१-४. पत्तकम्मसुत्तादिवण्णना
६१-६४. दुतियस्स पठमे ये अनिट्ठा न होन्ति, ते इट्ठाति अधिप्पेताति आह ‘‘अनिट्ठपटिक्खेपेन इट्ठा’’ति. इट्ठाति च परियिट्ठा वा होतु मा वा, इट्ठारम्मणभूताति अत्थो. गवेसितम्पि हि इट्ठन्ति वुच्चति, तं इध नाधिप्पेतं. मनेति मनस्मिं. कन्ताति वा कमनीया, कामेतब्बाति अत्थो. मनं अप्पायन्तीति इट्ठभावेन मनं वड्ढेन्ति. कम्मसाधनो इध भोग-सद्दोति आह ‘‘भोगाति भुञ्जितब्बा’’तिआदि. धम्मूपघातं कत्वा कुसलधम्मं विनोदेत्वा. उपनिज्झायीयन्तीति उपज्झायाति आह ‘‘सुखदुक्खेसु उपनिज्झायितब्बत्ता’’ति, सुखदुक्खेसु उप्पन्नेसु अनुस्सरितब्बत्ताति अत्थो. सन्दिट्ठसम्भत्तेहीति एत्थ तत्थ तत्थ सङ्गम्म दिट्ठमत्ता नातिदळ्हमित्ता सन्दिट्ठा, सुट्ठु भत्ता सिनेहवन्तो दळ्हमित्ता सम्भत्ता.
विसमलोभन्ति बलवलोभं. सुखितन्ति सञ्जातसुखं. पीणितन्ति धातं सुहितं. तथाभूतो पन यस्मा बलसम्पन्नो होति, तस्मा ‘‘बलसम्पन्नं करोती’’ति वुत्तं.
सोभने कायिकवाचसिककम्मे रतोति सूरतो उकारस्स दीघं कत्वा, तस्स भावो सोरच्चं, कायिकवाचसिको अवीतिक्कमो. सो पन अत्थतो सुसीलभावोति आह ‘‘खन्तिसोरच्चे निविट्ठाति अधिवासनक्खन्तियञ्च सुसीलताय च निविट्ठा’’ति. एकमत्तानन्ति एकं चित्तन्ति अत्थो. रागादीनञ्हि पुब्बभागियं दमनादि पच्चेकं इच्छितब्बं, न मग्गक्खणे विय एकज्झं पटिसङ्खानमुखेन पजहनतो. एकमत्तानन्ति वा विवेकवसेन एकं एकाकिनं अत्तानं. तेनेवाह ‘‘एकं अत्तनोव अत्तभाव’’न्तिआदि. उपरूपरिभूमीसूति छकामसग्गसङ्खातासु उपरूपरिकामभूमीसु. कम्मस्स फलं अग्गं नाम. तं पनेत्थ उच्चगामीति आह ‘‘उद्धमग्गमस्सा’’ति. सुवग्गे नियुत्ता, सुवग्गप्पयोजनाति वा सोवग्गिका. दसन्नं विसेसानन्ति दिब्बआयुवण्णयससुखआधिपतेय्यानञ्चेव इट्ठरूपादीनञ्च फलविसेसानं. वण्णग्गहणेन चेत्थ सको अत्तभाववण्णो गहितो, रूपग्गहणेन बहिद्धा रूपारम्मणं. दुतियततियचतुत्थानि उत्तानत्थानेव.
पत्तकम्मसुत्तादिवण्णना निट्ठिता.