७. वस्सकारसुत्तवण्णना

१८७. सत्तमे वस्सकारो ब्राह्मणो मगधमहामत्तोति एत्थ वस्सकारोति तस्स ब्राह्मणस्स नामं. महतिया इस्सरियमत्ताय समन्नागतो महामत्तो. इस्सरियमत्तायाति च इस्सरियप्पमाणेनाति अत्थो, इस्सरियेन चेव वित्तूपकरणेन चाति एवं वा एत्थ अत्थो दट्ठब्बो, उपभोगूपकरणानिपि हि लोके ‘‘मत्ता’’ति वुच्चन्ति. मगधरञ्ञो, मगधरट्ठे वा महामत्तोति मगधमहामत्तो. तुदिसञ्ञितो गामो निवासो एतस्साति तोदेय्यो. तेनेवाह ‘‘तुदिगामवासिकस्सा’’ति. तुदिगामवासिता चस्स तत्थ अधिपतिभावेनाति दट्ठब्बा. सो हि तं गामं सोणदण्डो विय, चम्पं कूटदन्तो विय, खाणुमतं अधिपतिभावेन अज्झावसति. महद्धनो होति पञ्चचत्तालीसकोटिविभवो. परिसतीति परिसायं, जनसमूहेति अत्थो. तेनाह ‘‘सन्निपतिताय परिसाया’’ति. अभिप्पसन्नोति एत्थ अभिक्कमनत्थो अभि-सद्दोति आह ‘‘अतिक्कम्म पसन्नो’’ति, पसादनीयं ठानं अतिक्कमित्वा अप्पसादनीयट्ठाने पसन्नोति अधिप्पायो. तं तं किच्चं अत्थं पस्सतीति अत्थदसा, अलं समत्था पटिबला अत्थदसा अलमत्थदसा, अलमत्थदसे अतिसयन्तीति अलमत्थदसतरा. तेनाह ‘‘अत्थे पस्सितुं समत्था’’तिआदि. नेव सप्पुरिसं न असप्पुरिसं जानाति सप्पुरिसधम्मानं असप्पुरिसधम्मानञ्च याथावतो अजाननतो. सेसमेत्थ उत्तानमेव.

वस्सकारसुत्तवण्णना निट्ठिता.