्तीति एत्थ आरम्भत्थो प-सद्दोति आह ‘‘तुलेतुं आरभन्ती’’ति. पणीतोति विसिट्ठो.

तदन्तरन्ति वचनविपल्लासेन उपयोगत्थे सामिवचनं कतन्ति आह ‘‘तं अन्तरं तं कारण’’न्ति. लोभस्स अपरापरुप्पत्तिया बहुवचनवसेन ‘‘लोभधम्मा’’ति वुत्ता. सीलेन विसेसी अहोसि मेथुनधम्मविरतिया समन्नागतत्ता.

मिगसालासुत्तवण्णना निट्ठिता.