६. उम्मग्गसुत्तवण्णना

१८६. छट्ठे आकड्ढीयतीति चित्तवसिको लोको तत्थ तत्थ उपकड्ढीयति. तेसंयेवेत्थ गहणं वेदितब्बन्ति ये अपरिञ्ञातवत्थुका चित्तस्स वसं गच्छन्ति, तेसंयेव गहणं. न हि परिञ्ञातक्खन्धा पहीनकिलेसा चित्तस्स वसं गच्छन्ति, चित्तं पन अत्तनो वसे वत्तेन्ति. सह सीलेनाति चारित्तवारित्तसीलेन सद्धिं. पुब्बभागपटिपदन्ति धुतङ्गमादिं कत्वा याव गोत्रभुञाणं, ताव पवत्तेतब्बं समथविपस्सनासङ्खातं सम्मापटिपदं. सेसं सुविञ्ञेय्यमेव.

उम्मग्गसुत्तवण्णना निट्ठिता.