५. पिङ्गियानीसुत्तवण्णना
१९५. पञ्चमे सब्बसङ्गाहिकन्ति सरीरगतस्स चेव वत्थालङ्कारगतस्स चाति सब्बस्स नीलभावस्स सङ्गाहकवचनं. तस्सेवाति नीलादिसब्बसङ्गाहिकवसेन वुत्तअत्थस्सेव. विभागदस्सनन्ति पभेददस्सनं. यथा ते लिच्छविराजानो अपीतादिवण्णा एव केचि केचि विलेपनवसेन पीतादिवण्णा खायिंसु, एवं अनीलादिवण्णा एव केचि विलेपनवसेन नीलादिवण्णा खायिंसु. ते किर सुवण्णविचित्तेहि मणिओभासेहि एकनीला विय खायन्ति.
कोकनदन्ति वा पदुमविसेसनं यथा ‘‘कोकासक’’न्ति. तं किर बहुपत्तं वण्णसम्पन्नं अतिविय सुगन्धञ्च होति. अयञ्हेत्थ अत्थो – यथा कोकनदसङ्खातं पदुमं पातो सूरियुग्गमनवेलाय फुल्लं विकसितं अवीतगन्धं सिया विरोचमानं, एवं सरीरगन्धेन गुणगन्धेन च सुगन्धं, सरदकाले अन्तलिक्खे आदिच्चमिव अत्तनो तेजसा तपन्तं, अङ्गेहि निच्छरन्तजुतिताय अङ्गीरसं सम्बुद्धं पस्साति.
पिङ्गियानीसुत्तवण्णना निट्ठिता.