२-११. आवरणसुत्तादिवण्णना
८६-९५. दुतिये अच्छन्दिकोति कत्तुकम्यताकुसलच्छन्दरहितो. उत्तरकुरुका मनुस्सा अच्छन्दिकट्ठानं पविट्ठा. दुप्पञ्ञोति भवङ्गपञ्ञाय परिहीनो. भवङ्गपञ्ञाय पन परिपुण्णायपि यस्स भवङ्गं लोकुत्तरस्स पच्चयो न होति, सोपि दुप्पञ्ञो एव नाम. अभब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तन्ति कुसलेसु धम्मेसु सम्मत्तनियामसङ्खातं अरियमग्गं ओक्कमितुं अधिगन्तुं अभब्बो. न कम्मावरणतायातिआदीसु अभब्बविपरियायेन अत्थो वेदितब्बो. चतुत्थादीनि उत्तानत्थानि.
आवरणसुत्तादिवण्णना निट्ठिता.
सीतिवग्गवण्णना निट्ठिता.