४-६. दुतियनानाकरणसुत्तादिवण्णना

१२४-६. चतुत्थे ते धम्मेति ते ‘‘रूपगत’’न्तिआदिना नयेन वुत्ते रूपादयो धम्मे. अनिच्चतोति इमिना निच्चप्पटिक्खेपतो तेसं अनिच्चतमाह, ततो एव च उदयवयवन्ततो विपरिणामतो तावकालिकतो च ते अनिच्चाति जोतितं होति. यञ्हि निब्बत्तं होति, तं उदयवयपरिच्छिन्नं. जराय मरणेन च तदेव विपरीतं, इत्तरक्खणमेव च होतीति. दुक्खतोति इमिना सुखप्पटिक्खेपतो तेसं दुक्खतमाह. ततो एव च अभिण्हप्पटिपीळनतो दुक्खवत्थुतो च ते दुक्खाति जोतितं होति. उदयवयवन्तताय हि ते अभिण्हप्पटिपीळनतो निरन्तरदुक्खताय दुक्खस्सेव च अधिट्ठानभूता. पच्चययापनीयताय रोगमूलताय च रोगतो. दुक्खतासूलयोगतो किलेसासुचिपग्घरणतो उप्पादजराभङ्गेहि उद्धुमातपरिपक्कपभिन्नतो च गण्डतो. पीळाजननतो, अन्तोतुदनतो, दुन्नीहरणतो च सल्लतो. अवड्ढिआवहनतो अघवत्थुतो च अघतो. असेरिभावजननतो आबाधपदट्ठानताय च आबाधतो. अवसवत्तनतो अविधेय्यताय च परतो. ब्याधिजरामरणेहि पलुज्जनीयताय पलोकतो. सामिनिवासिकारकवेदकअधिट्ठायकविरहतो सुञ्ञतो. अत्तप्पटिक्खेपट्ठेन अनत्ततो. रूपादिधम्मा हि न एत्थ अत्ता अत्थीति अनत्ता. एवं सयम्पि अत्ता न होन्तीति अनत्ता. तेन अब्यापारतो निरीहतो तुच्छतो अनत्ताति दीपितं होति. लक्खणत्तयमेव सुखावबोधनत्थं एकादसहि पदेहि विभजित्वा गहितन्ति दस्सेतुं ‘‘तत्था’’तिआदि वुत्तं. पञ्चमछट्ठानि उत्तानत्थानेव.

दुतियनानाकरणसुत्तादिवण्णना निट्ठिता.