५-१०. दट्ठब्बसुत्तादिवण्णना

१५-२०. पञ्चमे सविसयस्मिंयेवाति अत्तनो अत्तनो विसये एव. लोकियलोकुत्तरधम्मे कथेतुन्ति लोकियधम्मे लोकुत्तरधम्मे च तेन तेन पवत्तिविसेसेन कथेतुं. चतूसु सोतापत्तियङ्गेसूति सप्पुरिससंसेवो सद्धम्मस्सवनं योनिसोमनसिकारो धम्मानुधम्मप्पटिपत्तीति इमेसु चतूसु सोतापत्तिमग्गकारणेसु. कामञ्च तेसु सतिआदयोपि धम्मा इच्छितब्बाव तेहि विना तेसं असम्भवतो, तथापि चेत्थ सद्धा विसेसतो किच्चकारीति वेदितब्बा. सद्धो एव हि सप्पुरिसे पयिरुपासति, सद्धम्मं सुणाति, योनिसो च अनिच्चादितो मनसि करोति, अरियमग्गस्स च अनुधम्मं पटिपज्जति, तस्मा वुत्तं ‘‘एत्थ सद्धाबलं दट्ठब्ब’’न्ति. इमिना नयेन सेसबलेसुपि अत्थो दट्ठब्बो.

चतूसु सम्मप्पधानेसूति चतुब्बिधसम्मप्पधानभावनाय. चतूसु सतिपट्ठानेसूतिआदीसुपि एसेव नयो. एत्थ च सोतापत्तिअङ्गेसु सद्धा विय, सम्मप्पधानभावनाय वीरियं विय च सतिपट्ठानभावनाय यस्मा ‘‘विनेय्य लोके अभिज्झादोमनस्स’’न्ति (दी. नि. २.३७३; म. नि. १.१०६) वचनतो पुब्बभागे किच्चतो सति अधिका इच्छितब्बा, एवं समाधिकम्मिकस्स समाधि, ‘‘अरियसच्चभावना पञ्ञाभावना’’ति कत्वा तत्थ पञ्ञा पुब्बभागे अधिका इच्छितब्बाति पाकटोयमत्थो. अधिगमक्खणे पन समाधिपञ्ञानं विय सब्बेसम्पि बलानं सद्धादीनं समताव इच्छितब्बा. तथा हि ‘‘एत्थ सद्धाबल’’न्तिआदिना तत्थ तत्थ एत्थग्गहणं कतं.

इदानि सद्धादीनं तत्थ तत्थ अतिरेककिच्चतं उपमाय विभावेतुं ‘‘यथा ही’’तिआदि वुत्तं. तत्रिदं उपमा संसन्दनं – राजपञ्चमसहाया विय विमुत्तिपरिपाचकानि पञ्च बलानि. नेसं कीळनत्थं एकज्झं वीथिओतरणं विय बलानं एकज्झं विपस्सनावीथिओतरणं, सहायेसु पठमादीनं यथासकं गेहेव विचारणा विय सद्धादीनं सोतापत्तिअङ्गादीनि पत्वा पुब्बङ्गमता. सहायेसु इतरेसं तत्थ तत्थ तुण्हीभावो विय सेसबलानं तत्थ तत्थ तदन्वयता, तस्स पुब्बङ्गमस्स बलस्स किच्चानुगता. न हि तदा तेसं ससम्भारपथवीआदीसु आपादीनं विय किच्चं पाकटं होति, सद्धादीनंयेव पन किच्चं विभूतं हुत्वा तिट्ठति पुरेतरं तथापच्चयेहि चित्तसन्तानस्स अभिसङ्खतत्ता. एत्थ च विपस्सनाकम्मिकस्स भावना विसेसतो पञ्ञुत्तराति दस्सनत्थं राजानं निदस्सनं कत्वा पञ्ञिन्द्रियं वुत्तं. छट्ठादीनि सुविञ्ञेय्यानि.

दट्ठब्बसुत्तादिवण्णना निट्ठिता.

बलवग्गवण्णना निट्ठिता.