९-१०. तण्हासुत्तादिवण्णना

१९९-२००. नवमे तयो भवे अज्झोत्थरित्वा ठितं ‘‘अज्झत्तिकस्स उपादाय अट्ठारस तण्हाविचरितानी’’तिआदिना वुत्तं तं तं अत्तनो कोट्ठासभूतं जालमेतिस्सा अत्थीति जालिनी. तेनाह ‘‘तयो वा भवे’’तिआदि. तत्थ तत्थाति तस्मिं तस्मिं भवे, आरम्मणे वा. अपिचातिआदिना निद्देसनयेन विसत्तिकापदस्स अत्थं दस्सेन्तो निद्देसपाळिया एकदेसं दस्सेति ‘‘विसमूला’’तिआदिना. अयञ्हेत्थ निद्देसपाळि (महानि. ३; चूळनि. मेत्तगूमाणवपुच्छानिद्देसो २२, खग्गविसाणसुत्तनिद्देसो १२४) –

‘‘विसत्तिकाति केनट्ठेन विसत्तिका? विसताति विसत्तिका, विसटाति विसत्तिका, विसालाति विसत्तिका, विसक्कतीति विसत्तिका, विसंहरतीति विसत्तिका, विसंवादिकाति विसत्तिका, विसमूलाति विसत्तिका, विसफलाति विसत्तिका. विसपरिभोगाति विसत्तिका. विसाला वा पन सा तण्हा रूपे सद्दे गन्धे रसे फोट्ठब्बे कुले गणे आवासे लाभे यसे पसंसाय सुखे चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारे कामधातुया रूपधातुया अरूपधातुया कामभवे रूपभवे अरूपभवे सञ्ञिभवे असञ्ञिभवे नेवसञ्ञिनासञ्ञिभवे एकवोकारभवे चतुवोकारभवे पञ्चवोकारभवे अतीते अनागते पच्चुप्पन्ने दिट्ठसुतमुतविञ्ञातब्बेसु विसटा वित्थताति विसत्तिका’’ति.

तत्थ (महानि. अट्ठ. ३; सं. नि. टी. १.१.१ ओघतरणसुत्तवण्णना) विसताति वित्थता रूपादीसु तेभूमकधम्मब्यापनवसेन. विसटाति पुरिमवचनमेव त-कारस्स ट-कारं कत्वा वुत्तं. विसालाति विपुला. विसक्कतीति परिसहति. रत्तो हि रागवत्थुना परेन ताळियमानोपि सहति, विप्फन्दनं वा ‘‘विसक्कन’’न्ति वदन्ति. विसंहरतीति तथा तथा कामेसु आनिसंसं दस्सेन्ती विविधेहि आकारेहि नेक्खम्माभिमुखप्पवत्तितो चित्तं संहरति संखिपति. विसं वा दुक्खं, तं हरति उपनेतीति अत्थो. अनिच्चादिं निच्चादितो गण्हन्ती विसंवादिका होति. दुक्खनिब्बत्तकस्स कम्मस्स हेतुभावतो विसमूला, विसं वा दुक्खदुक्खादिभूता वेदना मूलं एतिस्साति विसमूला. दुक्खसमुदयत्ता विसं फलं एतिस्साति विसफला. तण्हाय रूपादिकस्स दुक्खस्स परिभोगो होति, न अमतस्साति सा विसपरिभोगा वुत्ता. सब्बत्थ निरुत्तिवसेन पदसिद्धि वेदितब्बा. यो पनेत्थ पधानो अत्थो, तं दस्सेतुं पुन ‘‘विसटा वा पना’’तिआदि वुत्तं.

तन्तं वुच्चति (दी. नि. टी. २.९५ अपसादनावण्णना; सं. नि. टी. २.२.६०) वत्थविननत्थं तन्तवायेहि दण्डके आसञ्चित्वा पसारितसुत्तवट्टि ‘‘तनीयती’’ति कत्वा, तं पन सुत्तं सन्तानाकुलताय निदस्सनभावेन आकुलमेव गहितन्ति आह ‘‘तन्तं विय आकुलजातो’’ति. सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेतुं ‘‘यथा नामा’’तिआदि वुत्तं. समानेतुन्ति पुब्बेनापरं समं कत्वा आनेतुं, अविसमं उजुं कातुन्ति अत्थो. तन्तमेव वा आकुलं तन्ताकुलं, तन्ताकुलं विय जातो भूतोति तन्ताकुलकजातो. विननतो गुलाति इत्थिलिङ्गवसेन लद्धनामस्स तन्तवायस्स गुण्ठिकं नाम आकुलभावेन अग्गतो वा मूलतो वा दुविञ्ञेय्यमेव खलिबद्धतन्तसुत्तन्ति आह ‘‘गुलागुण्ठिकं वुच्चति पेसकारकञ्जियसुत्त’’न्ति.

सकुणिकाति पटपदसकुणिका. सा हि रुक्खसाखासु ओलम्बनकुटवा होति. तञ्हि सा कुटवं ततो ततो तिणहीरादिके आनेत्वा तथा विनति, यथा ते पेसकारकञ्जियसुत्तं विय अग्गेन वा अग्गं, मूलेन वा मूलं समानेतुं विवेचेतुं वा न सक्का. तेनाह ‘‘यथा’’तिआदि. तदुभयम्पि ‘‘गुलागुण्ठिक’’न्ति वुत्तं कञ्जियसुत्तं कुलावकञ्च. पुरिमनयेनेवाति ‘‘एवमेव सत्ता’’तिआदिना वुत्तनयेनेव. कामं मुञ्जपब्बजतिणानि यथाजातानिपि दीघभावेन पतित्वा अरञ्ञट्ठाने अञ्ञमञ्ञं विनन्धित्वा आकुलब्याकुलानि हुत्वा तिट्ठन्ति, तानि पन न तथा दुब्बिवेचियानि यथा रज्जुभूतानीति दस्सेतुं ‘‘यथा तानी’’तिआदि वुत्तं. सेसमेत्थ हेट्ठा वुत्तनयमेव.

अपायाति अवड्ढिका, सुखेन, सुखहेतुना वा विरहिताति अत्थो. दुक्खस्स गतिभावतोति आपायिकस्स दुक्खस्स पवत्तिट्ठानभावतो. सुखसमुस्सयतोति अब्भुदयतो. विनिपतितत्ताति विरूपं निपातत्ता, यथा तेनत्तभावेन सुखसमुस्सयो न होति, एवं निपतितत्ता. इतरोति संसारो. ननु ‘‘अपाय’’न्तिआदिना वुत्तोपि संसारो एवाति? सच्चमेतं, निरयादीनं पन अधिमत्तदुक्खभावदस्सनत्थं अपायादिग्गहणं. गोबलीबद्दञायेनायमत्थो वेदितब्बो.

खन्धानञ्च पटिपाटीति पञ्चन्नं खन्धानं हेतुफलभावेन अपरापरप्पवत्ति. अब्बोच्छिन्नं वत्तमानाति अविच्छेदेन वत्तमाना. तं सब्बम्पीति तं ‘‘अपाय’’न्तिआदिना वुत्तं सब्बं अपायदुक्खञ्च वट्टदुक्खञ्च. महासमुद्दे वातक्खित्ता नावा वियाति इदं परिब्भमनट्ठानस्स महन्तदस्सनत्थञ्चेव परिब्भमनस्स अनवट्ठिततादस्सनत्थञ्च उपमा. यन्ते युत्तगोणो वियाति इदं पन अवसीभावदस्सनत्थञ्चेव दुप्पमोक्खभावदस्सनत्थञ्चाति वेदितब्बं.

‘‘समूहग्गाहोति तण्हामानदिट्ठीनं साधारणग्गाहो’’ति वदन्ति, ‘‘इत्थं एवं अञ्ञथा’’ति पन विसेसं अकत्वा गहणं समूहग्गाहोति दट्ठब्बो. विसेसं अकत्वाति च अनुपनिधानं समतो असमतो च उपनिधानन्ति इमं विभागं अकत्वाति अत्थो. इत्थन्ति हि अनुपनिधानं कथितं. एवं अञ्ञथाति पन समतो असमतो च उपनिधानं. अञ्ञं आकारन्ति परसन्तानगतं आकारं.

अत्थीति सदा संविज्जतीति अत्थो. सीदतीति नस्सति. संसयपरिवितक्कवसेनाति ‘‘किं नु खो अहं सियं, न सिय’’न्ति एवं परिवितक्कवसेन. पत्थनाकप्पनवसेनाति ‘‘अपि नाम साधु पनाहं सिय’’न्ति एवं पत्थनाय कप्पनवसेन. सुद्धसीसाति तण्हामानदिट्ठीनं साधारणा सीसा. ‘‘इत्थं एवं अञ्ञथा’’ति वुत्तस्स विसेसस्स अनिस्सितत्ता ‘‘सुद्धसीसा’’ति वुत्ता. तत्थ दिट्ठिसीसेहि दिट्ठिया गहिताय तदविनाभाविनी तण्हा दस्सिता, चतूहि सीसेहि द्वादसहि च सीसमूलकेहि मानदिट्ठीहि अयमेव तण्हा दस्सिताति आह ‘‘एवमेते…पे… तण्हाविचरितधम्मा वेदितब्बा’’ति. ननु च मानदिट्ठिग्गाहोपि इधाधिप्पेतो, यतो ‘‘तण्हामानदिट्ठिवसेन समूहग्गाहो’’ति अट्ठकथायं वुत्तं, तस्मा कथं तण्हाविचरितानीति इदं वचनं? वुच्चते – दिट्ठिमानेसुपि तण्हाविचरितानीति वचनं अञ्ञमञ्ञं विप्पयोगीनं दिट्ठिमानानं तण्हाय अविप्पयोगानं तंमूलकत्ता तप्पधानताय कतन्ति वेदितब्बं. दसमं उत्तानमेव.

तण्हासुत्तादिवण्णना निट्ठिता.

महावग्गवण्णना निट्ठिता.

चतुत्थपण्णासकं निट्ठितं.