८. अत्तन्तपसुत्तवण्णना
१९८. अट्ठमे आहितो अहंमानो एत्थाति अत्ता, अत्तभावो. इध पन यो परो न होति, सो अत्ता, तं अत्तानं. परन्ति अत्ततो अञ्ञं. दिट्ठेति पच्चक्खभूते. धम्मेति उपादानक्खन्धधम्मे. तत्थ हि अत्ता भवति, अत्तसञ्ञादिट्ठि भवतीति अत्तभावसमञ्ञा. तेनाह ‘‘दिट्ठेव धम्मेति इमस्मिंयेव अत्तभावे’’ति. छातं वुच्चति तण्हा जिघच्छाहेतुताय. अन्तो तापनकिलेसानन्ति अत्तनो सन्ताने दरथपरिळाहजननेन सन्तापनकिलेसानं.
परेसं हननघातनादिना रोदापनतो लुद्दो. तथा विघातकभावेन कायचित्तानं विदालनतो दारुणो. थद्धहदयो कक्खळो. बन्धनागारे नियुत्तो बन्धनागारिको.
खत्तियाभिसेकेनाति खत्तियानं कातब्बअभिसेकेन. सन्थागारन्ति सन्थारवसेन कतं अगारं यञ्ञागारं. सप्पितेलेनाति सप्पिमिस्सेन तेलेन. यमकस्नेहेन हि एसा तदा कायं अब्भञ्जति. वच्छभावं तरित्वा ठितो वच्छतरो. परिक्खेपकरणत्थायाति नवमालाहि सद्धिं दब्भेहि वेदिया परिक्खिपनत्थाय. यञ्ञभूमियन्ति अवसेसयञ्ञट्ठाने.
दूरसमुस्सारितमानस्सेव सासने सम्मापटिपत्ति सम्भवति, न मानजातिकस्साति आह ‘‘निहतमानत्ता’’ति. उस्सन्नत्ताति बहुभावतो. भोगारोग्यादिवत्थुका मदा सुप्पहिया होन्ति निमित्तस्स अवट्ठानतो, न तथा कुलविज्जामदाति खत्तियब्राह्मणकुलानं पब्बजितानम्पि जातिविज्जा निस्साय मानजप्पनं दुप्पजहन्ति आह ‘‘येभुय्येन हि…पे… मानं करोन्ती’’ति. विजातितायाति निहीनजातिताय. पतिट्ठातुं न सक्कोन्तीति सुविसुद्धं कत्वा सीलं रक्खितुं न सक्कोन्ति. सीलवसेन हि सासने पतिट्ठहन्ति. पतिट्ठातुन्ति वा सच्चप्पटिवेधेन लोकुत्तराय पतिट्ठाय पतिट्ठातुं. येभुय्येन हि उपनिस्सयसम्पन्ना सुजातायेव होन्ति, न दुज्जाता.
परिसुद्धन्ति रागादीनं अच्चन्तमेव पहानदीपनतो निरुपक्किलेसताय सब्बसो विसुद्धं. सद्धं पटिलभतीति पोथुज्जनिकसद्धावसेन सद्दहति. विञ्ञुजातिकानञ्हि धम्मसम्पत्तिग्गहणपुब्बिका सद्धासिद्धि धम्मप्पमाणधम्मप्पसन्नभावतो. जायम्पतिकाति घरणिपतिका. कामं ‘‘जायम्पतिका’’ति वुत्ते घरसामिकघरसामिनिवसेन द्विन्नंयेव गहणं विञ्ञायति, यस्स पन पुरिसस्स अनेका पजापतियो होन्ति, तत्थ किं वत्तब्बन्ति एकायपि संवासो सम्बाधोति दस्सनत्थं ‘‘द्वे’’ति वुत्तं. रागादिना सकिञ्चनट्ठेन, खेत्तवत्थुआदिना सपलिबोधट्ठेन रागरजादीनं आगमनपथतापि उप्पज्जनट्ठानता एवाति द्वेपि वण्णना एकत्था, ब्यञ्जनमेव नानं. अलग्गनट्ठेनाति असज्जनट्ठेन अप्पटिबद्धभावेन. एवं अकुसलकुसलप्पवत्तीनं ठानभावेन घरावासपब्बज्जानं सम्बाधब्भोकासतं दस्सेत्वा इदानि कुसलप्पवत्तियायेव अट्ठानट्ठानभावेन तेसं तं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं.
सङ्खेपकथाति विसुं विसुं पदुद्धारं अकत्वा सङ्खेपतो अत्थवण्णना. एकम्पि दिवसन्ति एकदिवसमत्तम्पि. अखण्डं कत्वाति दुक्कटमत्तस्सपि अनापज्जनेन अखण्डितं कत्वा. किलेसमलेन अमलिनन्ति तण्हासंकिलेसादिवसेन असंकिलिट्ठं कत्वा. परिदहित्वाति निवासेत्वा चेव पारुपित्वा च. अगारवासो अगारं उत्तरपदलोपेन, तस्स वड्ढिआवहं अगारस्स हितं.
भोगक्खन्धोति भोगरासि भोगसमुदायो. आबन्धनट्ठेनाति पुत्तो नत्तातिआदिना पेमवसेन सपरिच्छेदवसेन बन्धनट्ठेन. अम्हाकमेतेति ञायन्तीति ञाती, पितामहपितुपुत्तादिवसेन परिवत्तनट्ठेन परिवट्टो. सामञ्ञवाचीपि सिक्खा-सद्दो आजीवसद्दसन्निधानतो उपरिवुच्चमानविसेसापेक्खाय च विसेसनिविट्ठोव होतीति वुत्तं ‘‘या भिक्खूनं अधिसीलसङ्खाता सिक्खा’’ति. सिक्खितब्बट्ठेन सिक्खा, सह आजीवन्ति एत्थाति साजीवो. सिक्खनभावेनाति सिक्खाय साजीवे च सिक्खनभावेन. सिक्खं परिपूरेन्तोति सीलसंवरं परिपूरेन्तो. साजीवञ्च अवीतिक्कमन्तोति ‘‘नामकायो, पदकायो, निरुत्तिकायो, ब्यञ्जनकायो’’ति (पारा. अट्ठ. १.३९) वुत्तं सिक्खापदं भगवतो च वचनं अवीतिक्कमन्तो हुत्वाति अत्थो. इदमेव च ‘‘सिक्खन’’न्ति वुत्तं, तत्थ साजीवानं अवीतिक्कमो सिक्खापारिपूरिया पच्चयो. ततो हि याव मग्गा सिक्खापारिपूरी होतीति.
अनुप्पदाताति अनुबलप्पदाता, अनुवत्तनवसेन वा पदाता. कस्स पन अनुवत्तनं पदानञ्चाति? ‘‘सहितान’’न्ति वुत्तत्ता सन्धानस्साति विञ्ञायति. तेनाह ‘‘सन्धानानुप्पदाता’’ति. यस्मा पन अनुवत्तनवसेन सन्धानस्स पदानं आधानं आरक्खनं वा दळ्हकरणं होति, तेन वुत्तं ‘‘द्वे जने समग्गे दिस्वा’’तिआदि. आरमन्ति एत्थाति आरामो, रमितब्बट्ठानं. यस्मा पन आ-कारेन विनापि अयमत्थो लब्भति, तस्मा वुत्तं ‘‘समग्गरामोतिपि पाळि, अयमेवत्थो’’ति.
एत्थाति –
‘‘नेलङ्गो सेतपच्छादो, एकारो वत्तती रथो;
अनीघं पस्स आयन्तं, छिन्नसोतं अबन्धन’’न्ति. (सं. नि. ४.३४७; उदा. ६५; पेटको. २५) –
इमिस्सा गाथाय. सीलञ्हेत्थ नेलङ्गन्ति वुत्तं. तेनेवाह – ‘‘चित्तो गहपति, नेलङ्गन्ति खो, भन्ते, सीलानमेतं अधिवचन’’न्ति (सं. नि. ४.३४७). सुकुमाराति अप्फरुसताय मुदुका. पुरस्स एसाति एत्थ पुर-सद्दो तन्निवासिवाचको दट्ठब्बो – ‘‘गामो आगतो’’तिआदीसु विय. तेनेवाह ‘‘नगरवासीन’’न्ति. मनं अप्पायति वड्ढेतीति मनापो. तेन वुत्तं ‘‘चित्तवुड्ढिकरा’’ति.
कालवादीतिआदि सम्फप्पलापा पटिविरतस्स पटिपत्तिदस्सनं. अत्थसंहितापि हि वाचा अयुत्तकालप्पयोगेन अत्थावहा न सियाति अनत्थविञ्ञापनवाचं अनुलोमेति, तस्मा सम्फप्पलापं पजहन्तेन अकालवादिता परिहरितब्बाति वुत्तं ‘‘कालवादी’’ति. कालेन वदन्तेनपि उभयानत्थसाधनतो अभूतं परिवज्जेतब्बन्ति आह ‘‘भूतवादी’’ति. भूतञ्च वदन्तेन यं इधलोकपरलोकहितसम्पादकं, तदेव वत्तब्बन्ति दस्सेतुं ‘‘अत्थवादी’’ति वुत्तं. अत्थं वदन्तेनपि लोकियधम्मसन्निस्सितमेव अवत्वा लोकुत्तरधम्मसन्निस्सितं कत्वा वत्तब्बन्ति दस्सनत्थं ‘‘धम्मवादी’’ति वुत्तं. यथा च अत्थो लोकुत्तरधम्मसन्निस्सितो होति, तं दस्सेतुं ‘‘विनयवादी’’ति वुत्तं. पञ्चन्नञ्हि संवरविनयानं पञ्चन्नञ्च पहानविनयानं वसेन वुच्चमानो अत्थो निब्बानाधिगमनहेतुभावतो लोकुत्तरधम्मसन्निस्सितो होतीति. एवं गुणविसेसयुत्तोव अत्थो वुच्चमानो देसनाकोसल्ले सति सोभति, किच्चकरो च होति, न अञ्ञथाति दस्सेतुं ‘‘निधानवतिं वाचं भासिता’’ति वुत्तं. इदानि तं देसनाकोसल्लं विभावेतुं ‘‘कालेना’’तिआदिमाह. पुच्छादिवसेन हि ओतिण्णवाचावत्थुस्मिं एकंसादिब्याकरणविभागं सल्लक्खेत्वा ठपनाहेतूदाहरणसन्दस्सनादिं तंतंकालानुरूपं विभावेन्तिया परिमितपरिच्छिन्नरूपाय विपुलतरगम्भीरोदारपरमत्थवित्थारसङ्गाहिकाय कथाय ञाणबलानुरूपं परे याथावतो धम्मे पतिट्ठापेन्तो ‘‘देसनाकुसलो’’ति वुच्चतीति एवमेत्थ अत्थयोजना वेदितब्बा.
एवं पटिपाटिया सत्त मूलसिक्खापदानि विभजित्वा अभिज्झादिप्पहानं इन्द्रियसंवरजागरियानुयोगेहि विभावेतुं तम्पि नीहरित्वा आचारसीलस्सेव विभजनवसेन पाळि पवत्ताति तदत्थं विवरितुं ‘‘बीजगामभूतगामसमारम्भा’’तिआदि वुत्तं. तत्थ बीजानं गामो समूहो बीजगामो. भूतानं जातानं निब्बत्तानं रुक्खगच्छलतादीनं समूहो भूतगामो. ननु च रुक्खादयो चित्तरहितताय न जीवा, चित्तरहितता च परिप्फन्दाभावतो छिन्ने विरुहनतो विसदिसजातिभावतो चतुयोनिअपरियापन्नतो च वेदितब्बा, वुद्धि पन पवाळसिलालवणानम्पि विज्जतीति न तेसं जीवभावे कारणं, विसयग्गहणञ्च नेसं परिकप्पनामत्तं सुपनं विय चिञ्चादीनं, तथा दोहळादयो, अथ कस्मा बीजगामभूतगामसमारम्भा पटिविरति इच्छिताति? समणसारुप्पतो तन्निवासिसत्तानुरक्खणतो च. तेनेवाह – ‘‘जीवसञ्ञिनो हि मोघपुरिस मनुस्सा रुक्खस्मि’’न्तिआदि (पाचि. ८९).
मूलमेव बीजं मूलबीजं, मूलं बीजं एतस्सातिपि मूलबीजं. सेसेसुपि एसेव नयो. फळुबीजन्ति पब्बबीजं. पच्चयन्तरसमवाये सदिसफलुप्पत्तिया विसेसकारणभावतो विरुहनसमत्थे सारफले निरुळ्हो बीज-सद्दो तदत्थसंसिद्धिया मूलादीसुपि केसुचि पवत्ततीति मूलादितो निवत्तनत्थं एकेन बीज-सद्देन विसेसेत्वा वुत्तं ‘‘बीजबीज’’न्ति ‘‘रूपरूपं, दुक्खदुक्ख’’न्ति (सं. नि. ४.३२७) च यथा. कस्मा पनेत्थ बीजगामभूतगामं उद्धरित्वा बीजगामो एव निद्दिट्ठोति? न खो पनेतं एवं दट्ठब्बं, ननु अवोचुम्हा ‘‘मूलमेव बीजं मूलबीजं, मूलं बीजं एतस्सातिपि मूलबीज’’न्ति. तत्थ पुरिमेन बीजगामो निद्दिट्ठो, दुतियेन भूतगामो. दुविधोपेस मूलबीजञ्च मूलबीजञ्च मूलबीजन्ति सामञ्ञनिद्देसेन, एकसेसनयेन वा उद्दिट्ठोति वेदितब्बो. तेनेवाह ‘‘पञ्चविधस्सा’’तिआदि. नीलतिणरुक्खादिकस्साति अल्लतिणस्स चेव अल्लरुक्खादिकस्स च. आदि-सद्देन ओसधिगच्छलतादीनं सङ्गहो.
एकं भत्तं एकभत्तं, तं अस्स अत्थीति एकभत्तिको. सो पन रत्तिभोजनेनपि सियाति तन्निवत्तनत्थं आह ‘‘रत्तूपरतो’’ति. एवम्पि अपरण्हभोजीपि सिया एकभत्तिकोति तन्निवत्तनत्थं ‘‘विरतो विकालभोजना’’ति वुत्तं. अरुणुग्गमनतो पट्ठाय याव मज्झन्हिका अयं बुद्धादीनं अरियानं आचिण्णसमाचिण्णो भोजनस्स कालो नाम, तदञ्ञो विकालो. अट्ठकथायं पन दुतियपदेन रत्तिभोजनस्स पटिक्खित्तत्ता ‘‘अतिक्कन्ते मज्झन्हिके याव सूरियत्थङ्गमना भोजनं विकालभोजनं नामा’’ति वुत्तं.
दारुमासकोति ये वोहारं गच्छन्तीति इति-सद्देन एवंपकारे दस्सेति. अञ्ञेहि गाहापने उपनिक्खित्तसादियने च पटिग्गहणत्थो लब्भतीति ‘‘नेव तं उग्गण्हाति, न उग्गहापेति, न उपनिक्खित्तं सादियती’’ति वुत्तं. अथ वा तिविधं पटिग्गहणं कायेन, वाचाय, मनसाति. तत्थ कायेन पटिग्गहणं उग्गण्हनं, वाचाय पटिग्गहणं उग्गहापनं, मनसा पटिग्गहणं सादियनन्ति तिविधम्पि पटिग्गहणं एकज्झं गहेत्वा पटिग्गहणाति वुत्तन्ति आह ‘‘नेव तं उग्गण्हाती’’तिआदि. एस नयो आमकधञ्ञपटिग्गहणातिआदीसुपि. नीवारादिउपधञ्ञस्स सालिआदिमूलधञ्ञन्तोगधत्ता वुत्तं ‘‘सत्तविधस्सा’’ति. ‘‘अनुजानामि, भिक्खवे, पञ्च वसानि भेसज्जानि अच्छवसं, मच्छवसं, सुसुकावसं, सूकरवसं, गद्रभवस’’न्ति (महाव. २६२) वुत्तत्ता इदं ओदिस्स अनुञ्ञातं नाम. तस्स पन ‘‘काले पटिग्गहित’’न्ति (महाव. २६२) वुत्तत्ता पटिग्गहणं वट्टति सति पच्चयेति आह ‘‘अञ्ञत्र ओदिस्स अनुञ्ञाता’’ति.
सारुप्पेन वञ्चनं रूपकूटं, पतिरूपेन वञ्चनाति अत्थो. अङ्गेन अत्तनो सरीरावयवेन वञ्चनं अङ्गकूटं. गण्हनवसेन वञ्चनं गहणकूटं. पटिच्छन्नं कत्वा वञ्चनं पटिच्छन्नकूटं. अक्कमतीति निप्पीळेति, पुब्बभागे अक्कमतीति सम्बन्धो. हदयन्ति नाळिआदिमानभाजनानं अब्भन्तरं. तेलादीनं नाळिआदीहि मिननकाले उस्सापिता सिखायेव सिखाभेदो, तस्सा हापनं. केचीति सारसमासाचरिया उत्तरविहारवासिनो च.
वधोति मुट्ठिप्पहारकसाताळनादीहि हिंसनं, विहेठनन्ति अत्थो. विहेठनत्थोपि हि वध-सद्दो दिस्सति ‘‘अत्तानं वधित्वा वधित्वा रोदती’’तिआदीसु. यथा हि अपटिग्गहभावसामञ्ञे सतिपि पब्बजितेहि अप्पटिग्गहितब्बवत्थुविसेसभावसन्दस्सनत्थं इत्थिकुमारिदासिदासादयो विभागेन वुत्ता, एवं परस्सहरणभावतो अदिन्नादानभावसामञ्ञे सतिपि तुलाकूटादयो अदिन्नादानविसेसभावदस्सनत्थं विभागेन वुत्ता. न एवं पाणातिपातपरियायस्स वधस्स पुन गहणे पयोजनं अत्थि, तत्थ सयंकारो, इध परंकारोति च न सक्का वत्तुं ‘‘कायवचिप्पयोगसमुट्ठापिका चेतना छप्पयोगा’’ति (दी. नि. टी. १.१०) वचनतो, तस्मा यथावुत्तो एवमेत्थ अत्थो युत्तो. अट्ठकथायं पन ‘‘वधोति मारण’’न्ति वुत्तं. तम्पि पोथनमेव सन्धायाति च सक्का विञ्ञातुं मारणसद्दस्स विहिंसनेपि दिस्सनतो.
चीवरपिण्डपातानं यथाक्कमं कायकुच्छिपरिहरणमत्तजोतनायं अविसेसतो अट्ठन्नं परिक्खारानं तप्पयोजनता सम्भवतीति दस्सेन्तो ‘‘ते सब्बेपी’’तिआदिमाह. एतेपीति नवपरिक्खारिकादयोपि अप्पिच्छा च सन्तुट्ठा च. न हि तत्तकेन महिच्छता असन्तुट्ठिता होतीति.
चतूसु दिसासु सुखं विहरति, ततो एव सुखविहारट्ठानभूता चतस्सो दिसा अस्स सन्तीति चातुद्दिसो. तत्थ चायं सत्ते वा सङ्खारे वा भयेन नप्पटिहञ्ञतीति अप्पटिघो. द्वादसविधस्स सन्तोसस्स वसेन सन्तुस्सनतो सन्तुस्समानो. इतरीतरेनाति उच्चावचेन परिस्सयानं बाहिरानं सीहब्यग्घादीनं, अब्भन्तरानञ्च कामच्छन्दादीनं कायचित्तूपद्दवानं अभिभवनतो परिस्सयानं सहिता. बन्धनभावकरभयाभावेन अच्छम्भि. एको असहायो. ततो एव खग्गमिगसिङ्गसदिसताय खग्गविसाणकप्पो चरेय्याति अत्थो.
छिन्नपक्खो, असञ्जातपक्खो वा सकुणो गन्तुं न सक्कोतीति पक्खि-सद्देन विसेसेत्वा सकुणो पाळियं वुत्तोति आह ‘‘पक्खयुत्तो सकुणो’’ति. यस्स सन्निधिकारपरिभोगो किञ्चि ठपेतब्बं सापेक्खाठपनञ्च नत्थि, तादिसो अयं भिक्खूति दस्सेन्तो ‘‘अयमेत्थ सङ्खेपत्थो’’तिआदिमाह. अरियन्ति अपेन्ति ततो दोसा, तेहि वा आरकाति अरियोति आह ‘‘अरियेनाति निद्दोसेना’’ति. अज्झत्तन्ति अत्तनि. निद्दोससुखन्ति निरामिससुखं किलेसवज्जरहितत्ता.
यथावुत्ते सीलसंवरे पतिट्ठितस्सेव इन्द्रियसंवरो इच्छितब्बो तदधिट्ठानतो तस्स च परिपालकभावतोति वुत्तं ‘‘सो इमिना अरियेन सीलक्खन्धेन समन्नागतो भिक्खू’’ति. सेसपदेसूति ‘‘न निमित्तग्गाही होती’’तिआदिपदेसु. अयं पनेत्थ सङ्खेपत्थो – न निमित्तग्गाहीति इत्थिपुरिसनिमित्तं वा सुभनिमित्तादिकं वा किलेसवत्थुभूतं निमित्तं न गण्हाति, दिट्ठमत्तेयेव सण्ठाति. नानुब्यञ्जनग्गाहीति किलेसानं अनु अनु ब्यञ्जनतो पाकटभावकरणतो अनुब्यञ्जनन्तिलद्धवोहारं हत्थपादसितहसितकथितविलोकितादिभेदं आकारं न गण्हाति. यं तत्थ भूतं, तदेव गण्हाति. यत्वाधिकरणमेनन्तिआदिम्हि यंकारणा यस्स चक्खुन्द्रियासंवरस्स हेतु एतं पुग्गलं सतिकवाटेन चक्खुन्द्रियं असंवुतं अपिहितचक्खुद्वारं हुत्वा विहरन्तं एते अभिज्झादयो धम्मा अन्वस्सवेय्युं अनुप्पबन्धेय्युं. तस्स संवराय पटिपज्जतीति तस्स चक्खुन्द्रियस्स सतिकवाटेन पिदहनत्थाय पटिपज्जति. एवं पटिपज्जन्तोयेव च ‘‘रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जती’’ति वुच्चति. सोतेन सद्दं सुत्वातिआदीसुपि एसेव नयो. एवमिदं सङ्खेपतो रूपादीसु किलेसानुबन्धनिमित्तादिग्गाहपरिवज्जनलक्खणं इन्द्रियसंवरं सीलं वेदितब्बं. अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गसंवण्णनासु (विसुद्धि. महाटी. १.१३) वुत्तनयेनेव वेदितब्बो. किलेसेहि अनवसित्तसुखन्तिआदीसु रूपादीसु निमित्तादिग्गाहपरिवज्जनलक्खणत्ता इन्द्रियसंवरस्स किलेसेहि अनवसित्तसुखता अविकिण्णसुखता चस्स वुत्ता.
अभिक्कमनं अभिक्कन्तो, पुरतो गमनं. पटिक्कमनं पटिक्कन्तो, पच्चागमनं. तदुभयम्पि चतूसु इरियापथेसु लब्भति. गमने ताव पुरतो कायं अभिहरन्तो अभिक्कमति नाम, पटिनिवत्तेन्तो पटिक्कमति नाम. ठानेपि ठितकोव कायं पुरतो ओणमन्तो अभिक्कमति नाम, पच्छतो अपनामेन्तो पटिक्कमति नाम. निसज्जायपि निसिन्नकोव आसनस्स पुरिमअङ्गाभिमुखो संसरन्तो अभिक्कमति नाम, पच्छिमं अङ्गप्पदेसं पच्चासंसरन्तो पटिक्कमति नाम. निपज्जायपि एसेव नयो.
सात्थकसम्पजञ्ञन्तिआदीसु समन्ततो पकारेहि, पकट्ठं वा सविसेसं जानातीति सम्पजानो, सम्पजानस्स भावो सम्पजञ्ञं, तथापवत्तं ञाणं. धम्मतो वड्ढिसङ्खातेन सह अत्थेन वत्ततीति सात्थकं, अभिक्कन्तादिसात्थकस्स सम्पजञ्ञं सात्थकसम्पजञ्ञं. सप्पायस्स अत्तनो उपकारावहस्स सम्पजञ्ञं सप्पायसम्पजञ्ञं. अभिक्कमादीसु भिक्खाचारगोचरे, अञ्ञत्थापि पवत्तेसु अविजहितकम्मट्ठानसङ्खाते गोचरे सम्पजञ्ञं गोचरसम्पजञ्ञं. अभिक्कमादीसु असम्मुय्हनमेव सम्पजञ्ञं असम्मोहसम्पजञ्ञं. तत्थ (दी. नि. अट्ठ. १.२१४; म. नि. अट्ठ. १.१०९) अभिक्कमनचित्ते उप्पन्ने चित्तवसेनेव अगन्त्वा ‘‘किन्नु मे एत्थ गतेन अत्थो अत्थि नत्थी’’ति अत्थानत्थं परिग्गहेत्वा अत्थपरिग्गहणं सात्थकसम्पजञ्ञं. तत्थ च अत्थोति चेतियदस्सनबोधिदस्सनसङ्घदस्सनथेरदस्सनअसुभदस्सनादिवसेन धम्मतो वड्ढि. चेतियं वा बोधिं वा दिस्वापि हि बुद्धारम्मणं, सङ्घदस्सनेन सङ्घारम्मणं पीतिं उप्पादेत्वा तदेव खयवयतो सम्मसन्तो अरहत्तं पापुणाति. थेरे दिस्वा तेसं ओवादे पतिट्ठाय असुभं दिस्वा तत्थ पठमज्झानं उप्पादेत्वा तदेव खयवयतो सम्मसन्तो अरहत्तं पापुणाति, तस्मा एतेसं दस्सनं ‘‘सात्थक’’न्ति वुत्तं. केचि पन ‘‘आमिसतोपि वड्ढि अत्थोयेव तं निस्साय ब्रह्मचरियानुग्गहाय पटिपन्नत्ता’’ति वदन्ति.
तस्मिं पन गमने सप्पायासप्पायं परिग्गहेत्वा सप्पायपरिग्गण्हनं सप्पायसम्पजञ्ञं. सेय्यथिदं – चेतियदस्सनं ताव सात्थं. सचे पन चेतियस्स महापूजाय दसद्वादसयोजनन्तरे परिसा सन्निपतन्ति, अत्तनो विभवानुरूपं इत्थियोपि पुरिसापि अलङ्कतपटियत्ता चित्तकम्मरूपकानि विय सञ्चरन्ति. तत्र चस्स इट्ठे आरम्मणे लोभो, अनिट्ठे पटिघो, असमपेक्खने मोहो उप्पज्जति, कायसंसग्गापत्तिं वा आपज्जति, जीवितब्रह्मचरियानं वा अन्तरायो होति. एवं तं ठानं असप्पायं होति, वुत्तप्पकारअन्तरायाभावे सप्पायं. बोधिदस्सनेपि एसेव नयो. सङ्घदस्सनम्पि सात्थं. सचे पन अन्तोगामे महामण्डपं कारेत्वा सब्बरत्तिं धम्मस्सवनं करोन्तेसु मनुस्सेसु वुत्तप्पकारेनेव जनसन्निपातो चेव अन्तरायो च होति. एवं तं ठानं असप्पायं, अन्तरायाभावे सप्पायं. महापरिसापरिवारानं थेरानं दस्सनेपि एसेव नयो. असुभदस्सनम्पि सात्थं मग्गफलाधिगमहेतुभावतो. दन्तकट्ठत्थाय सामणेरं गहेत्वा गतदहरभिक्खुनो वत्थुपेत्थ कथेतब्बं. एवं सात्थम्पि पनेतं पुरिसस्स मातुगामासुभं असप्पायं, मातुगामस्स च पुरिसासुभं. सभागमेव सप्पायन्ति एवं सप्पायपरिग्गण्हनं सप्पायसम्पजञ्ञं नाम.
एवं परिग्गहितसात्थकसप्पायस्स पन अट्ठतिंसाय कम्मट्ठानेसु अत्तनो चित्तरुचियं कम्मट्ठानसङ्खातं गोचरं उग्गहेत्वा भिक्खाचारगोचरे तं गहेत्वाव गमनं गोचरसम्पजञ्ञं नाम.
अभिक्कमादीसु पन असम्मुय्हनं असम्मोहसम्पजञ्ञं. तं एवं वेदितब्बं – इध भिक्खु अभिक्कमन्तो वा पटिक्कमन्तो वा यथा अन्धपुथुज्जना अभिक्कमादीसु ‘‘अत्ता अभिक्कमति, अत्तना अभिक्कमो निब्बत्तितो’’ति वा, ‘‘अहं अभिक्कमामि, मया अभिक्कमो निब्बत्तितो’’ति वा सम्मुय्हन्ति, तथा असम्मुय्हन्तो ‘‘अभिक्कमामी’’ति चित्ते उप्पज्जमाने तेनेव चित्तेन सद्धिं चित्तसमुट्ठाना वायोधातु विञ्ञत्तिं जनयमाना उप्पज्जति, इति चित्तकिरियवायोधातुविप्फारवसेन अयं कायसम्मतो अट्ठिसङ्घाटो अभिक्कमति, तस्सेवं अभिक्कमतो एकेकपदुद्धरणे पथवीधातु, आपोधातूति द्वे धातुयो ओमत्ता होन्ति मन्दा, इतरा द्वे अधिमत्ता होन्ति बलवतियो. तथा अतिहरणवीतिहरणेसु. वोस्सज्जने तेजोधातु, वायोधातूति द्वे धातुयो ओमत्ता होन्ति मन्दा, इतरा द्वे अधिमत्ता बलवतियो. तथा सन्निक्खेपनसन्निरुम्भनेसु. तत्थ उद्धरणे पवत्ता रूपारूपधम्मा अतिहरणं न पापुणन्ति, तथा अतिहरणे पवत्ता वीतिहरणं, वीतिहरणे पवत्ता वोस्सज्जनं, वोस्सज्जने पवत्ता सन्निक्खेपनं, सन्निक्खेपने पवत्ता सन्निरुम्भनं न पापुणन्ति. तत्थ तत्थेव पब्बपब्बं सन्निसन्धि ओधिओधि हुत्वा तत्तकपाले पक्खित्ततिलं विय पटपटायन्ता भिज्जन्ति. तत्थ को एको अभिक्कमति, कस्स वा एकस्स अभिक्कमनं? परमत्थतो हि धातूनंयेव गमनं, धातूनं ठानं, धातूनं निसज्जनं, धातूनं सयनं. तस्मिं तस्मिञ्हि कोट्ठासे सद्धिं रूपेन –
‘‘अञ्ञं उप्पज्जते चित्तं, अञ्ञं चित्तं निरुज्झति;
अवीचिमनुसम्बन्धो, नदीसोतोव वत्तती’’ति. (दी. नि. अट्ठ. १.२१४; म. नि. अट्ठ. १.१०९; सं. नि. अट्ठ. ३.५.३६८);
एवं अभिक्कमादीसु असम्मुय्हनं असम्मोहसम्पजञ्ञं नामाति. पच्चयसम्पत्तिन्ति पच्चयपारिपूरिं. इमे चत्तारोति सीलसंवरो, सन्तोसो, इन्द्रियसंवरो, सतिसम्पजञ्ञन्ति इमे चत्तारो अरञ्ञवासस्स सम्भारा. वत्तब्बतं आपज्जतीति ‘‘असुकस्स भिक्खुनो अरञ्ञे तिरच्छानगतानं विय वनचरकानं विय च निवासमत्तमेव, न अरञ्ञवासानुच्छविका काचि सम्मापटिपत्ती’’ति अपवादवसेन वत्तब्बतं, आरञ्ञकेहि वा तिरच्छानगतेहि वनचरकविसभागजनेहि विप्पटिपत्तिवसेन वत्थब्बतं आपज्जति. भेरवसद्दं सावेन्ति, तावता अपलायन्तानं हत्थेहि सीसं…पे… करोन्ति. काळकसदिसत्ता काळकं, वीतिक्कमसङ्खातं थुल्लवज्जं. तिलकसदिसत्ता तिलकं, मिच्छावितक्कसङ्खातं अणुमत्तवज्जं. तन्ति पीतिं. विभूतभावेन उपट्ठानतो खयतो सम्मसन्तो.
विवित्तन्ति जनविवित्तं. तेनाह ‘‘सुञ्ञ’’न्ति. तं पन जनसद्दनिग्घोसाभावेन वेदितब्बं सद्दकण्टकत्ता झानस्साति आह ‘‘अप्पसद्दं अप्पनिग्घोसन्ति अत्थो’’ति. एतदेवाति निस्सद्दतंयेव. विहारो पाकारपरिच्छिन्नो सकलो आवासो. अड्ढयोगो दीघपासादो, ‘‘गरुळसण्ठानपासादो’’तिपि वदन्ति. पासादो चतुरस्सपासादो. हम्मियं मुण्डच्छदनपासादो. अट्टो पटिराजूनं पटिबाहनयोग्गो चतुप्पञ्चभूमको पतिस्सयविसेसो. माळो एककूटसङ्गहितो अनेककोणवन्तो पतिस्सयविसेसो. अपरो नयो – विहारो नाम दीघमुखपासादो. अड्ढयोगो एकपस्सच्छदनकसेनासनं. तस्स किर एकपस्से भित्ति उच्चतरा होति, इतरपस्से नीचा. एतेन तं एकपस्सच्छदनकं होति. पासादो नाम आयतचतुरस्सपासादो. हम्मियं मुण्डच्छदनं चन्दिकङ्गणयुत्तं. गुहा नाम केवला पब्बतगुहा. लेणं द्वारबद्धं पब्भारं. मण्डपोति साखामण्डपो. आवसथभूतं सेनासनं विहरितब्बट्ठेन विहारसेनासनं. मसारकादि मञ्चपीठं तत्थ अत्थरितब्बभिसि उपधानञ्च मञ्चपीठसम्बन्धतो मञ्चपीठसेनासनं. चिमिलिकादि भूमियं सन्थरितब्बताय सन्थतसेनासनं. अभिसङ्खताभावतो केवलं सयनस्स निसज्जाय च ओकासभूतं रुक्खमूलादि पटिक्कमितब्बट्ठानं ओकाससेनासनं. सेनासनग्गहणेन गहितमेवाति ‘‘विवित्तं सेनासन’’न्ति इमिना सेनासनग्गहणेन गहितमेव सामञ्ञजोतनाभावतो.
यदि एवं कस्मा ‘‘अरञ्ञ’’न्ति वुत्तन्ति आह ‘‘इमस्स पना’’तिआदि. भिक्खुनीनं वसेन आगतन्ति इदं विनये तथा आगतं सन्धाय वुत्तं, अभिधम्मेपि (विभ. ५२९) पन ‘‘अरञ्ञन्ति निक्खमित्वा बहि इन्दखिला सब्बमेतं अरञ्ञ’’न्ति आगतमेव. तत्थ हि यं न गामप्पदेसन्तोगधं, तं अरञ्ञन्ति निप्परियायवसेन तथा वुत्तं. धुतङ्गनिद्देसे (विसुद्धि. १.३१) यं वुत्तं, तं युत्तं, तस्मा तत्थ वुत्तनयेन गहेतब्बन्ति अधिप्पायो. रुक्खमूलन्ति रुक्खसमीपं. वुत्तञ्हेतं ‘‘यावता मज्झन्हिके काले समन्ता छाया फरति, निवाते पण्णानि पतन्ति, एत्तावता रुक्खमूल’’न्ति. सेल-सद्दो अविसेसतो पब्बतपरियायोति कत्वा वुत्तं ‘‘पब्बतन्ति सेल’’न्ति, न सिलामयमेव. पंसुमयादिको हि तिविधोपि पब्बतो एवाति. विवरन्ति द्विन्नं पब्बतानं मिथो आसन्नतरे ठितानं ओवरकादिसदिसं विवरं. एकस्मिंयेव वा पब्बते. उमङ्गसदिसन्ति सुदुङ्गासदिसं. मनुस्सानं अनुपचारट्ठानन्ति पकतिसञ्चारवसेन मनुस्सेहि न सञ्चरितब्बट्ठानं. आदि-सद्देन ‘‘वनपत्थन्ति वनसण्डानमेतं सेनासनानं अधिवचनं. वनपत्थन्ति भिंसनकानमेतं. वनपत्थन्ति सलोमहंसानमेतं. वनपत्थन्ति परियन्तानमेतं. वनपत्थन्ति न मनुस्सूपचारानमेतं सेनासनानं अधिवचन’’न्ति (विभ. ५३१) इमं पाळिप्पदेसं सङ्गण्हाति. अच्छन्नन्ति केनचि छदनेन अन्तमसो रुक्खसाखायपि न छादितं. निक्कड्ढित्वाति नीहरित्वा. पब्भारलेणसदिसेति पब्भारसदिसे, लेणसदिसे वा.
पिण्डपातपरियेसनं पिण्डपातो उत्तरपदलोपेनाति आह ‘‘पिण्डपातपरियेसनतो पटिक्कन्तो’’ति. पल्लङ्कन्ति एत्थ परि-सद्दो समन्ततोति एतस्मिं अत्थे, तस्मा वामोरुं दक्खिणोरुञ्च समं ठपेत्वा उभो पादे अञ्ञमञ्ञं सम्बन्धे कत्वा निसज्जा पल्लङ्कन्ति आह ‘‘समन्ततो ऊरुबद्धासन’’न्ति. ऊरूनं बन्धनवसेन निसज्जा पल्लङ्कं. आभुजित्वाति च यथा पल्लङ्कवसेन निसज्जा होति, एवं उभो पादे आभुजिते समिञ्जिते कत्वा. तं पन उभिन्नं पादानं तथासम्बन्धताकरणन्ति आह ‘‘बन्धित्वा’’ति. हेट्ठिमकायस्स अनुजुकं ठपनं निसज्जावचनेनेव बोधितन्ति उजुं कायन्ति एत्थ काय-सद्दो उपरिमकायविसयोति आह ‘‘उपरिमसरीरं उजुकं ठपेत्वा’’ति. तं पन उजुकं ठपनं सरूपतो पयोजनतो च दस्सेतुं ‘‘अट्ठारसा’’तिआदि वुत्तं. न पणमन्तीति न ओणमन्ति. न परिपततीति न विगच्छति वीथिं न लङ्घेति, ततो एव पुब्बेनापरं विसेससम्पत्तिया कम्मट्ठानं वुद्धिं फातिं गच्छति. परिमुखन्ति एत्थ परि-सद्दो अभि-सद्देन समानत्थोति आह ‘‘कम्मट्ठानाभिमुख’’न्ति, बहिद्धा पुथुत्तारम्मणतो निवारेत्वा कम्मट्ठानंयेव पुरक्खत्वाति अत्थो. समीपत्थो वा परि-सद्दोति दस्सेन्तो ‘‘मुखसमीपे वा कत्वा’’ति आह. एत्थ च यथा ‘‘विवित्तं सेनासनं भजती’’तिआदिना भावनानुरूपं सेनासनं दस्सितं, एवं निसीदतीति इमिना अलीनानुद्धच्चपक्खियो सन्तो इरियापथो दस्सितो. ‘‘पल्लङ्कं आभुजित्वा’’ति इमिना निसज्जाय दळ्हभावो. ‘‘परिमुखं सतिं उपट्ठपेत्वा’’ति इमिना आरम्मणपरिग्गहूपायो.
परीति परिग्गहट्ठो ‘‘परिणायिका’’तिआदीसु (ध. स. १६, २०) विय. मुखन्ति निय्यानट्ठो ‘‘सुञ्ञतविमोक्खमुख’’न्तिआदीसु विय. पटिपक्खतो निग्गमनट्ठो हि निय्यानट्ठो, तस्मा परिग्गहितनिय्यानं सतिन्ति सब्बथा गहितासम्मोसं परिच्चत्तसम्मोसं सतिं कत्वा, परमसतिनेपक्कं उपट्ठपेत्वाति अत्थो.
अभिज्झायति गिज्झति अभिकङ्खति एतायाति अभिज्झा, लोभो. लुज्जनट्ठेनाति भिज्जनट्ठेन, खणे खणे भिज्जनट्ठेनाति अत्थो. विक्खम्भनवसेनाति एत्थ विक्खम्भनं अनुप्पादनं अप्पवत्तनं पटिपक्खेन सुप्पहीनत्ता. पहीनत्ताति च पहीनसदिसतं सन्धाय वुत्तं झानस्स अनधिगतत्ता. तथापि नयिदं चक्खुविञ्ञाणं विय सभावतो विगताभिज्झं, अथ खो भावनावसेन. तेनाह ‘‘न चक्खुविञ्ञाणसदिसेना’’ति. एसेव नयोति यथा चक्खुविञ्ञाणं सभावेन विगताभिज्झं अब्यापन्नञ्च न भावनाय विक्खम्भितत्ता, न एवमिदं. इदं पन चित्तं भावनाय परिसोधितत्ता अब्यापन्नं विगतथिनमिद्धं अनुद्धतं निब्बिचिकिच्छञ्चाति अत्थो. पुरिमपकतिन्ति परिसुद्धपण्डरसभावं. ‘‘या तस्मिं समये चित्तस्स अकल्यता’’तिआदिना (ध. स. ११६२; विभ. ५४६) थिनस्स, ‘‘या तस्मिं समये कायस्स अकल्यता’’तिआदिना (ध. स. ११६३; विभ. ५४६) च मिद्धस्स अभिधम्मे निद्दिट्ठत्ता वुत्तं ‘‘थिनं चित्तगेलञ्ञं, मिद्धं चेतसिकगेलञ्ञ’’न्ति. सतिपि हि अञ्ञमञ्ञं अविप्पयोगे चित्तकायलहुतादीनं विय चित्तचेतसिकानं यथाक्कमं तंतंविसेसस्स या तेसं अकल्यतादीनं विसेसपच्चयता, अयमेतेसं सभावोति दट्ठब्बं. आलोकसञ्ञीति एत्थ अतिसयत्तविसिट्ठअत्थिअत्थावबोधकोयमीकारोति दस्सेन्तो आह ‘‘रत्तिम्पि…पे… समन्नागतो’’ति. इदं उभयन्ति सतिसम्पजञ्ञमाह.
अतिक्कमित्वाति विक्खम्भनवसेन पजहित्वा. कथमिदं कथमिदन्ति पवत्तिया कथंकथा, विचिकिच्छा, सा एतस्स अत्थीति कथंकथी, न कथंकथीति अकथंकथी, निब्बिचिकिच्छो. लक्खणादिभेदतोति एत्थ आदि-सद्देन पच्चयपरिहानप्पहायकादीनम्पि सङ्गहो दट्ठब्बो. तेपि हि पभेदतो दट्ठब्बाति. उच्छिन्दित्वा पातेन्तीति एत्थ उच्छिन्दनं पातनञ्च तासं पञ्ञानं अनुप्पन्नानं उप्पज्जितुं अप्पदानमेव. इति महग्गतानुत्तरपञ्ञानं एकच्चाय च परित्तपञ्ञाय अनुप्पत्तिहेतुभूता नीवरणधम्मा इतराय च समत्थतं विहनन्तियेवाति ‘‘पञ्ञाय दुब्बलीकरणा’’ति वुत्ता. अप्पेन्तोति निगमेन्तो.
अत्तन्तपसुत्तवण्णना निट्ठिता.