२. दुतियचक्कानुवत्तनसुत्तवण्णना
१३२. दुतिये चक्कवत्तिवत्तन्ति दसविधं, द्वादसविधं वा चक्कवत्तिभावावहं वत्तं. तत्थ अन्तोजनस्मिं बलकाये धम्मिकायेव रक्खावरणगुत्तिया संविधानं, खत्तियेसु, अनुयन्तेसु, ब्राह्मणगहपतिकेसु, नेगमजानपदेसु, समणब्राह्मणेसु, मिगपक्खीसु, अधम्मिकपटिक्खेपो, अधनानं धनानुप्पदानं, समणब्राह्मणे उपसङ्कमित्वा पञ्हपुच्छनन्ति इदं दसविधं चक्कवत्तिवत्तं. इदमेव च गहपतिके पक्खिजाते च विसुं कत्वा गहणवसेन द्वादसविधं. पितरा पवत्तितमेव अनुप्पवत्तेतीति दसविधं वा द्वादसविधं वा चक्कवत्तिवत्तं पूरेत्वा निसिन्नस्स पुत्तस्स अञ्ञं पातुभवति, सो तं पवत्तेति. रतनमयत्ता पन सदिसट्ठेन तदेवेतन्ति कत्वा ‘‘पितरा पवत्तित’’न्ति वुत्तं. यस्मा वा सो ‘‘अप्पोस्सुक्को, त्वं देव, होहि, अहमनुसासिस्सामी’’ति आह. तस्मा पितरा पवत्तितं आणाचक्कं अनुप्पवत्तेति नामाति एवमेत्थ अत्थो दट्ठब्बो. यञ्हि अत्तनो पुञ्ञानुभावसिद्धं चक्करतनं, तं निप्परियायतो तेन पवत्तितं नाम, नेतरन्ति पठमनयो वुत्तो. यस्मा पवत्तितस्सेव अनुवत्तनं, पठमनयो च तंसदिसे तब्बोहारवसेन वुत्तोति तं अनादियित्वा दुतियनयो वुत्तो.
दुतियचक्कानुवत्तनसुत्तवण्णना निट्ठिता.