४-५. सीहसेनापतिसुत्तादिवण्णना

३४-३५. चतुत्थे सन्दिट्ठिकन्ति असम्परायिकताय सामं दट्ठब्बं. सयं अनुभवितब्बं अत्तपच्चक्खं दिट्ठधम्मिकन्ति अत्थो. न सद्धामत्तकेनेव तिट्ठतीति ‘‘दानं नाम साधु सुन्दरं, बुद्धादीहि पण्डितेहि पसत्थ’’न्ति एवं सद्धामत्तकेनेव न तिट्ठति. यं दानं देतीति यं देय्यधम्मं परस्स देति. तस्स पति हुत्वाति तब्बिसयं लोभं सुट्ठु अभिभवन्तो तस्स अधिपति हुत्वा देति. तेन अनधिभवनीयत्ता न दासो न सहायोति. तत्थ तदुभयं अन्वयतो ब्यतिरेकतो च दस्सेतुं ‘‘यो ही’’तिआदि वुत्तं. दासो हुत्वा देति तण्हादासब्यस्स उपगतत्ता. सहायो हुत्वा देति तस्स पियभावाविस्सज्जनतो. सामी हुत्वा देति तत्थ तण्हादासब्यतो अत्तानं मोचेत्वा अभिभुय्य पवत्तनतो. अथ वा यो दानसीलताय दायको पुग्गलो, सो दाने पवत्तिभेदेन दानदासो, दानसहायो, दानपतीति तिप्पकारो होति. तदस्स तिप्पकारतं विभजित्वा दस्सेतुं ‘‘यो ही’’तिआदि वुत्तं. दातब्बट्ठेन दानं, अन्नपानादि.

तत्थ यं अत्तना परिभुञ्जति, तण्हाधिपन्नताय तस्स वसेन वत्तनतो दासो विय होति. यं परेसं दीयति, तत्थापि अन्नपानसामञ्ञेन इदं वुत्तं ‘‘दानसङ्खातस्स देय्यधम्मस्स दासो हुत्वा’’ति. सहायो हुत्वा देति अत्तना परिभुञ्जितब्बस्स परेसं दातब्बस्स च समसमं ठपनतो. पति हुत्वा देति सयं देय्यधम्मस्स वसे अवत्तित्वा तस्स अत्तनो वसे वत्तापनतो. अपरो नयो – यो अत्तना पणीतं परिभुञ्जित्वा परेसं निहीनं देति, सो दानदासो नाम तन्निमित्तनिहीनभावापत्तितो. यो यादिसं अत्तना परिभुञ्जति, तादिसमेव परेसं देति, सो दानसहायो नाम तन्निमित्तहीनाधिकभावविवज्जनेन सदिसभावापत्तितो. यो अत्तना निहीनं परिभुञ्जित्वा परेसं पणीतं देति, सो दानपति नाम तन्निमित्तसेट्ठभावापत्तितो.

नित्तेजभूतो तेजहानिप्पत्तिया. सह ब्यति गच्छतीति सहब्यो, सहपवत्तनको, तस्स भावो सहब्यता, सहपवत्तीति आह ‘‘सहभावं एकीभावं गता’’ति. असितस्साति वा अबन्धस्स, तण्हाबन्धनेन अबन्धस्साति अत्थो. पञ्चमं उत्तानमेव.

सीहसेनापतिसुत्तादिवण्णना निट्ठिता.