३. सीहसुत्तवण्णना

३३. ततिये सीहोति परिस्सयसहनतो पटिपक्खहननतो च ‘‘सीहो’’ति लद्धनामो मिगाधिपति. चत्तारोति समानेपि सीहजातिभावे वण्णविसेसादिसिद्धेन विसेसेन चत्तारो सीहा. ते इदानि नामतो वण्णतो आहारतो दस्सेत्वा इधाधिप्पेतसीहं नानप्पकारतो विभावेतुं ‘‘तिणसीहो’’तिआदि आरद्धं. तिणभक्खो सीहो तिणसीहो पुरिमपदे उत्तरपदलोपेन यथा ‘‘साकपत्थिवो’’ति (पाणिनि २.१.६०). काळवण्णताय काळसीहो. तथा पण्डुसीहो. तेनाह ‘‘काळगाविसदिसो, पण्डुपलासवण्णगाविसदिसो’’ति च. रत्तकम्बलस्स विय केसरो केसरकलोमो एतस्स अत्थीति केसरी. लाखापरिकम्मकतेहि विय पादपरियन्तेहीति च योजना.

कम्मानुभावसिद्धअधिपच्चमहेसक्खताहि सब्बमिगगणस्स राजा. सुवण्णगुहतो वातिआदि ‘‘सीहस्स विहारो किरिया एवं होती’’ति कत्वा वुत्तं.

समं पतिट्ठापेत्वाति सब्बभागेहि सममेव भूमियं पतिट्ठापेत्वा. आकड्ढित्वाति पुरतो आकड्ढित्वा. अभिहरित्वाति अभिमुखं हरित्वा. सङ्घातन्ति विनासं. वीसतियट्ठिकं ठानं उसभं.

समसीहोति समजातिको समप्पभावो च सीहो. समानोस्मीति देसनामत्तं, समप्पभावताय एव न भायति. सक्कायदिट्ठिबलवतायाति ‘‘के अञ्ञे अम्हेहि उत्तरितरा, अथ खो मयमेव महाबला’’ति एवं बलातिमाननिमित्ताय अहंकारहेतुभूताय सक्कायदिट्ठिया बलवभावेन. सक्कायदिट्ठिया पहीनत्ताति निरहंकारत्ता अत्तसिनेहस्स सुट्ठु समुग्घातत्ता न भायति.

तथा तथाति सीहसदिसतादिना तेन तेन पकारेन अत्तानं कथेसीति वत्वा तमत्थं विवरित्वा दस्सेतुं ‘‘सीहोति खो’’तिआदि वुत्तं.

कतमहाभिनीहारस्स लोकनाथस्स बोधिया नियतभावप्पत्तिया एकन्तभावी बुद्धभावोति कत्वा ‘‘तीसु पासादेसु निवासकालो, मगधरञ्ञो पटिञ्ञादानकालो, पायासस्स परिभुत्तकालो’’तिआदिना अभिसम्बोधितो पुरिमावत्थापि सीहसदिसा कत्वा दस्सिता. भाविनि भूतूपचारोपि हि लोकवोहारो. विज्जाभावसामञ्ञतो द्विविज्जं इतरविज्जम्पि एकज्झं गहेत्वा पटिच्चसमुप्पादसम्मसनतो तं पुरेतरसिद्धं विय कत्वा आह ‘‘तिस्सो विज्जा सोधेत्वा’’ति. अनुलोमपटिलोमतो पवत्तञाणस्स वसेन ‘‘यमकञाणमन्थनेना’’ति वुत्तं.

तत्थ विहरन्तस्साति अजपालनिग्रोधमूले विहरन्तस्स. एकादसमे दिवसेति सत्तसत्ताहतो परं एकादसमे दिवसे. अचलपल्लङ्केति इसिपतने धम्मचक्कप्पवत्तनत्थं निसिन्नपल्लङ्के. तम्पि हि केनचि अप्पटिवत्तियं धम्मचक्कप्पवत्तनत्थं निसज्जाति कत्वा वजिरासनं विय अचलपल्लङ्कं वुच्चति. इमस्मिञ्च पन पदेति ‘‘द्वेमे, भिक्खवे, अन्ता’’तिआदिनयप्पवत्ते च इमस्मिं सद्धम्मकोट्ठासे. धम्मघोसो…पे… दससहस्सिलोकधातुं पटिच्छादेसि ‘‘सब्बत्थ ठिता सुणन्तू’’ति अधिट्ठानेन. सोळसहाकारेहीति दुक्खपरिञ्ञा, समुदयप्पहानं, निरोधसच्छिकिरिया, मग्गभावनाति एकेकस्मिं मग्गे चत्तारि चत्तारि कत्वा सोळसहि आकारेहि.

पठमेन नयेन अभिसम्बोधितो पुरिमतरावत्थापि अवस्संभाविताय गहेत्वा सीहसदिसतं दस्सेत्वा इदानि अभिसम्बुद्धावत्थासु एव सीहसदिसतं दस्सेतुं ‘‘अपरो नयो’’तिआदि आरद्धं. अट्ठहि कारणेहीति ‘‘तथा आगतोति तथागतो, तथा गतोति तथागतो, तथलक्खणं आगतोति तथागतो, तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो, तथदस्सिताय तथागतो, तथवादिताय तथागतो, तथाकारिताय तथागतो, अभिभवनट्ठेन तथागतो’’ति (दी. नि. अट्ठ. १.७; म. नि. अट्ठ. १.१२; सं. नि. अट्ठ. २.३.७८; अ. नि. अट्ठ. १.१.१७०; उदा. अट्ठ. १८; इतिवु. अट्ठ. ३८; थेरगा. अट्ठ. १.३; बु. वं. अट्ठ. १.२ निदानकथा; महानि. अट्ठ. १४; पटि. म. १.३७) एवं वुत्तेहि अट्ठहि तथागतसाधकेहि कारणेहि. यदिपि भगवा बोधिपल्लङ्के निसिन्नमत्तेव अभिसम्बुद्धो न जातो, तथापि ताय निसज्जाय निसिन्नोव पनुज्ज सब्बं परिस्सयं अभिसम्बुद्धो जातो. तथा हि तं ‘‘अपराजितपल्लङ्क’’न्ति वुच्चति, तस्मा ‘‘याव बोधिपल्लङ्का वा’’ति वत्वा तेन अपरितुस्सन्तो ‘‘याव अरहत्तमग्गञाणा वा’’ति आह.

इति सक्कायोति एत्थ इतिसद्दो निदस्सनत्थो. तेन सक्कायो सरूपतो परिमाणतो परिच्छेदतो च दस्सितोति आह ‘‘अयं सक्कायो’’तिआदि. ‘‘अयं सक्कायो’’ति इमिना पञ्चुपादानक्खन्धा सरूपतो दस्सिता. ‘‘एत्तको सक्कायो’’ति इमिना ते परिमाणतो दस्सिता. तस्स च परिमाणस्स एकन्तिकभावं दस्सेन्तेन ‘‘न इतो भिय्यो सक्कायो अत्थी’’ति वुत्तं. सभावतोति सलक्खणतो. सरसतोति सकिच्चतो. परियन्ततोति परिमाणपरियन्ततो. परिच्छेदतोति यत्तके ठाने तस्स पवत्तितस्स परिच्छिन्दनतो. परिवटुमतोति परियोसानप्पवत्तितो. सब्बेपि पञ्चुपादानक्खन्धा दस्सिता होन्ति यथावुत्तेन विभागेन. अयं सक्कायस्स समुदयो नामाति अयं आहारादिसक्कायस्स समुदयो नाम. तेनाह ‘‘एत्तावता’’तिआदि. अत्थङ्गमोति निरोधो. ‘‘आहारसमुदया आहारनिरोधा’’ति च असाधारणमेव तं गहेत्वा सेसेसु आदि-सद्देन सङ्गण्हाति.

पण्णासलक्खणपटिमण्डितन्ति पण्णासउदयवयलक्खणविभूसितं समुदयत्थङ्गमग्गहणतो. खीणासवत्ताति अनवसेसं सावसेसञ्च आसवानं परिक्खीणत्ता. अनागामीनम्पि हि भयं चित्तुत्रासञ्च न होतीति. ञाणसंवेगो भयतुपट्ठानपञ्ञा. इतरासं पन देवतानन्ति अखीणासवदेवे सन्धाय वदति. भोति धम्मालपनमत्तन्ति सभावकथनमत्तं.

चक्कन्ति सत्थु आणाचक्कं. तं पन धम्मतो आगतन्ति धम्मचक्कं. तत्थ अरियसावकानं पटिवेधधम्मतो आगतन्ति धम्मचक्कं. इतरेसं देसनाधम्मतो आगतन्ति धम्मचक्कं. दुविधेपि ञाणं पधानन्ति ञाणसीसेन वुत्तं ‘‘पटिवेधञाणम्पि देसनाञाणम्पी’’ति. इदानि तं ञाणं सरूपतो दस्सेतुं ‘‘पटिवेधञाणं नामा’’तिआदि वुत्तं. यस्मा तस्स ञाणस्स पटिविद्धत्ता भगवा तानि सट्ठि नयसहस्सानि वेनेय्यानं दस्सेतुं समत्थो अहोसि, तस्मा तानि सट्ठि नयसहस्सानि तेन ञाणेन सद्धिंयेव सिद्धानीति कत्वा दस्सेन्तो ‘‘सट्ठिया च नयसहस्सेहि पटिविज्झी’’ति आह. तिपरिवट्टन्ति ‘‘इदं दुक्ख’’न्ति च ‘‘परिञ्ञेय्य’’न्ति च ‘‘परिञ्ञात’’न्ति च एवं तिपरिवट्टं, तंयेव द्वादसाकारं. तन्ति देसनाञाणं. एस भगवा. अप्पटिपुग्गलोति पटिनिधिभूतपुग्गलरहितो. एकसदिसस्साति निब्बिकारस्स.

सीहसुत्तवण्णना निट्ठिता.