२-६. वित्थतसुत्तादिवण्णना
२-६. दुतिये हिरीयतीति लज्जति विरज्जति. यस्मा हिरी पापजिगुच्छनलक्खणा, तस्मा ‘‘जिगुच्छतीति अत्थो’’ति वुत्तं. ओत्तप्पतीति उत्रसति. पापुत्रासलक्खणञ्हि ओत्तप्पं.
पग्गहितवीरियोति सङ्कोचं अनापन्नवीरियो. तेनाह ‘‘अनोसक्कितमानसो’’ति. पहानत्थायाति समुच्छिन्नत्थाय. कुसलानं धम्मानं उपसम्पदा नाम समधिगमो एवाति आह ‘‘पटिलाभत्थाया’’ति.
गतिअत्था धातुसद्दा बुद्धिअत्था होन्तीति आह ‘‘उदयञ्च वयञ्च पटिविज्झितुं समत्थाया’’ति. मिस्सकनयेनायं देसना गताति आह ‘‘विक्खम्भनवसेन च समुच्छेदवसेन चा’’ति. तेनाह ‘‘विपस्सनापञ्ञाय चेव मग्गपञ्ञाय चा’’ति. विपस्सनापञ्ञाय विक्खम्भनकिरियतो सा च खो पदेसिकाति निप्पदेसिकं कत्वा दस्सेतुं ‘‘मग्गपञ्ञाय पटिलाभसंवत्तनतो’’ति वुत्तं. दुक्खक्खयगामिनिभावेपि एसेव नयो. सम्माति याथावतो. अकुप्पधम्मताय हि मग्गपञ्ञाय खेपितं खेपितमेव, नास्स पुन खेपनकिच्चं अत्थीति उपायेन ञायेन सा पवत्ततीति आह ‘‘हेतुना नयेना’’ति. ततियादीसु नत्थि वत्तब्बं.
वित्थतसुत्तादिवण्णना निट्ठिता.