८. जम्बालीसुत्तवण्णना
१७८. अट्ठमे सन्तन्ति अङ्गसन्तताय चेव आरम्मणसन्तताय च कमनीयं मनोहरं. चेतोविमुत्तिन्ति रूपारूपावचरं चित्तविमुत्तिं. तेनेवाह ‘‘अट्ठन्नं समापत्तीनं अञ्ञतरं समापत्ति’’न्ति. लेपमक्खितेनाति लाखामक्खितेन. पारिपन्थिके असोधेत्वाति कामच्छन्दादिपारिपन्थिके असोधेत्वा. यो हि कामादीनवपच्चवेक्खणादीहि कामच्छन्दं न सुट्ठु विक्खम्भेत्वा कायप्पस्सद्धिवसेन दुट्ठुल्लं सुप्पटिप्पस्सद्धं अकत्वा आरम्भधातुमनसिकारादिवसेन थिनमिद्धं न सुट्ठु पटिविनोदेत्वा समथनिमित्तमनसिकारादिवसेन उद्धच्चकुक्कुच्चं न समूहतं कत्वा अञ्ञेपि समाधिपरिपन्थे धम्मे न सुट्ठु सोधेत्वा झानं समापज्जति. सो असोधितं आसयं पविट्ठभमरो विय असुद्धं उय्यानं पविट्ठराजा विय च खिप्पमेव निक्खमति. यो पन समाधिपरिपन्थे धम्मे सुट्ठु विसोधेत्वा झानं समापज्जति, सो सुविसोधितं आसयं पविट्ठभमरो विय सुपरिसुद्धं उय्यानं पविट्ठराजा विय च सकलम्पि दिवसभागं अन्तोसमापत्तियंयेव होति.
आयमुखानीति नदितळाककन्दरपदरादितो आगमनमग्गा. ते च कन्दरायेवाति आह ‘‘चतस्सो पविसनकन्दरा’’ति. अपायमुखानीति अपगमनमग्गा. अपेन्ति अपगच्छन्ति एतेहीति हि अपाया, ते एव मुखानीति अपायमुखानि. तानि च उदकनिक्खमनच्छिद्दानीति आह ‘‘अपवाहनच्छिद्दानी’’ति, अपायसङ्खातानि उदकनिक्खमनच्छिद्दानीति अत्थो. सेसं सुविञ्ञेय्यमेव.
जम्बालीसुत्तवण्णना निट्ठिता.