७. पठमसमयसुत्तवण्णना

२७. सत्तमे वड्ढेतीति मनसो विवट्टनिस्सितं वड्ढिं आवहति. मनोभावनीयोति वा मनसा भावितो सम्भावितो. यञ्च आवज्जतो मनसि करोतो चित्तं विनीवरणं होति. इमस्मिं पक्खे कम्मसाधनो सम्भावनत्थो भावनीय-सद्दो. ‘‘थिनमिद्धविनोदनकम्मट्ठान’’न्ति वत्वा तदेव विभावेन्तो ‘‘आलोकसञ्ञं वा’’तिआदिमाह. वीरियारम्भवत्थुआदीनं वाति एत्थ आदि-सद्देन इध अवुत्तानं अतिभोजने निमित्तग्गाहादीनं सङ्गहो दट्ठब्बो. वुत्तञ्हेतं ‘‘छ धम्मा थिनमिद्धस्स पहानाय संवत्तन्ति अतिभोजने निमित्तग्गाहो, इरियापथसम्परिवत्तनता, आलोकसञ्ञामनसिकारो, अब्भोकासवासो, कल्याणमित्तता, सप्पायकथा’’ति (इतिवु. अट्ठ. १११). अन्तरायसद्दपरियायो इध अन्तरा-सद्दोति आह ‘‘अनन्तरायेना’’ति.

पठमसमयसुत्तवण्णना निट्ठिता.