६-८. विनिबन्धसुत्तादिवण्णना

२०६-८. छट्ठे पवत्तितुं अप्पदानवसेन कुसलचित्तं विनिबन्धन्तीति चेतसोविनिबन्धा. तं पन विनिबन्धन्ता मुट्ठिग्गाहं गण्हन्ता विय होन्तीति आह ‘‘चित्तं विनिबन्धित्वा’’तिआदि. कामगिद्धो पुग्गलो वत्थुकामेपि किलेसकामेपि अस्सादेति अभिनन्दतीति वुत्तं ‘‘वत्थुकामेपि किलेसकामेपी’’ति. अत्तनो कायेति अत्तनो नामकाये, अत्तभावे वा. बहिद्धारूपेति परेसं काये अनिन्द्रियबद्धरूपे च. उदरं अवदिहति उपचिनोति पूरेतीति उदरावदेहकं. सेय्यसुखन्ति सेय्याय सयनवसेन उप्पज्जनकसुखं. सम्परिवत्तकन्ति सम्परिवत्तित्वा. पणिधायाति तण्हावसेनेव पणिदहित्वा. इति पञ्चविधोपि लोभविसेसो एव ‘‘चेतोविनिबन्धो’’ति वुत्तोति वेदितब्बो. सत्तमट्ठमेसु नत्थि वत्तब्बं.

विनिबन्धसुत्तादिवण्णना निट्ठिता.