४. यस्संदिसंसुत्तवण्णना
१३४. चतुत्थे ‘‘उभतो सुजातो’’ति एत्तके वुत्ते येहि केहिचि द्वीहि भागेहि सुजातता पञ्ञापेय्य, सुजात-सद्दो च ‘‘सुजातो चारुदस्सनो’’तिआदीसु (म. नि. २.३९९; सु. नि. ५५३; थेरगा. ८१८) आरोहसम्पत्तिपरियायोति जातिवसेन सुजाततं विभावेतुं ‘‘मातितो च पितितो चा’’ति वुत्तं. अनोरसपुत्तवसेनपि लोके मातुपितुसमञ्ञा दिस्सति, इध पन सा ओरसपुत्तवसेन इच्छिताति दस्सेतुं ‘‘संसुद्धग्गहणिको’’ति वुत्तं. गब्भं गण्हाति धारेतीति गहणी, गब्भासयसञ्ञितो मातुकुच्छिप्पदेसो. तेनाह ‘‘संसुद्धाय मातुकुच्छिया समन्नागतो’’ति. यथाभुत्तस्स आहारस्स विपाचनवसेन गण्हनतो अछड्डनतो गहणी, तेजोधातु. पिता च माता च पितरो. पितूनं पितरो पितामहा. तेसं युगो पितामहयुगो, तस्मा याव सत्तमा पितामहयुगा, पितामहद्वन्दाति एवमेत्थ अत्थो दट्ठब्बो. एवञ्हि पितामहग्गहणेनेव मातामहोपि गहितोति सो अट्ठकथायं विसुं न उद्धतो. युग-सद्दो चेत्थ एकसेसनयेन दट्ठब्बो ‘‘युगो च युगो च युगो’’ति. एवञ्हि तत्थ तत्थ द्विन्नं गहितमेव होति. तेनाह ‘‘ततो उद्धं सब्बेपि पुब्बपुरिसा पितामहग्गहणेनेव गहिता’’ति. पुरिसग्गहणञ्चेत्थ उक्कट्ठनिद्देसवसेन कतन्ति दट्ठब्बं. एवञ्हि ‘‘मातितो’’ति पाळिवचनं समत्थितं होति.
अक्खित्तोति अप्पत्तक्खेपो. अनवक्खित्तोति सम्पत्तविवादादीसु न अवक्खित्तो न छड्डितो. जातिवादेनाति हेतुम्हि करणवचनन्ति दस्सेतुं ‘‘केन कारणेना’’तिआदि वुत्तं. एत्थ च ‘‘उभतो…पे… पितामहयुगा’’ति एतेन खत्तियस्स योनिदोसाभावो दस्सितो संसुद्धग्गहणिकभावकित्तनतो. ‘‘अक्खित्तो’’ति इमिना किरियापराधाभावो. किरियापराधेन हि सत्ता खेपं पापुणन्ति. ‘‘अनुपक्कुट्ठो’’ति इमिना अयुत्तसंसग्गाभावो. अयुत्तसंसग्गञ्हि पटिच्च सत्ता अक्कोसं लभन्ति.
अड्ढता नाम विभवसम्पन्नता, सा तं तं उपादायुपादाय वुच्चतीति आह ‘‘यो कोचि अत्तनो सन्तकेन विभवेन अड्ढो होती’’ति. तथा महद्धनतापीति तं उक्कंसगतं दस्सेतुं ‘‘महता अपरिमाणसङ्खेन धनेन समन्नागतो’’ति वुत्तं. भुञ्जितब्बतो परिभुञ्जितब्बतो विसेसतो कामा भोगा नामाति आह ‘‘पञ्चकामगुणवसेना’’ति. कोट्ठं वुच्चति धञ्ञस्स आवसनट्ठानं, कोट्ठभूतं अगारं कोट्ठागारं. तेनाह ‘‘धञ्ञेन च परिपुण्णकोट्ठागारो’’ति. एवं सारगब्भं कोसो, धञ्ञपरिट्ठपनट्ठानञ्च कोट्ठागारन्ति दस्सेत्वा इदानि ततो अञ्ञथा तं दस्सेतुं ‘‘अथ वा’’तिआदि वुत्तं. तत्थ यथा असिनो तिक्खभावपरिहारको पटिच्छदो ‘‘कोसो’’ति वुच्चति. एवं रञ्ञो तिक्खभावपरिहारं कत्वा चतुरङ्गिनी सेना कोसोति आह ‘‘चतुब्बिधो कोसो हत्थी अस्सा रथा पत्ती’’ति. वत्थकोट्ठागारग्गहणेनेव सब्बस्सपि भण्डट्ठपनट्ठानस्स गहितत्ता ‘‘तिविधं कोट्ठागार’’न्ति वुत्तं.
यस्सा पञ्ञाय वसेन पुरिसो ‘‘पण्डितो’’ति वुच्चति, तं पण्डिच्चन्ति आह ‘‘पण्डिच्चेन समन्नागतो’’ति. तंतंइतिकत्तब्बतासु छेकभावो ब्यत्तभावो वेय्यत्तियं. सम्मोहं हिंसति विधमतीति मेधा, सा एतस्स अत्थीति मेधावी. ठाने ठाने उप्पत्ति एतिस्सा अत्थीति ठानुप्पत्ति, ठानसो उप्पज्जनपञ्ञा. वड्ढिअत्थेति वड्ढिसङ्खाते अत्थे.
यस्संदिसंसुत्तवण्णना निट्ठिता.