७. पठमतथागतअच्छरियसुत्तवण्णना
१२७. सत्तमे वत्तमानसमीपे वत्तमाने विय वोहरितब्बन्ति ‘‘ओक्कमती’’ति आह ‘‘ओक्कन्तो होतीति अत्थो’’ति. दससहस्सचक्कवाळपत्थरणो समुज्जलभावेन उळारो. देवानुभावन्ति देवानं पभानुभावं. देवानञ्हि पभं सो ओभासो अधिभवति, न देवे. तेनाह ‘‘देवान’’न्तिआदि. रुक्खगच्छादिना केनचि न हञ्ञतीति अघा, असम्बाधा. तेनाह ‘‘निच्चविवरा’’ति. असंवुताति हेट्ठा उपरि केनचि अपिहिता. तेनाह ‘‘हेट्ठापि अप्पतिट्ठा’’ति. तत्थ पि-सद्देन यथा हेट्ठा उदकस्स पिधायिका सन्धारिका पथवी नत्थि असंवुता लोकन्तरिका, एवं उपरिपि चक्कवाळेसु देवविमानानं अभावतो असंवुता अप्पतिट्ठाति दस्सेति. अन्धकारो एत्थ अत्थीति अन्धकारा. चक्खुविञ्ञाणं न जायति आलोकस्स अभावतो, न चक्खुनो. तथा हि ‘‘तेनोभासेन अञ्ञमञ्ञं सञ्जानन्ती’’ति वुत्तं. जम्बुदीपे ठितमज्झन्हिकवेलाय पुब्बविदेहवासीनं अत्थङ्गमवसेन उपड्ढं सूरियमण्डलं पञ्ञायति, अपरगोयानवासीनं उग्गमनवसेन. एवं सेसदीपेसुपीति आह ‘‘एकप्पहारेनेव तीसु दीपेसु पञ्ञायन्ती’’ति. इतो अञ्ञथा द्वीसु एव दीपेसु पञ्ञायन्ति. एकेकाय दिसाय नवनवयोजनसतसहस्सानि अन्धकारविधमनम्पि इमिनाव नयेन दट्ठब्बं. पभाय नप्पहोन्तीति अत्तनो पभाय ओभासितुं नाभिसम्भुणन्ति. युगन्धरपब्बतमत्थकसमप्पमाणे आकासे विचरणतो ‘‘चक्कवाळपब्बतस्स वेमज्झेन चरन्ती’’ति वुत्तं.
ब्यावटाति खादनत्थं गण्हितुं उपक्कमन्ता. विपरिवत्तित्वाति विवट्टित्वा. छिज्जित्वाति मुच्छापवत्तिया ठितट्ठानतो मुच्चित्वा, अङ्गपच्चङ्गछेदनवसेन वा छिज्जित्वा. अच्चन्तखारेति आतपसन्तपाभावेन अतिसीतभावं सन्धाय अच्चन्तखारता वुत्ता सिया. न हि तं कप्पसण्ठानउदकं सम्पत्तिकरमहामेघवुट्ठं पथविसन्धारकं कप्पविनासकउदकं विय खारं भवितुमरहति, तथा सति पथवीपि विलीयेय्य, तेसं वा पापकम्मफलेन पेतानं पकतिउदकस्स पुब्बखेळभावापत्ति विय तस्स उदकस्स खारभावापत्ति होतीति वुत्तं ‘‘अच्चन्तखारे उदके’’ति.
पठमतथागतअच्छरियसुत्तवण्णना निट्ठिता.