८. उपकसुत्तवण्णना
१८८. अट्ठमे निब्बत्तिवसेन निरयं अरहति, निरयसंवत्तनियेन वा कम्मुना निरये नियुत्तोति नेरयिको. अवीचिम्हि उप्पज्जित्वा तत्थ आयुकप्पसञ्ञितं अन्तरकप्पं तिट्ठतीति कप्पट्ठो. निरयूपपत्तिं परिहरणवसेन तिकिच्छितुं असक्कुणेय्योति अतेकिच्छो. अपरियादिन्नावाति अपरिक्खीणायेव. सचे हि एको भिक्खु कायानुपस्सनं पुच्छति, अञ्ञो वेदनानुपस्सनं…पे… चित्तानुपस्सनं. ‘‘इमिना पुट्ठे अहं पुच्छामी’’ति एको एकं न ओलोकेति, एवं सन्तेपि तेसं वारो पञ्ञायति एव, बुद्धानं पन वारो न पञ्ञायति. विदत्थिचतुरङ्गुलं छायं अतिक्कमनतो पुरेतरंयेव भगवा चुद्दसविधेन कायानुपस्सनं, नवविधेन वेदनानुपस्सनं, सोळसविधेन चित्तानुपस्सनं, पञ्चविधेन धम्मानुपस्सनं कथेति. तिट्ठन्तु वा एवं चत्तारो. सचे हि अञ्ञे चत्तारो सम्मप्पधानेसु, अञ्ञे इद्धिपादेसु, अञ्ञे पञ्चिन्द्रियेसु, अञ्ञे पञ्चबलेसु, अञ्ञे सत्तबोज्झङ्गेसु, अञ्ञे अट्ठमग्गङ्गेसु पञ्हे पुच्छेय्युं, तम्पि भगवा कथेय्य. तिट्ठन्तु वा एते अट्ठ. सचे अञ्ञे सत्ततिंस जना बोधिपक्खियेसु पञ्हे पुच्छेय्युं, तम्पि भगवा तावदेव कथेय्य. कस्मा? यावता हि लोकियमहाजने एकं पदं कथेन्ते ताव आनन्दत्थेरो अट्ठ पदानि कथेति. आनन्दत्थेरे पन एकं पदं कथेन्तेयेव भगवा सोळस पदानि कथेति. कस्मा? भगवतो हि जिव्हा मुदु, दन्तावरणं सुफुसितं, वचनं अगळितं, भवङ्गपरिवासो लहुको. तेन वुत्तं – ‘‘अपरियादिन्नावस्स तथागतस्स धम्मदेसना, अपरियादिन्नं धम्मपदब्यञ्जन’’न्ति.
तत्थ धम्मदेसनाति तन्तिट्ठपना. धम्मपदब्यञ्जनन्ति एत्थ धम्मोति पाळि. पज्जति अत्थो एतेनाति पदं. वाक्यञ्च पदेनेव सङ्गहितं. अत्थं ब्यञ्जेतीति ब्यञ्जनं, अक्खरं. तञ्हि पदवाक्यं परिच्छिज्जमानं तं तं अत्थं ब्यञ्जेति पकासेति. एतेन अपरापरेहि पदब्यञ्जनेहि सुचिरम्पि कालं कथेन्तस्स तथागतस्स न कदाचि तेसं परियादानं अत्थीति दस्सेति. गुणधंसीति गुणधंसनसीलो. पगब्बोति वाचापागब्बियेन समन्नागतो.
उपकसुत्तवण्णना निट्ठिता.