२.दुतियउरुवेलसुत्तवण्णना

२२. दुतिये हुहुङ्कजातिकेनाति सो किर दिट्ठमङ्गलिको मानवसेन कोधवसेन च ‘‘हुहु’’न्ति करोन्तो विचरति, तस्मा हुहुङ्कजातिकोति वुच्चति. ‘‘हुहुक्कजातिको’’तिपि पठन्ति, तेन सद्धिं आगताति अत्थो. जराजिण्णाति जराय खण्डदन्तपलितकेसादिभावं आपादिता. वयोवुद्धाति अङ्गपच्चङ्गानं वुद्धिमरियादप्पत्ता. जातिमहल्लकाति उपपत्तिया महल्लकभावेन समन्नागता. महत्तं लन्ति गण्हन्तीति महल्लका, जातिया महल्लका, न विभवादिनाति जातिमहल्लका. वयोअनुप्पत्ताति पच्छिमवयं सम्पत्ता, पच्छिमवयो नाम वस्ससतस्स पच्छिमो ततियो भागो. जिण्णाति वा पोराणा, चिरकालप्पवत्तकुलन्वयाति वुत्तं होति. वुद्धाति सीलाचारादिगुणवुद्धियुत्ता. महल्लकाति विभवमहन्तताय समन्नागता. महद्धनाति महाभोगा. अद्धगताति मग्गप्पटिपन्ना ब्राह्मणानं वतचरियादिमरियादं अवीतिक्कम्म चरमाना. वयोअनुप्पत्ताति जातिवुद्धभावं अन्तिमवयं अनुप्पत्ता. सुतं नेतन्ति एत्थ सुतं नो एतन्ति पदच्छेदो. नोति च करणत्थे सामिवचनं. तेनाह ‘‘अम्हेहि सुत’’न्ति.

अकालेति अयुत्तकाले. असभावं वदतीति यं नत्थि, तं वदति. अनत्थं वदतीति अकारणनिस्सितं वदति. अकारणनिस्सितन्ति च निप्फलन्ति अत्थो. फलञ्हि कारणनिस्सितं. अकारणनिस्सितता च तदविनाभावतो अकारणे निस्सितं, निप्फलं सम्फन्ति वुत्तं होति. अविनयं वदतीति न संवरविनयप्पटिसंयुत्तं वदति, अत्तनो सुणन्तस्स च न संवरविनयावहं वदतीति वुत्तं होति. न हदये निधेतब्बयुत्तकन्ति अहितसंहितत्ता चित्तं अनुप्पवेसेत्वा निधेतुं अयुत्तं. कथेतुं अयुत्तकालेनाति धम्मं कथेन्तेन यो अत्थो यस्मिं काले वत्तब्बो, ततो पुब्बे पच्छा च तस्स अकालो, तस्मिं अयुत्तकाले वत्ता. अपदेसरहितन्ति सुत्तापदेसरहितं. सापदेसं सकारणं कत्वा न कथेतीति ‘‘भगवता असुके सुत्ते एवं वुत्त’’न्ति एवं सापदेसं कारणसहितं कत्वा न कथेति.

परियन्तरहितन्ति परिच्छेदरहितं, सुत्तं वा जातकं वा निक्खिपित्वा तस्स अनुयोगं उपमं वा वत्थुं वा आहरित्वा यं सुत्तं जातकं वा निक्खिपितं, तस्स सरीरभूतं कथं अनामसित्वा बाहिरकथंयेव कथेति, निक्खित्तं निक्खित्तमत्तमेव होति, ‘‘सुत्तं नु खो कथेति जातकं नु खो, नास्स अन्तं वा कोटिं वा पस्सामा’’ति वत्तब्बतं आपज्जति. यथा वटरुक्खसाखानं गतगतट्ठाने पारोहा ओतरन्ति, ओतिण्णो-तिण्णट्ठाने विरुळ्हिं आपज्जित्वा पुन वड्ढन्तियेव, एवं अड्ढयोजनम्पि योजनम्पि गच्छतियेव. गच्छन्ते गच्छन्ते पन मूलरुक्खो विनस्सति, अनुजातपारोहमूलानियेव तिट्ठन्ति, एवं अयम्पि निग्रोधधम्मकथिको नाम होति. निक्खित्तं निक्खित्तमेव कत्वा पस्सेनेव परिहरन्तो गच्छति. यो पन बहुम्पि भणन्तो ‘‘एतदत्थमिदं वुत्त’’न्ति निक्खित्तसुत्ततो अञ्ञम्पि अनुयोगूपमावत्थुवसेन तदुपयोगीनं आहरित्वा आहरित्वा जानापेतुं सक्कोति, तथारूपस्स धम्मकथिकस्स बहुम्पि कथेतुं वट्टति. न लोकियलोकुत्तरअत्थनिस्सितन्ति अत्तनो परेसञ्च न लोकियलोकुत्तरहितावहं.

पकट्ठानं उक्कट्ठानं सीलादिअत्थानं बोधनतो सभावनिरुत्तिवसेन च बुद्धादीहि भासितत्ता पकट्ठानं वचनप्पबन्धानं आळीति पाळि, परियत्तिधम्मो. पुरिमस्स अत्थस्स पच्छिमेन अत्थेन अनुसन्धानं अनुसन्धि, अत्थमुखेन पन पाळिप्पदेसानम्पि अनुसन्धि होतियेव. स्वायं अनुसन्धि पुच्छानुसन्धिअज्झासयानुसन्धियथानुसन्धिआदिवसेन चतुब्बिधो, तंतंदेसनानं पन पुब्बापरपाळिवसेन अनुसन्धिवसेन पुब्बापरवसेनाति पच्चेकं योजेतब्बं. उग्गहितन्ति ब्यञ्जनसो अत्थसो च उद्धं उद्धं गहितं, परियापुणनवसेन चेव परिपुच्छावसेन च हदयेन गहितन्ति अत्थो. वट्टदुक्खनिस्सरणत्थिकेहि सोतब्बतो सुतं, परियत्तिधम्मो. तं धारेतीति सुतधरो. यो हि सुतधरो, सुतं तस्मिं पतिट्ठितं होति सुप्पतिट्ठितं अरोगिकं, तस्मा वुत्तं ‘‘सुतस्स आधारभूतो’’ति. तेनाह ‘‘यस्स ही’’तिआदि. एकं पदं एकक्खरम्पि अविनट्ठं हुत्वा सन्निचीयतीति सन्निचयो, सुतं सन्निचयो एतस्मिन्ति सुतसन्निचयो. अज्झोसायाति अनुप्पविसित्वा. तिट्ठतीति न सम्मुस्सति.

पगुणाति वाचुग्गता. निच्चलिकन्ति अविपरिवत्तं. संसन्दित्वाति अञ्ञेहि संसन्दित्वा. समनुग्गाहित्वाति परिपुच्छावसेन अत्थं ओगाहित्वा. पबन्धस्स विच्छेदाभावतो गङ्गासोतसदिसं. ‘‘भवङ्गसोतसदिस’’न्ति वा पाठो, अकित्तिमं सुखप्पवत्तीति अत्थो. सुत्तेकदेसस्स सुत्तमत्तस्स च वचसा परिचयो इध नाधिप्पेतो, वग्गादिवसेन पन अधिप्पेतोति आह ‘‘सुत्तदसक…पे… सज्झायिता’’ति, ‘‘दससुत्तानि गतानि, दसवग्गानि गतानी’’तिआदिना सल्लक्खेत्वा वाचाय सज्झायिताति अत्थो. मनसा अनु अनु पेक्खिता भागसो निज्झायिता चिन्तिता मनसानुपेक्खिता. रूपगतं विय पञ्ञायतीति रूपगतं विय चक्खुस्स विभूतं हुत्वा पञ्ञायति. सुप्पटिविद्धाति निज्जटं निग्गुम्बं कत्वा सुट्ठु याथावतो पटिविद्धा.

अधिकं चेतोति अभिचेतो, उपचारज्झानचित्तं. तस्स पन अधिकता पाकतिककामावचरचित्तेहि सुन्दरताय, सा पटिपक्खतो सुद्धियाति आह ‘‘अभिक्कन्तं विसुद्धं चित्त’’न्ति. अधिचित्तन्ति समाधिमाह. सोपि उपचारसमाधि दट्ठब्बो. विवेकजं पीतिसुखं, समाधिजं पीतिसुखं, अपीतिजं कायसुखं, सतिपारिसुद्धिजं ञाणसुखन्ति चतुब्बिधम्पि झानसुखं पटिपक्खतो निक्खन्ततं उपादाय नेक्खम्मसुखन्ति वुच्चतीति आह ‘‘नेक्खम्मसुखं विन्दती’’ति. इच्छितिच्छितक्खणे समापज्जितुं समत्थोति इमिना तेसु झानेसु समापज्जनवसीभावमाह. निकामलाभीति पन वचनतो आवज्जनाधिट्ठानपच्चवेक्खणवसियोपि वुत्ता एवाति वेदितब्बा. सुखेनेव पच्चनीकधम्मे विक्खम्भेत्वाति एतेन तेसं झानानं सुखप्पटिपदतं खिप्पाभिञ्ञतञ्च दस्सेति.

विपुलानन्ति वेपुल्लं पापितानं झानानं. विपुलता नाम सुभावितभावेन चिरतरप्पवत्तिया, सा च परिच्छेदानुरूपाव इच्छितब्बाति ‘‘विपुलान’’न्ति वत्वा ‘‘यथापरिच्छेदेन वुट्ठातुं समत्थोति वुत्तं होती’’ति आह. परिच्छेदकालञ्हि अप्पत्वाव वुट्ठहन्तो अकसिरलाभी न होति यावदिच्छितं पवत्तेतुं असमत्थत्ता. इदानि यथावुत्ते समापज्जनादिवसीभावे ब्यतिरेकवसेन विभावेतुं ‘‘एकच्चो ही’’तिआदि वुत्तं. तत्थ लाभीयेव होतीति इदं पटिलद्धमत्तस्स झानस्स वसेन वुत्तं. तथाति इच्छितिच्छितक्खणे. पारिपन्थिकेति वसीभावस्स पच्चनीकधम्मे. झानाधिगमस्स पन पच्चनीकधम्मा पगेव विक्खम्भिता, अञ्ञथा झानाधिगमो एव न सिया. किच्छेन विक्खम्भेतीति किच्छेन विसोधेति. कामादीनवपच्चवेक्खणादीहि कामच्छन्दादीनं विय अञ्ञेसम्पि समाधिपारिपन्थिकानं दूरसमुस्सारणं इध विक्खम्भनं विसोधनञ्चाति वेदितब्बं. नाळिकयन्तन्ति कालमाननाळिकयन्तमाह.

अट्ठपितसङ्कप्पोति न सम्मापणिहितसङ्कप्पो. अभिञ्ञापारगूति सब्बेसं लोकियलोकुत्तरधम्मानं अभिञ्ञाय पारं गतो, सब्बधम्मे अभिविसिट्ठाय अग्गमग्गपञ्ञाय जानित्वा ठितोति अत्थो. परिञ्ञापारगूति पञ्चन्नं खन्धानं परिञ्ञाय पारं गतो, पञ्चक्खन्धे परिजानित्वा ठितोति अत्थो. भावनापारगूति चतुन्नं मग्गानं भावनाय पारं गतो, चत्तारो मग्गे भावेत्वा ठितोति अत्थो. पहानपारगूति सब्बकिलेसानं पहानेन पारं गतो, सब्बकिलेसे पजहित्वा ठितोति अत्थो. सच्छिकिरियापारगूति निरोधसच्छिकिरियाय पारं गतो, निरोधं सच्छिकत्वा ठितोति अत्थो. समापत्तिपारगूति सब्बसमापत्तीनं समापज्जनेन पारं गतो, सब्बा समापत्तियो समापज्जित्वा ठितोति अत्थो. ब्रह्मचरियस्स केवलीति यं ब्रह्मचरियस्स केवलं सकलभावो, तेन समन्नागतो, सकलचतुमग्गब्रह्मचरियवासोति अत्थो. तेनाह ‘‘सकलब्रह्मचरियो’’ति, परिपुण्णमग्गब्रह्मचरियोति अत्थो. सेसं सुविञ्ञेय्यमेव.

दुतियउरुवेलसुत्तवण्णना निट्ठिता.