१. चेतनासुत्तवण्णना

१७१. ततियस्स पठमे कायसञ्चेतनाहेतूति कायकम्मनिमित्तं, कायिकस्स कम्मस्स कटत्ता उपचितत्ताति अत्थो. एस नयो सेससञ्चेतनाद्वयेपि. उद्धच्चसहगतचेतना पवत्तिविपाकं देतियेवाति ‘‘वीसतिविधा’’ति वुत्तं. तथा वचीसञ्चेतना मनोसञ्चेतनाति एत्थ कामावचरकुसलाकुसलवसेन वीसति चेतना लब्भन्ति. इदं तथा-सद्देन उपसंहरति. अपिचेत्थ नव महग्गतचेतनापि लब्भन्तीति इमिना नवहि रूपारूपकुसलचेतनाहि सद्धिं मनोद्वारे एकूनतिंसाति तीसु द्वारेसु एकूनसत्तति चेतना होन्तीति दस्सेति. अविज्जापच्चयावाति इदं तापि चेतना अविज्जापच्चयाव होन्तीति दस्सनत्थं वुत्तं. यथावुत्ता हि एकूनसत्तति चेतना कुसलापि अविज्जापच्चया होन्ति, पगेव इतरा अप्पहीनाविज्जस्सेव उप्पज्जनतो पहीनाविज्जस्स अनुप्पज्जनतो.

यस्मा यं तं यथावुत्तं चेतनाभेदं कायसङ्खारञ्चेव वचीसङ्खारञ्च मनोसङ्खारञ्च परेहि अनुस्साहितो सामम्पि असङ्खारिकचित्तेन करोति, परेहि कारियमानो ससङ्खारिकचित्तेनपि करोति, ‘‘इदं नाम कम्मं करोन्तोपि तस्स एवरूपो नाम विपाको भविस्सती’’ति एवं कम्मं विपाकञ्च जानन्तोपि करोति, मातापितूसु चेतियवन्दनादीनि करोन्तेसु अनुकरोन्तो दारको विय केवलं कम्मञ्ञेव विज्जानन्तो ‘‘इमस्स पन कम्मस्स अयं विपाको’’ति विपाकं अजानन्तोपि करोति, तस्मा तं दस्सेतुं ‘‘सामं वा त’’न्तिआदि वुत्तं. परेहि अनाणत्तोति सरसेनेव वत्तमानो. जानन्तोति अनुस्सवादिवसेन जानन्तो.

ननु च खीणासवो चेतियं वन्दति, धम्मं भणति, कम्मट्ठानं मनसि करोति, कथमस्स कायकम्मादयो न होन्तीति? अविपाकत्ता. खीणासवेन हि कतकम्मं नेव कुसलं होति नाकुसलं, अविपाकं हुत्वा किरियामत्ते तिट्ठति. तेनस्स ते कायादयो न होन्ति. तेनेवाह ‘‘खीणासवस्स कायेन करणकम्मं पञ्ञायती’’तिआदि. तन्ति कुसलाकुसलं.

खिड्डाय पदुस्सन्तीति खिड्डापदोसिनो, खिड्डापदोसिनो एव खिड्डापदोसिका. खिड्डापदोसो वा एतेसं अत्थीति खिड्डापदोसिका. ते किर पुञ्ञविसेसाधिगतेन महन्तेन अत्तनो सिरिविभवेन नक्खत्तं कीळन्ता ताय सम्पत्तिया महन्तताय ‘‘आहारं परिभुञ्जिम्हा न परिभुञ्जिम्हा’’तिपि न जानन्ति. अथ एकाहारातिक्कमतो पट्ठाय निरन्तरं खादन्तापि पिवन्तापि चवन्तियेव न तिट्ठन्ति. कस्मा? कम्मजतेजस्स बलवताय करजकायस्स मन्दताय. मनुस्सानञ्हि कम्मजतेजो मन्दो, करजकायो बलवा. तेसं तेजस्स मन्दताय कायस्स बलवताय सत्ताहम्पि अतिक्कमित्वा उण्होदकअच्छयागुआदीहि सक्का करजकायं उपत्थम्भेतुं. देवानं पन तेजो बलवा होति उळारपुञ्ञनिब्बत्तत्ता उळारगरुसिनिद्धसुधाहारजीरणतो च. करजं मन्दं मुदुसुखुमालभावतो. ते एकं आहारवेलं अक्कमित्वाव सण्ठापेतुं न सक्कोन्ति. यथा नाम गिम्हानं मज्झन्हिके तत्तपासाणे ठपितं पदुमं वा उप्पलं वा सायन्हसमये घटसतेनपि सिञ्चियमानं पाकतिकं न होति विनस्सतियेव, एवमेव पच्छा निरन्तरं खादन्तापि पिवन्तापि चवन्तियेव न तिट्ठन्ति. कतमे पन ते देवाति? ‘‘इमे नामा’’ति अट्ठकथाय विचारणा नत्थि, ‘‘आहारूपच्छेदेन आतपे खित्तमाला विया’’ति वुत्तत्ता ये केचि कबळीकाराहारूपजीविनो देवा एवं करोन्ति, ते एवं चवन्तीति वेदितब्बा. अभयगिरिवासिनो पनाहु ‘‘निम्मानरतिपरनिम्मितवसवत्तिनो ते देवा, खिड्डाय पदुस्सनमत्तेनेव हेते खिड्डापदोसिकाति वुत्ता’’ति. को पनेत्थ देवानं आहारो, का आहारवेलाति? ‘‘सब्बेसम्पि कामावचरदेवानं सुधा आहारो, सा हेट्ठिमेहि हेट्ठिमेहि उपरिमानं उपरिमानं पणीततमा होति. तं यथासकं दिवसवसेनेव दिवसे दिवसे भुञ्जन्ति. केचि पन बदरप्पमाणं सुधाहारं परिभुञ्जन्ति. सो जिव्हायं ठपितमत्तोयेव याव केसग्गनखग्गा कायं फरति, तेसंयेव दिवसवसेन सत्तदिवसं यापनसमत्थोव होती’’ति वदन्ति.

इस्सापकतत्ता पदुट्ठेन मनसा पदुस्सन्तीति मनोपदोसिका. उसूयवसेन वा मनसो पदोसो मनोपदोसो, सो एतेसं अत्थि विनासहेतुभूतोति मनोपदोसिका. अक्कुद्धो रक्खतीति कुद्धस्स सो कोधो इतरस्मिं अक्कुज्झन्ते अनुपादानो एकवारमेव उप्पत्तिया अनासेवनो चावेतुं न सक्कोति, उदकन्तं पत्वा अग्गि विय निब्बायति, तस्मा अक्कुद्धो तं चवनतो रक्खति. उभोसु पन कुद्धेसु भिय्यो भिय्यो अञ्ञमञ्ञम्हि परिवड्ढनवसेन तिखिणसमुदाचारो निस्सयदहनरसो कोधो उप्पज्जमानो हदयवत्थुं निदहन्तो अच्चन्तसुखुमालं करजकायं विनासेति, ततो सकलोपि अत्तभावो अन्तरधायति. तेनाह ‘‘उभोसु पना’’तिआदि. तथा चाह भगवा ‘‘अञ्ञमञ्ञम्हि पदुट्ठचित्ता किलन्तकाय…पे… चवन्ती’’ति (दी. नि. १.४७).

कतमे तेन देवा दट्ठब्बाति एत्थ तेनाति पच्चत्ते करणवचनन्ति आह ‘‘कतमे नाम ते देवा दट्ठब्बा’’ति. करणत्थेयेव वा एतं करणवचनन्ति दस्सेन्तो आह ‘‘तेन वा अत्तभावेना’’ति. सेसमेत्थ उत्तानमेव.

चेतनासुत्तवण्णना निट्ठिता.