४. कारणपालीसुत्तवण्णना
१९४. चतुत्थे पण्डितो मञ्ञेति एत्थ मञ्ञेति इदं ‘‘मञ्ञती’’ति इमिना समानत्थं निपातपदं. तस्स इति-सद्दं आनेत्वा अत्थं दस्सेन्तो ‘‘पण्डितोति मञ्ञती’’ति आह. अनुमतिपुच्छावसेन चेतं वुत्तं. तेनेवाह ‘‘उदाहु नो’’ति. ‘‘तं किं मञ्ञति भवं पिङ्गियानी समणस्स गोतमस्स पञ्ञावेय्यत्तिय’’न्ति वुत्तमेवत्थं पुन गण्हन्तो ‘‘पण्डितो मञ्ञे’’ति आह, तस्मा वुत्तं ‘‘भवं पिङ्गियानी समणं गोतमं पण्डितोति मञ्ञति उदाहु नो’’ति, यथा ते खमेय्य, तथा नं कथेहीति अधिप्पायो. अहं को नाम, मम अविसयो एसोति दस्सेति. को चाति हेतुनिस्सक्के पच्चत्तवचनन्ति आह ‘‘कुतो चा’’ति. तथा चाह ‘‘केन कारणेन जानिस्सामी’’ति, येन कारणेन समणस्स गोतमस्स पञ्ञावेय्यत्तियं जानेय्यं, तं कारणं मयि नत्थीति अधिप्पायो. बुद्धोयेव भवेय्य अबुद्धस्स सब्बथा बुद्धञाणानुभावं जानितुं असक्कुणेय्यत्ताति. वुत्तञ्हेतं – ‘‘अप्पमत्तकं पनेतं, भिक्खवे, ओरमत्तकं सीलमत्तकं, येन पुथुज्जनो तथागतस्स वण्णं वदमानो वदेय्य (दी. नि. १.७). अत्थि, भिक्खवे, अञ्ञेव धम्मा गम्भीरा दुद्दसा दुरनुबोधा…पे… येहि तथागतस्स यथाभूतं वण्णं सम्मा वदमानो वदेय्या’’ति (दी. नि. १.२८) च. एत्थाति ‘‘सोपि नूनस्स तादिसो’’ति एतस्मिं पदे.
पसत्थप्पसत्थोति पसत्थेहि पासंसेहि अत्तनो गुणेहेव सो पसत्थो, न तस्स कित्तिना, पसंसासभावेनेव पासंसोति अत्थो. तेनाह ‘‘सब्बगुणान’’न्तिआदि. मणिरतनन्ति चक्कवत्तिनो मणिरतनं.
सदेवके पासंसानम्पि पासंसोति दस्सेतुं ‘‘पसत्थेहि वा’’ति दुतियविकप्पो गहितो. अरणीयतो अत्थो, सो एव वसतीति वसोति अत्थवसो. तस्स तस्स पयोगस्स आनिसंसभूतं फलन्ति आह ‘‘अत्थवसन्ति अत्थानिसंस’’न्ति. अत्थो वा फलं तदधीनवुत्तिताय वसो एतस्साति अत्थवसो, कारणं.
खुद्दकमधूति खुद्दकमक्खिकाहि कतदण्डकमधु. अनेळकन्ति निद्दोसं अपगतमक्खिकण्डकं.
उदाहरीयति उब्बेगपीतिवसेनाति उदानं, तथा वा उदाहरणं उदानं. तेनाह ‘‘उदाहारं उदाहरी’’ति. यथा पन तं वचनं उदानन्ति वुच्चति, तं दस्सेतुं ‘‘यथा ही’’तिआदि वुत्तं. सेसं सुविञ्ञेय्यमेव.
कारणपालीसुत्तवण्णना निट्ठिता.