१. नागसुत्तवण्णना
४३. पञ्चमस्स पठमे परिसिञ्चितुन्ति (म. नि. अट्ठ. १.२७२) यो चुण्णमत्तिकादीहि गत्तानि उब्बट्टेन्तो मल्लकमुट्ठादीहि वा घंसन्तो नहायति, सो ‘‘नहायती’’ति वुच्चति. यो तथा अकत्वा पकतियाव नहायति, सो ‘‘परिसिञ्चती’’ति वुच्चति. भगवतो च सरीरे तथा हरितब्बं रजोजल्लं नाम नुपलिम्पति अच्छछविभावतो, उतुग्गहणत्थं पन भगवा केवलं उदके ओतरति. तेनाह ‘‘गत्तानि परिसिञ्चितु’’न्ति.
पुब्बकोट्ठकोति पाचीनकोट्ठको. सावत्थियं किर जेतवनविहारो कदाचि महा, कदाचि खुद्दको. तथा हि सो विपस्सिस्स भगवतो काले योजनिको अहोसि, सिखिस्स तिगावुतो, वेस्सभुस्स अड्ढयोजनिको, ककुसन्धस्स गावुतप्पमाणो, कोणागमनस्स अड्ढगावुतप्पमाणो, कस्सपस्स वीसतिउसभप्पमाणो, अम्हाकं भगवतो काले अट्ठकरीसप्पमाणो जातो. तम्पि नगरं तस्स विहारस्स कदाचि पाचीनतो होति, कदाचि दक्खिणतो, कदाचि पच्छिमतो, कदाचि उत्तरतो. जेतवनगन्धकुटियं पन चतुन्नं मञ्चपादानं पतिट्ठितट्ठानं अचलमेव. चत्तारि हि अचलचेतियट्ठानानि नाम महाबोधिपल्लङ्कट्ठानं, इसिपतने धम्मचक्कप्पवत्तनट्ठानं, सङ्कस्सनगरे देवोरोहनकाले सोपानस्स पतिट्ठानट्ठानं, मञ्चपादट्ठानन्ति. अयं पन पुब्बकोट्ठको कस्सपदसबलस्स वीसतिउसभविहारकाले पाचीनद्वारकोट्ठको अहोसि. सो इदानि ‘‘पुब्बकोट्ठको’’त्वेव पञ्ञायति.
कस्सपदसबलस्स काले अचिरवती नगरं परिक्खिपित्वा सन्दमाना पुब्बकोट्ठकं पत्वा उदकेन भिन्दित्वा महन्तं उदकरहदं मापेसि समतित्तिकं अनुपुब्बगम्भीरं. तत्थ एकं रञ्ञो न्हानतित्थं, एकं नागरानं, एकं भिक्खुसङ्घस्स, एकं बुद्धानन्ति एवं पाटिएक्कानि न्हानतित्थानि होन्ति रमणीयानिविप्पकिण्णरजतपट्टसदिसवालुकानि. इति भगवता आयस्मता आनन्देन सद्धिं येन अयं एवरूपो पुब्बकोट्ठको, तेनुपसङ्कमि गत्तानि परिसिञ्चितुं. अथायस्मा आनन्दो उदकसाटिकं उपनामेसि. भगवा सुरत्तदुपट्टं अपनेत्वा उदकसाटिकं निवासेसि. थेरो दुपट्टेन सद्धिं महाचीवरं अत्तनो हत्थगतं अकासि. भगवा उदकं ओतरि, सहोतरणेनेवस्स उदके मच्छकच्छपा सब्बे सुवण्णवण्णा अहेसुं, यन्तनाळिकाहि सुवण्णरसधारानि सिञ्चनकालो विय सुवण्णपटप्पसारणकालो विय च अहोसि. अथ भगवतो नहानवत्तं दस्सेत्वा पच्चुत्तिण्णस्स थेरो सुरत्तदुपट्टं उपनामेसि. भगवा तं निवासेत्वा विज्जुल्लतासदिसं कायबन्धनं बन्धित्वा महाचीवरं अन्तन्तेन संहरित्वा पदुमगब्भसदिसं कत्वा उपनीतं द्वीसु कण्णेसु गहेत्वा अट्ठासि. तेन वुत्तं ‘‘पुब्बकोट्ठके गत्तानि परिसिञ्चित्वा एकचीवरो अट्ठासी’’ति.
एवं ठितस्स पन भगवतो सरीरं विकसितपदुमपुप्फसदिसं सब्बपालिफुल्लं पारिच्छत्तकं, तारामरीचिविकसितञ्च गगनतलं सिरिया अवहसमानं विय विरोचित्थ, ब्यामप्पभापरिक्खेपविलासिनी चस्स द्वत्तिंसवरलक्खणमाला गन्थित्वा ठपिता द्वत्तिंस चन्दिमा विय, द्वत्तिंस सूरिया विय, पटिपाटिया ठपितद्वत्तिंसचक्कवत्तिद्वत्तिंसदेवराजद्वत्तिंसमहाब्रह्मानो विय च अतिविय विरोचित्थ. यस्मा च भगवतो सरीरं सुधन्तचामीकरसमानवण्णं, सुपरिसोधितपवाळरुचिरतोरणं, सुविसुद्धनीलरतनावलिसदिसकेसतनुरुहं, तस्मा तहं तहं विनिग्गतसुजातजातिहिङ्गुलकरसूपसोभितं उपरि सतमेघरतनावलिसुच्छादितं जङ्गममिव कनकगिरिसिखरं विरोचित्थ. तस्मिञ्च समये दसबलस्स सरीरतो निक्खमित्वा छब्बण्णरस्मियो समन्ततो असीतिहत्थप्पमाणे पदेसे आधावन्ती विधावन्ती रतनावलिरतनदामरतनचुण्णविप्पकिण्णं विय पसारितरतनचित्तकञ्चनपट्टमिव आसिञ्चमानलाखारसधाराचित्तमिव उक्कासतनिपातसमाकुलमिव निरन्तरविप्पकिण्णकणिकारकिङ्किणिकपुप्फमिव वायुवेगसमुद्धतचिनपिट्ठचुण्णरञ्जितमिव इन्दधनुविज्जुल्लतावितानसन्थतमिव च गगनतलं, तं ठानं पवनञ्च सम्मा फरन्ति. वण्णभूमि नामेसा. एवरूपेसु ठानेसु बुद्धानं सरीरवण्णं वा गुणवण्णं वा चुण्णियपदेहि वा गाथाहि वा अत्थञ्च उपमायो च कारणानि च आहरित्वा पटिबलेन धम्मकथिकेन पूरेत्वा कथेतुं वट्टति. एवरूपेसु हि ठानेसु धम्मकथिकस्स थामो वेदितब्बो. पुब्बसदिसानि कुरुमानोति निरुदकानि कुरुमानो, सुक्खापयमानोति अत्थो. सोदके गत्ते चीवरं पारुपन्तस्स हि चीवरे कण्णिकानि उट्ठहन्ति, परिक्खारभण्डं दुस्सति, बुद्धानं पन सरीरे रजोजल्लं न उपलिम्पति, पदुमपत्ते उक्खित्तउदकबिन्दु विय उदकं विनिवट्टेत्वा गच्छति. एवं सन्तेपि सिक्खागारवताय भगवा ‘‘पब्बजितवत्तं नामेत’’न्ति महाचीवरं उभोसु कण्णेसु गहेत्वा पुरतो कायं पटिच्छादेत्वा अट्ठासि.
ताळितञ्च वादितञ्च ताळितवादितं, तूरियानं ताळितवादितं तूरियताळितवादितं. महन्तञ्च तं तूरियताळितवादितञ्चाति महातूरियताळितवादितं. तेनाह ‘‘महन्तेना’’तिआदि. अथ वा भेरिमुदिङ्गपणवादितूरियानं ताळितं वीणावेळुगोमुखिआदीनं वादितञ्च तूरियताळितवादितन्ति वा एवमेत्थ अत्थो दट्ठब्बो.
अभिञ्ञापारं गतोति अभिञ्ञापारगू. एवं सेसेसुपि. सो हि भगवा सब्बधम्मे अभिजानन्तो गतोति अभिञ्ञापारगू. तेसु पञ्चुपादानक्खन्धे परिजानन्तो गतोति परिञ्ञापारगू. सब्बकिलेसे पजहन्तो गतोति पहानपारगू. चत्तारो मग्गे भावेन्तो गतोति भावनापारगू. निरोधं सच्छिकरोन्तो गतोति सच्छिकिरियापारगू. सब्बसमापत्तिं समापज्जन्तो गतोति समापत्तिपारगू. सुब्रह्मदेवपुत्तादयोति एत्थ सो किर देवपुत्तो अच्छरासङ्घपरिवुतो नन्दनकीळितं कत्वा पारिच्छत्तकमूले पञ्ञत्तासने निसीदि. तं पञ्चसता परिवारेत्वा निसिन्ना, पञ्चसता रुक्खं अभिरुहित्वा मधुरस्सरेन गायित्वा पुप्फानि पातेन्ति. तानि गहेत्वा इतरा एकतोवण्टिकमालाव गन्थेन्ति. अथ रुक्खं अभिरुळ्हा उपच्छेदकवसेन एकप्पहारेनेव कालं कत्वा अवीचिम्हि निब्बत्ता महादुक्खं अनुभवन्ति. अथ काले गच्छन्ते देवपुत्तो ‘‘इमासं नेव सद्दो सुय्यति, न पुप्फानि पातेन्ति, कहं नु खो गता’’ति आवज्जेन्तो निरये निब्बत्तभावं दिस्वा पियवत्थुकसोकेन रुप्पमानो चिन्तेसि – ‘‘एता ताव यथाकम्मेन गता, मय्हं आयुसङ्खारो कित्तको’’ति. सो ‘‘सत्तमे दिवसे मयापि अवसेसाहि पञ्चसताहि सद्धिं कालं कत्वा तत्थेव निब्बत्तितब्ब’’न्ति दिस्वा बलवतरेन सोकेन समप्पितो. ‘‘इमं मय्हं सोकं सदेवके लोके अञ्ञत्र तथागता निब्बापेतुं समत्थो नत्थी’’ति चिन्तेत्वा सत्थु सन्तिकं गन्त्वा वन्दित्वा एकमन्तं ठितो –
‘‘निच्चं उत्रस्तमिदं चित्तं, निच्चं उब्बिग्गमिदं मनो;
अनुप्पन्नेसु किच्छेसु, अथो उप्पतितेसु च;
सचे अत्थि अनुत्रस्तं, तं मे अक्खाहि पुच्छितो’’ति. (सं. नि. १.९८) –
इमं गाथमभासि. भगवापिस्स –
‘‘नाञ्ञत्र बोज्झा तपसा, नाञ्ञत्रिन्द्रियसंवरा;
नाञ्ञत्र सब्बनिस्सग्गा, सोत्थिं पस्सामि पाणिन’’न्ति. (सं. नि. १.९८) –
धम्मं देसेसि. सो देसनापरियोसाने विगतसोको पञ्चहि अच्छरासतेहि सद्धिं सोतापत्तिफले पतिट्ठाय भगवन्तं नमस्समानो अट्ठासि. तं सन्धायेतं वुत्तं ‘‘दुक्खप्पत्ता सुब्रह्मदेवपुत्तादयो’’ति. आदि-सद्देन चन्दसूरियदेवपुत्तादयो सङ्गण्हाति. चतूहि कारणेहीति आरकत्ता, अरीनं अरानञ्च हतत्ता, पच्चयादीनं अरहत्ता, पापकरणे रहाभावाति इमेहि चतूहि कारणेहि.
दसविधसंयोजनानीति ओरम्भागियुद्धम्भागियभेदतो दसविधसंयोजनानि. सब्बे अच्चरुचीति सब्बसत्ते अतिक्कमित्वा पवत्तरुचि. अट्ठमकन्ति सोतापत्तिमग्गट्ठं सन्धाय वदति. सोतापन्नोति फलट्ठो गहितो.
सोरच्चन्ति ‘‘तत्थ कतमं सोरच्चं? यो कायिको अवीतिक्कमो, वाचसिको अवीतिक्कमो, कायिकवाचसिको अवीतिक्कमो, इदं वुच्चति सोरच्चं, सब्बापि सीलसंवरो सोरच्च’’न्ति (ध. स. १३४९) वचनतो सुचिसीलं ‘‘सोरच्च’’न्ति वुत्तं. करूणाति करुणाब्रह्मविहारमाह. करुणापुब्बभागोति तस्स पुब्बभागं उपचारज्झानं वदति.
दुविधेन झानेनाति आरम्मणूपनिज्झानलक्खणूपनिज्झानभेदतो दुविधेन झानमनेन. पञ्चविधमिच्छाजीववसेनाति कुहनालपनानेमित्तिकतानिप्पेसिकतालाभेनलाभंनिजिगीसनतासङ्खात- पञ्चविधमिच्छाजीववसेन. न लिप्पतीति न अल्लीयति अनुसयतो आरम्मणकरणतो वा तण्हादिट्ठिअभिनिवेसाभावतो. सेसमेत्थ उत्तानमेव.
नागसुत्तवण्णना निट्ठिता.