६. महाकच्चानसुत्तवण्णना

२६. छट्ठे सम्बाधेति वा तण्हासंकिलेसादीनं सम्पीळे सङ्करे घरावासे. ओकासा वुच्चन्तीति मग्गफलसुखाधिगमाय ओकासभावतो ओकासाति वुच्चन्ति. ओकासाधिगमोति लोकुत्तरधम्मस्स अधिगमाय अधिगन्तब्बओकासो. विसुज्झनत्थायाति रागादीहि मलेहि अभिज्झाविसमलोभादीहि च उपक्किलिट्ठचित्तानं विसुद्धत्थाय. सा पनायं चित्तस्स विसुद्धि सिज्झमाना यस्मा सोकादीनं अनुपादाय संवत्तति, तस्मा वुत्तं ‘‘सोकपरिदेवानं समतिक्कमाया’’तिआदि. तत्थ सोचनं ञातिब्यसनादिनिमित्तं चेतसो सन्तापो अन्तोतापो अन्तोनिज्झानं सोको, ञातिब्यसनादिनिमित्तमेव सोचिकता. ‘‘कहं एकपुत्तका’’तिआदिना (म. नि. २.३५३-३५४; सं. नि. २.६३) परिदेवनवसेन लपनं परिदेवो. समतिक्कमनत्थायाति पहानाय. आयतिं अनुप्पज्जनञ्हि इध समतिक्कमो. दुक्खदोमनस्सानं अत्थङ्गमायाति कायिकदुक्खस्स च चेतसिकदोमनस्सस्स चाति इमेसं द्विन्नं अत्थङ्गमाय, निरोधायाति अत्थो. ञायति निच्छयेन कमति निब्बानं, तं वा ञायति पटिविज्झति एतेनाति ञायो, अरियमग्गो. इध पन सह पुब्बभागेन अरियमग्गो गहितोति आह ‘‘सहविपस्सनकस्स मग्गस्स अधिगमनत्थाया’’ति. अपच्चयपरिनिब्बानस्साति अनुपादिसेसनिब्बानं सन्धाय वदति. पच्चयवसेन अनुप्पन्नं असङ्खतं अमतधातुमेव. सेसमेत्थ उत्तानमेव.

महाकच्चानसुत्तवण्णना निट्ठिता.