५-९. पत्थनासुत्तादिवण्णना
१३५-९. पञ्चमे हत्थिस्मिन्ति हत्थिसिप्पे. हत्थीति हि हत्थिविसयत्ता हत्थिसन्निस्सितत्ता च हत्थिसिप्पं गहितं. सेसपदेसुपि एसेव नयो. वयतीति वयो, सोभनेसु कत्थचि अपक्खलन्तो अवित्थायन्तो तानि सन्धारेतुं सक्कोतीति अत्थो. न वयो अवयो, तानि अत्थतो सद्दतो च सन्धारेतुं न सक्कोति. अवयो न होतीति अनवयो. द्वे पटिसेधा पकतिं गमेन्तीति आह ‘‘अनवयोति समत्थो’’ति. छट्ठादीनि उत्तानत्थानेव.
पत्थनासुत्तादिवण्णना निट्ठिता.