१. सीतिभावसुत्तवण्णना

८५. नवमस्स पठमे सीतिभावन्ति निब्बानं, किलेसवूपसमं वा. निग्गण्हातीति अच्चारद्धवीरियतादीहि उद्धतं चित्तं उद्धच्चपक्खतो रक्खणवसेन निग्गण्हाति. पग्गण्हातीति अतिसिथिलवीरियतादीहि लीनं चित्तं कोसज्जपाततो रक्खणवसेन पग्गण्हाति. सम्पहंसेतीति समप्पवत्तचित्तं तथापवत्तियं पञ्ञाय तोसेति उत्तेजेति वा. यदा वा पञ्ञापयोगमन्दताय उपसमसुखानधिगमेन वा निरस्सादं चित्तं भावनाय न पक्खन्दति, तदा जातिआदीनि संवेगवत्थूनि पच्चवेक्खित्वा सम्पहंसेति समुत्तेजेति. अज्झुपेक्खतीति यदा पन चित्तं अलीनं अनुद्धतं अनिरस्सादं आरम्मणे समप्पवत्तं सम्मदेव भावनावीतिं ओतिण्णं होति, तदा पग्गहनिग्गहसम्पहंसनेसु किञ्चि ब्यापारं अकत्वा समप्पवत्तेसु अस्सेसु सारथी विय अज्झुपेक्खति, उपेक्खकोव होति. पणीताधिमुत्तिकोति पणीते उत्तमे मग्गफले अधिमुत्तो निन्नपोणपब्भारो.

सीतिभावसुत्तवण्णना निट्ठिता.