९-१०. गीतस्सरसुत्तादिवण्णना

२०९-२१०. नवमे आयतको नाम गीतस्सरो तं तं वत्तं भिन्दित्वा अक्खरानि विनासेत्वा पवत्तोति आह ‘‘आयतकेना’’तिआदि. धम्मेहि सुत्तवत्तं नाम अत्थि, गाथावत्तं नाम अत्थि, तं विनासेत्वा अतिदीघं कातुं न वट्टति. धम्मञ्हि भासन्तेन चतुरस्सेन वत्तेन परिमण्डलानि पदब्यञ्जनानि दस्सेतब्बानि. ‘‘अनुजानामि, भिक्खवे, सरभञ्ञ’’न्ति (चूळव. २४९) च वचनतो सरेन धम्मं भणितुं वट्टति. सरभञ्ञे किर तरङ्गवत्तधोतकवत्तभागग्गहकवत्तादीनि द्वत्तिंस वत्तानि अत्थि. तेसु यं इच्छति, तं कातुं लभतीति. दसमे नत्थि वत्तब्बं.

गीतस्सरसुत्तादिवण्णना निट्ठिता.

किमिलवग्गवण्णना निट्ठिता.