७-९. चोदनासुत्तादिवण्णना
१६७-९. सत्तमे वत्थुसन्दस्सनाति यस्मिं वत्थुस्मिं आपत्ति, तस्स सरूपतो दस्सनं. आपत्तिसन्दस्सनाति यं आपत्तिं सो आपन्नो, तस्सा दस्सनं. संवासप्पटिक्खेपोति उपोसथप्पवारणादिसंवासस्स पटिक्खिपनं अकरणं. सामीचिप्पटिक्खेपोति अभिवादनादिसामीचिकिरियाय अकरणं. चोदयमानेनाति चोदेन्तेन. चुदितकस्स कालोति चुदितकस्स चोदेतब्बकालो. पुग्गलन्ति चोदेतब्बपुग्गलं. उपपरिक्खित्वाति ‘‘अयं चुदितकलक्खणे तिट्ठति, न तिट्ठती’’ति वीमंसित्वा. अयसं आरोपेतीति ‘‘इमे मं अभूतेन अब्भाचिक्खन्ता अयसं ब्यसनं उप्पादेन्ती’’ति भिक्खूनं अयसं उप्पादेति. अट्ठमनवमानि उत्तानत्थानेव.
चोदनासुत्तादिवण्णना निट्ठिता.