३. लोकसुत्तवण्णना

२३. ततिये लोकोति लुज्जनपलुज्जनट्ठेन लोको. अत्थतो पुरिमस्मिं अरियसच्चद्वयं, इध पन दुक्खं अरियसच्चं वेदितब्बं. तेनाह ‘‘लोकोति दुक्खसच्च’’न्ति. विसंयुत्तोति विसंसट्ठो न पटिबद्धो, सब्बेसं संयोजनानं सम्मदेव समुच्छिन्नत्ता ततो विप्पमुत्तोति अत्थो. लोकसमुदयोति सुत्तन्तनयेन तण्हा, अभिधम्मनयेन पन अभिसङ्खारेहि सद्धिं दियड्ढकिलेससहस्सं. लोकनिरोधोति निब्बानं. सच्छिकतोति अत्तपच्चक्खो कतो. लोकनिरोधगामिनी पटिपदाति सीलादिक्खन्धत्तयसङ्गहो अरियो अट्ठङ्गिको मग्गो. सो हि लोकनिरोधं निब्बानं गच्छति अधिगच्छति, तदत्थं अरियेहि पटिपज्जीयति चाति लोकनिरोधगामिनी पटिपदाति वुच्चति.

एत्तावता तथानि अभिसम्बुद्धो याथावतो गतोति तथागतोति अयमत्थो दस्सितो होति. चत्तारि हि अरियसच्चानि तथानि नाम. यथाह –

‘‘चत्तारिमानि, भिक्खवे, तथानि अवितथानि अनञ्ञथानि. कतमानि चत्तारि? इदं दुक्खन्ति, भिक्खवे, तथमेतं अवितथमेतं अनञ्ञथमेत’’न्ति (सं. नि. ५.१०९०; पटि. म. २.८) वित्थारो.

अपिच तथाय गतोति तथागतो, गतोति च अवगतो अतीतो पत्तो पटिपन्नोति अत्थो. इदं वुत्तं होति – यस्मा भगवा सकललोकं तीरणपरिञ्ञाय तथाय अविपरीताय गतो अवगतो, तस्मा लोको तथागतेन अभिसम्बुद्धोति तथागतो. लोकसमुदयं पहानपरिञ्ञाय तथाय गतो अतीतोति तथागतो. लोकनिरोधं सच्छिकिरियाय तथाय गतो पत्तोति तथागतो. लोकनिरोधगामिनिं पटिपदं तथं अविपरीतं गतो पटिपन्नोति तथागतोति. एवं इमिस्सा पाळिया तथागतभावदीपनवसेन अत्थो वेदितब्बो.

इति भगवा चतुसच्चाभिसम्बोधवसेन अत्तनो तथागतभावं पकासेत्वा इदानि तत्थ दिट्ठादिअभिसम्बोधवसेनपि तं दस्सेतुं ‘‘यं, भिक्खवे’’तिआदिमाह. अट्ठकथायं पन ‘‘चतूहि सच्चेहि अत्तनो बुद्धभावं कथेत्वा’’ति वुत्तं, तं तथागतसद्दबुद्धसद्दानं अत्थतो निन्नानाकरणतं दस्सेतुं वुत्तं. तथा चेव हि पाळि पवत्ताति. दिट्ठन्ति रूपायतनं दट्ठब्बतो. तेन यं दिट्ठं यं दिस्सति, यं दक्खति, यं समवाये पस्सेय्य, तं सब्बं दिट्ठन्तेव गहितं कालविसेसस्स अनामट्ठभावतो यथा ‘‘दुद्ध’’न्ति दस्सेति. सुतन्तिआदीसुपि एसेव नयो. सुतन्ति सद्दायतनं सोतब्बतो. मुतन्ति सनिस्सये इन्द्रिये निस्सयं मुञ्चित्वा पापुणित्वा गहेतब्बं. तेनाह ‘‘पत्वा गहेतब्बतो’’ति. विञ्ञातन्ति विजानितब्बं. तं पन दिट्ठादिविनिमुत्तं विञ्ञेय्यन्ति आह ‘‘सुखदुक्खादि धम्मारम्मण’’न्ति. पत्तन्ति यथा तथा पत्वा हत्थगतं, अधिगतन्ति अत्थो. तेनाह ‘‘परियेसित्वा वा अपरियेसित्वा वा’’ति. परियेसितन्ति पत्तिया अत्थं परियिट्ठं. तं पन पत्तं वा सिया अप्पत्तं वा, उभयथापि परियेसितमेवाति आह ‘‘पत्तं वा अप्पत्तं वा’’ति. द्वयेनपि द्विप्पकारम्पि पत्तं द्विप्पकारम्पि परियेसितं तेन तेन पकारेन तथागतेन अभिसम्बुद्धन्ति दस्सेति. चित्तेन अनुसञ्चरितन्ति ते पन अपापेत्वा चित्तेनेव अनु अनु सञ्चरितं, विपरितक्कितन्ति अत्थो.

पीतकन्तिआदीति आदिसद्देन लोहितओदातादिसब्बं रूपारम्मणभागं सङ्गण्हाति. सुमनोति रागवसेन लोभवसेन सद्धादिवसेन वा सुमनो. दुम्मनोति ब्यापादवितक्कवसेन वा विहिंसावितक्कवसेन वा दुम्मनो. मज्झत्तोति अञ्ञाणवसेन, ञाणवसेन वा मज्झत्तो. एस नयो सब्बत्थ. तत्थ आदिसद्देन सङ्खसद्दो, पणवसद्दो, पत्तगन्धो, पुप्फगन्धो, पुप्फरसो, फलरसो, उपादिन्नं, अनुपादिन्नं, मज्झत्तवेदना कुसलकम्मं अकुसलकम्मन्ति एवमादीनं सङ्गहो दट्ठब्बो. अप्पत्तन्ति ञाणेन असम्पत्तं, अविदितन्ति अत्थो. तेनाह ‘‘ञाणेन असच्छिकत’’न्ति. लोकेन गतन्ति लोकेन ञातं. तथेव गतत्ताति तथेव ञातत्ता अभिसम्बुद्धत्ता, गतसद्देन एकत्तं बुद्धिअत्थन्ति अत्थो. गतिअत्थो हि धातवो बुद्धिअत्था भवन्तीति अक्खरचिन्तका.

यञ्च, भिक्खवे, रतिं तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झतीति यस्सञ्च विसाखपुण्णमाय रत्तियं तथाआगतत्तादिअत्थेन तथागतो भगवा बोधिमण्डे अपराजितपल्लङ्के निसिन्नो तिण्णं मारानं मत्थकं मद्दित्वा उत्तरितराभावतो अनुत्तरं सम्मासम्बोधिं आसवक्खयञाणेन सद्धिं सब्बञ्ञुतञ्ञाणं अधिगच्छति. यञ्च रत्तिं अनुपादिसेसाय निब्बानधातुया परिनिब्बायतीति यस्सञ्च विसाखपुण्णमाय रत्तियंयेव कुसिनारायं उपवत्तने मल्लानं सालवने यमकसालानमन्तरे अनुपादिसेसाय निब्बानधातुया परिनिब्बायति. यं एतस्मिं अन्तरेति इमासं द्विन्नं सउपादिसेसअनुपादिसेसनिब्बानधातूनं मज्झे पञ्चचत्तालीसवस्सपरिमाणकाले पठमबोधियम्पि मज्झिमबोधियम्पि पच्छिमबोधियम्पि यं सुत्तगेय्यादिप्पभेदं धम्मं भासति निदस्सनवसेन, लपति उद्दिसनवसेन, निद्दिसति परिनिद्दिसनवसेन. सब्बं तं तथेव होतीति तं एत्थन्तरे देसितं सब्बं सुत्तगेय्यादिनवङ्गं बुद्धवचनं अत्थतो ब्यञ्जनतो च अनूनं अनधिकं सब्बाकारपरिपुण्णं रागमदनिम्मदनं दोसमदनिम्मदनं मोहमदनिम्मदनं, नत्थि तत्थ वालग्गमत्तम्पि अवक्खलितं, एकमुद्दिकाय लञ्छितं विय एकाय नाळिया मितं विय एकतुलाय तुलितं विय च तं तथेव होति यस्सत्थाय भासितं, एकन्तेनेव तस्स साधनतो, नो अञ्ञथा, तस्मा तथं अवितथं अनञ्ञथं. एतेन तथावादिताय तथागतोति दस्सेति. गदअत्थो अयं गतसद्दो द-कारस्स त-कारं कत्वा, तस्मा तथं गदतीति तथागतोति अत्थो. अथ वा आगदनं आगदो, वचनन्ति अत्थो. ततो अविपरीतो आगदो अस्साति द-कारस्स त-कारं कत्वा तथागतोति एवमेत्थ पदसिद्धि वेदितब्बा.

यथावादीति ये धम्मे भगवा ‘‘इमे धम्मा अकुसला सावज्जा विञ्ञुगरहिता समत्ता समादिन्ना अहिताय दुक्खाय संवत्तन्ती’’ति परेसं धम्मं देसेन्तो वदति, ते धम्मे एकन्तेनेव सयं पहासि. ये पन धम्मे भगवा – ‘‘इमे धम्मा कुसला अनवज्जा विञ्ञुप्पसत्था समत्ता समादिन्ना हिताय सुखाय संवत्तन्ती’’ति वदति, ते धम्मे एकन्तेनेव सयं उपसम्पज्ज विहरति, तस्मा यथावादी भगवा तथाकारीति वेदितब्बो. तथा सम्मदेव सीलादिपरिपूरणवसेन सम्मापटिपदायं यथाकारी भगवा, तथेव धम्मदेसनाय परेसं तत्थ पतिट्ठापनवसेन तथावादी. भगवतो हि वाचाय कायो अनुलोमेति, कायस्सपि वाचा, तस्मा यथावादी तथाकारी, यथाकारी तथावादी च होति. एवंभूतस्स च यथा वाचा, कायोपि तथा गतो पवत्तो. यथा च कायो, वाचापि तथा गता पवत्ताति अत्थो.

अभिभू अनभिभूतोति उपरि भवग्गं, हेट्ठा अवीचिनिरयं परियन्तं कत्वा तिरियं अपरिमाणासु लोकधातूसु भगवा सब्बसत्ते अभिभवति सीलेनपि समाधिनापि पञ्ञायपि विमुत्तियापि, न तस्स तुला वा पमाणं वा अत्थि. असमो असमसमो अप्पटिमो अप्पटिभागो अप्पटिपुग्गलो अतुलो अप्पमेय्यो अनुत्तरो धम्मराजा देवदेवो सक्कानं अतिसक्को ब्रह्मानं अतिब्रह्मा, ततो एव अयं न केनचि अभिभूतो. दक्खतीति सब्बं पस्सति. विसेसवचनिच्छायपि अभावतो अनवसेसविसयो दससद्दो. तेन यं किञ्चि नेय्यं नाम, सब्बं तं हत्थतले आमलकं विय पस्सतीति दीपेति. अविपरीतं आसयादिअवबोधेन हितूपसंहारादिना च सत्ते, भावञ्ञत्थत्तूपनयवसेन सङ्खारे, सब्बाकारेन सुचिण्णवसिताय समापत्तियो, चित्तञ्च वसे वत्तेतीति वसवत्तीति एवमेत्थ अत्थो दट्ठब्बो.

विसंयुत्तोति चतूहि योगेहि विसंयुत्तो. तेनाह ‘‘चतुन्नं योगानं पहानेन विसंयुत्तो’’ति. तण्हादिट्ठिउपयेहि विरहितोति सब्बस्मिम्पि लोके तण्हादिट्ठिसङ्खातेहि उपयेहि विरहितो.

अभिभवित्वा ठितोति तब्बिसयकिलेसप्पहानेन अभिभुय्य अतिक्कमित्वा ठितो. चत्तारोपि गन्थे मोचेत्वा ठितोति सब्बे अभिज्झाकायगन्थादिके सकसन्तानतो मोचेत्वा ठितो. वेनेय्यसन्ताने वा अत्तनो देसनाविलासेन तेसं पमोचनोति सब्बगन्थप्पमोचनो. फुट्ठस्स परमा सन्तीति अस्स अनेन खीणासवेन बुद्धेन परमा सन्ति ञाणफुसनेन फुट्ठाति एवमेत्थ सम्बन्धो वेदितब्बो. तेनाह ‘‘फुट्ठस्सा’’तिआदि. निब्बाने कुतोचि भयं नत्थीति कुतोचि भयकारणतो निब्बाने भयं नत्थि असङ्खतभावेन सब्बसो खेमत्ता. तेनाह भगवा – ‘‘खेमञ्च वो, भिक्खवे, धम्मं देसेस्सामि खेमगामिनिञ्च पटिपद’’न्तिआदि (सं. नि. ४.३७९-४०८). निब्बानप्पत्तस्स वा कुतोचि भयं नत्थीति निब्बानं अकुतोभयन्ति एवमेत्थ अत्थो दट्ठब्बो, न कुतोचि भयं एत्थ एतस्मिं अधिगतेति अकुतोभयं, निब्बानन्ति एवमेत्थ निब्बचनञ्च दट्ठब्बं.

अनीघो निद्दुक्खो. सब्बकम्मक्खयं पत्तोति सब्बेसं कम्मानं खयं परियोसानं अच्चन्तभावं पत्तो. उपधी सम्मदेव खीयन्ति एत्थाति उपधिसङ्खयो, निब्बानन्ति आह ‘‘उपधिसङ्खयसङ्खाते निब्बाने’’ति. चक्कन्ति धम्मचक्कं. पवत्तयीति तेपरिवट्टं द्वादसाकारं पवत्तेसि. महन्तेहि सीलादिगुणेहि समन्नागतत्ता महन्तं. वीतसारदन्ति चतुवेसारज्जयोगेन वीतसारदं. सेसं उत्तानमेव.

लोकसुत्तवण्णना निट्ठिता.