१-२. आवरणसुत्तादिवण्णना

५१-५२. दुतियस्स पठमे आवरन्तीति आवरणा, नीवारयन्तीति नीवरणा. एत्थ च आवरन्तीति कुसलधम्मुप्पत्तिं आदितो परिवारेन्ति. नीवारयन्तीति निरवसेसतो वारयन्तीति अत्थो, तस्मा आवरणवसेनाति आदितो कुसलुप्पत्तिवारणवसेन. नीवरणवसेनाति निरवसेसतो वारणवसेनाति एवमेत्थ अत्थो दट्ठब्बो. यस्मा पञ्च नीवरणा उप्पज्जमाना अनुप्पन्नाय लोकियलोकुत्तराय पञ्ञाय उप्पज्जितुं न देन्ति, उप्पन्नापि अट्ठ समापत्तियो पञ्च वा अभिञ्ञा उपच्छिन्दित्वा पातेन्ति, तस्मा ‘‘पञ्ञाय दुब्बलीकरणा’’ति वुच्चन्ति. उपच्छिन्दनं पातनञ्चेत्थ तासं पञ्ञानं अनुप्पन्नानं उप्पज्जितुं अप्पदानमेव. इति महग्गतानुत्तरपञ्ञानं एकच्चाय च परित्तपञ्ञाय अनुप्पत्तिहेतुभूता नीवरणधम्मा इतरासं समत्थतं विहनन्तियेवाति पञ्ञाय दुब्बलीकरणा वुत्ता. भावनामनसिकारेन विना पकतिया मनुस्सेहि निब्बत्तेतब्बो धम्मोति मनुस्सधम्मो, मनुस्सत्तभावावहो वा धम्मो मनुस्सधम्मो, अनुळारं परित्तकुसलं. यं असतिपि बुद्धुप्पादे वत्तति, यञ्च सन्धायाह ‘‘हीनेन ब्रह्मचरियेन, खत्तिये उपपज्जती’’ति (जा. १.८.७५). अलं अरियाय अरियभावायाति अलमरियो, अरियभावाय समत्थोति वुत्तं होति. ञाणदस्सनमेव ञाणदस्सनविसेसो, अलमरियो च सो ञाणदस्सनविसेसो चाति अलमरियञाणदस्सनविसेसो.

ञाणदस्सनन्ति च दिब्बचक्खुपि विपस्सनापि मग्गोपि फलम्पि पच्चवेक्खणञाणम्पि सब्बञ्ञुतञ्ञाणम्पि वुच्चति. ‘‘अप्पमत्तो समानो ञाणदस्सनं आराधेती’’ति (म. नि. १.३११) हि एत्थ दिब्बचक्खु ञाणदस्सनं नाम. ‘‘ञाणदस्सनाय चित्तं अभिनीहरति अभिनिन्नामेती’’ति (दी. नि. १.२३४) एत्थ विपस्सनाञाणं. ‘‘अभब्बा ते ञाणाय दस्सनाय अनुत्तराय सम्बोधाया’’ति (अ. नि. ४.१९६) एत्थ मग्गो. ‘‘अयमञ्ञो उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति (म. नि. १.३२८) एत्थ फलं. ‘‘ञाणञ्च पन मे दस्सनं उदपादि, अकुप्पा मे विमुत्ति, अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’ति (सं. नि. ५.१०८१; महाव. १६; पटि. म. २.३०) एत्थ पच्चवेक्खणञाणं. ‘‘ञाणञ्च पन मे दस्सनं उदपादि ‘सत्ताहकालकतो आळारो कालामो’’’ति (म. नि. १.२८४; २.३४०) एत्थ सब्बञ्ञुतञ्ञाणं. इध पन लोकुत्तरधम्मो अधिप्पेतो. एत्थ च रूपायतनं जानाति चक्खुविञ्ञाणं विय पस्सति चाति ञाणदस्सनं, दिब्बचक्खु. सम्मसनूपचारे च धम्मलक्खणत्तयञ्च तथा जानाति पस्सति चाति ञाणदस्सनं, विपस्सना. निब्बानं चत्तारि वा सच्चानि असम्मोहप्पटिवेधतो जानाति पस्सति चाति ञाणदस्सनं, मग्गो. फलं पन निब्बानवसेनेव योजेतब्बं. पच्चवेक्खणा मग्गाधिगतस्स अत्थस्स सब्बसो जोतनट्ठेन ञाणदस्सनं. सब्बञ्ञुता अनावरणताय समन्तचक्खुताय च ञाणदस्सनं. ब्यादिण्णकालोति परियादिन्नकालो. दुतियं उत्तानमेव.

आवरणसुत्तादिवण्णना निट्ठिता.