४. वित्थतसुत्तवण्णना
१४. चतुत्थे सतिनेपक्केनाति सतिया नेपक्केन, तिक्खविसदसूरभावेनाति अत्थो. अट्ठकथायं पन नेपक्कं नाम पञ्ञाति अधिप्पायेन ‘‘नेपक्कं वुच्चति पञ्ञा’’ति वुत्तं. एवं सति अञ्ञो निद्दिट्ठो नाम होति. सतिमाति च इमिना सविसेसा सति गहिताति परतोपि ‘‘चिरकतम्पि चिरभासितम्पि सरिता अनुस्सरिता’’ति सतिकिच्चमेव निद्दिट्ठं, न पञ्ञाकिच्चं, तस्मा सतिनेपक्केनाति सतिया नेपक्कभावेनाति सक्का विञ्ञातुं लब्भतेव. पच्चयविसेसवसेन अञ्ञधम्मनिरपेक्खो सतिया बलवभावो. तथा हि ञाणविप्पयुत्तचित्तेनपि सज्झायनसम्मसनानि सम्भवन्ति.
चिरकतम्पीति अत्तना वा परेन वा कायेन चिरकतं चेतियङ्गणवत्तादिमहावत्तप्पटिपत्तिपूरणं. चिरभासितम्पीति अत्तना वा परेन वा वाचाय चिरभासितं सक्कच्चं उद्दिसनउद्दिसापनधम्मासारणधम्मदेसनाउपनिसिन्नकपरिकथाअनुमोदनीयादिवसेन पवत्तितं वचीकम्मं. सरिता अनुस्सरिताति तस्मिं कायेन चिरकते कायो नाम कायविञ्ञत्ति, चिरभासिते वाचा नाम वचीविञ्ञत्ति, तदुभयम्पि रूपं, तंसमुट्ठापका चित्तचेतसिका अरूपं. इति इमे रूपारूपधम्मा एवं उप्पज्जित्वा एवं निरुद्धाति सरति चेव अनुस्सरति च, सतिसम्बोज्झङ्गं समुट्ठापेतीति अत्थो. बोज्झङ्गसमुट्ठापिका हि सति इध अधिप्पेता. ताय सतिया एस सकिं सरणेन सरिता, पुनप्पुनं सरणेन अनुस्सरिताति वेदितब्बा.
वित्थतसुत्तवण्णना निट्ठिता.