८-९. पञ्चङ्गिकसुत्तादिवण्णना

२८-२९. अट्ठमे करो वुच्चति पुप्फसम्भवं ‘‘गब्भासये किरीयती’’ति कत्वा. करतो जातो कायो करजकायो, तदुपनिस्सयो चतुसन्ततिरूपसमुदायो. कामं नामकायोपि विवेकजेन पीतिसुखेन तथालद्धूपकारो, ‘‘अभिसन्देती’’तिआदिवचनतो पन रूपकायो इध अधिप्पेतोति आह ‘‘इमं करजकाय’’न्ति. अभिसन्देतीति अभिसन्दनं करोति. तं पन अभिसन्दनं झानमयेन पीतिसुखेन करजकायस्स तिन्तभावापादनं सब्बत्थकमेव लूखभावापनयनन्ति आह ‘‘तेमेती’’तिआदि. तयिदं अभिसन्दनं अत्थतो यथावुत्तपीतिसुखसमुट्ठानेहि पणीतरूपेहि कायस्स परिप्फरणं दट्ठब्बं. परिसन्देतीतिआदीसुपि एसेव नयो. सब्बं एतस्स अत्थीति सब्बावा, तस्स सब्बावतो. अवयवावयविसम्बन्धे अवयविनि सामिवचनन्ति अवयवविसयो सब्ब-सद्दो, तस्मा वुत्तं ‘‘सब्बकोट्ठासवतो’’ति. अफुटं नाम न होति यत्थ यत्थ कम्मजरूपं, तत्थ तत्थ चित्तजरूपस्स अभिब्यापनतो. तेनाह ‘‘उपादिन्नकसन्तती’’तिआदि.

छेकोति कुसलो. तं पनस्स कोसल्लं नहानीयचुण्णानं करणे पिण्डिकरणे च समत्थतावसेन वेदितब्बन्ति आह ‘‘पटिबलो’’तिआदि. कंस-सद्दो ‘‘महतिया कंसपातिया’’तिआदीसु (म. नि. १.६१) सुवण्णे आगतो.‘‘कंसो उपहतो यथा’’तिआदीसु (ध. प. १३४) कित्तिमलोहे. कत्थचि पण्णत्तिमत्ते ‘‘उपकंसो नाम राजासि, महाकंसस्स अत्रजो’’तिआदि (जा. अट्ठ. ४.१०.१६४ घटपण्डितजातकवण्णना). इध पन यत्थ कत्थचि लोहेति आह ‘‘येन केनचि लोहेन कतभाजने’’ति. स्नेहानुगताति उदकसिनेहेन अनुप्पविसनवसेन गता उपगता. स्नेहपरेताति उदकसिनेहेन परितो गता समन्ततो फुटा. ततो एव सन्तरबाहिरा फुटा स्नेहेन. एतेन सब्बसो उदकेन तेमितभावमाह. न च पग्घरिणीति एतेन तिन्तस्सपि तस्स घनथद्धभावं वदति. तेनाह ‘‘न बिन्दुबिन्दू’’तिआदि.

ताहि ताहि उदकसिराहि उब्भिज्जतीति उब्भिदं, उब्भिदं उदकं एतस्साति उब्भिदोदको. उब्भिन्नउदकोति नदीतीरे खतकूपको विय उब्भिज्जनकउदको. उग्गच्छनउदकोति धारावसेन उट्ठहनउदको. कस्मा पनेत्थ उब्भिदोदकोव रहदो गहितो, न इतरोति आह ‘‘हेट्ठा उग्गच्छनउदकञ्ही’’तिआदि. धारानिपातबुब्बुळकेहीति धारानिपातेहि च उदकबुब्बुळेहि च. ‘‘फेणपटलेहि चा’’ति वत्तब्बं, सन्निसिन्नमेव अपरिक्खोभताय निच्चलमेव, सुप्पसन्नमेवाति अधिप्पायो. सेसन्ति ‘‘अभिसन्देती’’तिआदिकं.

उप्पलानीति उप्पलगच्छानि. सेतरत्तनीलेसूति उप्पलेसु, सेतुप्पलरत्तुप्पलनीलुप्पलेसूति अत्थो. यं किञ्चि उप्पलं उप्पलमेव सामञ्ञग्गहणतो. सतपत्तन्ति एत्थ सत-सद्दो बहुपरियायो ‘‘सतग्घी’’तिआदीसु विय. तेन अनेकसतपत्तस्सपि सङ्गहो सिद्धो होति. लोके पन रत्तं पदुमं, सेतं पुण्डरीकन्ति वुच्चति. याव अग्गा याव च मूला उदकेन अभिसन्दनादिसम्भवदस्सनत्थं उदकानुग्गतग्गहणं. इध उप्पलादीनि विय करजकायो, उदकं विय ततियज्झानसुखं.

यस्मा परिसुद्धेन चेतसाति चतुत्थज्झानचित्तमाह, तञ्च रागादिउपक्किलेसमलापगमतो निरुपक्किलेसं निम्मलं, तस्मा आह ‘‘निरुपक्किलेसट्ठेन परिसुद्ध’’न्ति. यस्मा पन पारिसुद्धिया एव पच्चयविसेसेन पवत्तिविसेसो परियोदातता सुधन्तसुवण्णस्स निघंसनेन पभस्सरता विय, तस्मा आह ‘‘पभस्सरट्ठेन परियोदातं वेदितब्ब’’न्ति. इदन्ति ओदातवचनं. उतुफरणत्थन्ति उतुनो फरणदस्सनत्थं. उतुफरणं न होति सेसन्ति अधिप्पायो. तेनाह ‘‘तङ्खण …पे… बलवं होती’’ति. वत्थं विय करजकायोति योगिनो करजकायो वत्थं विय दट्ठब्बो उतुफरणसदिसेन चतुत्थज्झानसुखेन फरितब्बत्ता. पुरिसस्स सरीरं विय चतुत्थज्झानं दट्ठब्बं उतुफरणट्ठानियस्स सुखस्स निस्सयभावतो. तेनाह ‘‘तस्मा’’तिआदि. तत्थ च ‘‘परिसुद्धेन चेतसा’’ति चेतोगहणेन झानसुखं वुत्तन्ति दट्ठब्बं. तेनाह ‘‘उतुफरणं विय चतुत्थज्झानसुख’’न्ति. ननु च चतुत्थज्झाने सुखमेव नत्थीति? सच्चं नत्थि, सातलक्खणसन्तसभावत्ता पनेत्थ उपेक्खा ‘‘सुख’’न्ति अधिप्पेता. तेन वुत्तं सम्मोहविनोदनियं (विभ. अट्ठ. २३२) ‘‘उपेक्खा पन सन्तत्ता, सुखमिच्चेव भासिता’’ति.

तस्स तस्स समाधिस्स सरूपदस्सनस्स पच्चयत्ता पच्चवेक्खणञाणं पच्चवेक्खणनिमित्तं. समभरितोति समपुण्णो.

मण्डभूमीति पपावण्णभूमि. यत्थ सलिलसिञ्चनेन विनाव सस्सानि ठितानि सम्पज्जन्ति. युगे योजेतब्बानि योग्गानि, तेसं आचरियो योग्गाचरियो. तेसं सिक्खापनतो हत्थिआदयोपि ‘‘योग्गा’’ति वुच्चन्तीति आह पाळियं ‘‘अस्सदम्मसारथी’’ति. येन येनाति चतूसु मग्गेसु येन येन मग्गेन. यं यं गतिन्ति जवसमजवादिभेदासु गतीसु यं यं गतिं. नवमे नत्थि वत्तब्बं.

पञ्चङ्गिकसुत्तादिवण्णना निट्ठिता.